मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 102

3
क्रीडाखण्डः · 102

कमलासुरसङ्ग्रामो नाम द्व्युत्तरशततमोऽध्यायः

क उवाच

विनष्टे बहुधा सैन्ये रुरोहाश्वं स दैत्यराट् ।

खड्गपाणिर्ययौ योद्धुं मयूरेशं रुषान्वितः

॥१॥

तं दृष्ट्वा तु मयूरेशो रुरोह स्वं शिखण्डिनम् ।

तं दृष्ट्वा शीघ्रमायान्तं पन्नगास्त्रं स दैत्यराट्

॥२॥

जप्त्वा मन्त्रं च शतधा भार्गवादिष्टमादरात् ।

ससर्ज पन्नगास्त्रं तत्तेजसा जज्वलुर्दिशः

॥३॥

सर्पसैन्यैरवेष्ट्यन्त देवसेनाचरा नराः ।

मृताः केचिद् गताः केचित् पातिताश्चापरेऽवनौ

॥४॥

ननन्द देवस्तं दैत्यमतिवीर्यपराक्रमम् ।

साधु युध्यसि दैत्येन्द्र नेदृशः कोऽपि वीक्षितः

॥५॥

एवमुक्त्वा रिपुं देवो गरुडास्त्रमवासृजत् ।

ततः पलायिताः सर्पाः प्रोत्तिष्ठँश्च चमूचराः

॥६॥

चक्रास्त्रमसृजद्देवो दैत्यसेनानिबर्हणम् ।

तेन केचिन्मृता दैत्याः केचिच्छिन्नाङ्घ्निमस्तकाः

॥७॥

विभिन्नजानुजङ्घाश्च छिन्नगुल्फाः परेऽपतन् ।

गर्जन्ति धाव धावेति पितर्मातः सुतेति च

॥८॥

मुक्तिं याता मयूरेशं दृष्ट्वा प्राणां जहुश्च ये ।

एवं सेना निरस्ताऽस्य ततो दैत्यो रुषाऽद्रवत्

॥९॥

खड्गपाणी रुषा गर्जन् वेगेनायाद्गजाननम् ।

तथाविधं रिपुं दृष्ट्वा परशुं जगृहे विभुः

॥१०॥

ययौ दैत्यं महावेगमसृजत्परशुं च तम् ।

स दहं स्तेजसा व्योम दिशः पक्षिगणानपि

॥११॥

अच्छिनद् दैत्यहस्तं च खड्गं च शतधा जवात् ।

स चापं सहसा गृह्य सज्जं कृत्वा शरान्बहून्

॥१२॥

असङ्ख्यातान्बलाद् विध्यन् छादयामास सैनिकान् ।

गगनं च दिशः सर्वा जगर्ज घननिस्वनः

॥१३॥

शराघातेन बलवान्निवार्य शरपञ्जरम् ।

अन्धकारे बाणमये नाज्ञासीत्कोऽपि कञ्चन

॥१४॥

मयूरेशोऽथ शीघ्रं तदश्वं भूमावपातयत् ।

ततोऽन्तरिक्षे तिष्ठन् स प्रोचे च गणनायकम्

॥१५॥

अश्वो निपातितस्तस्य पश्यमे कौतुकं महत् ।

शिखण्डिनं हनिष्यामि पश्यतस्ते गुणेश्वर

॥१६॥

उभयत्र निषङ्गस्थान् शरान् भूमौ व्यचिक्षिपत् ।

चापमाकृष्य कर्णान्तं चिक्षेप शरसञ्चयान्

॥१७॥

मयूरेशस्य सेनायां मारयन्सर्व सैनिकान् ।

ववर्ष शरजालानि वर्षाकाले घना यथा

॥१८॥

कियन्तो भिन्नसर्वाङ्गाः केचित्प्राणाञ्जहुः सुराः ।

एवं नश्यत्सु वीरेषु मयूरेषो रुषान्वितः

॥१९॥

कमलासुरबाणैस्तु विद्धं त्यक्त्वा शिखण्डिनम् ।

पाशं करेण जग्राह तोलयित्वा स सादरम्

॥२०॥

जगर्ज नादयन् व्योम तत्याज महसा युतम् ।

स पातयन् दैत्यगणान् ददाह रिपुसैनिकान्

॥२१॥

कण्ठे च न्यपतत्तस्य दैत्यसेनाधिपस्य ह ।

रुरोध श्वासमस्यासौ दैत्यो रूपान्तरं श्रितः

॥२२॥

मूर्ध्ना सञ्छादयामास तत्क्षणाद्रविमण्डलम् ।

अन्धकारे घोरतमे न प्रज्ञायत किञ्चन

॥२३॥

उवाच सम्मुखो भूत्वा मयूरेशं रुषान्वितः ।

मया किं युध्यसे बाल गच्छ मातुः स्तनं पिब

॥२४॥

रमस्व बालकैर्नोचेन्मरिष्यसि ममाग्रतः ।

मम चाक्रन्दनेनैव कम्पते भुवनत्रयम

॥२५॥

पादे भूमौ स्थाप्यमाने शेषोऽपि चलते ह्यधः ।

मम मुष्टिप्रहारेण चूर्णी भूता महाचलाः

॥२६॥

नखाग्रेण शिरस्तेऽहं गमयिष्ये रसातलम् ।

क उवाच ।

एवणाकर्ण्य दुर्बुद्धेर्वाक्यं प्रोचे गजाननः ।

पिशाचवन्मद्यपवत्किं वल्गसि ममाग्रतः

॥२७॥

न जयं प्राप्नुते क्वापि देवद्विजविनिन्दकः ।

मम चेद् भविता क्रोधो ज्वालयेद् भुवनत्रयम्

॥२८॥

यशस्ते ख्यापितुं लोके युद्धयामि हर्षनिर्भरः ।

नो चेद् हुङ्कारमात्रेण नीतः स्याद् यमसादनम्

॥२९॥

क उवाच

एवमाकर्ण्य तद्वाक्यं दैत्यः क्रोधानलाकुलः ।

क्ष्वेडितं प्रतिशब्देन नादयन् विदिशो दिशः

॥३०॥

तदा गार्भ निपतितास्तस्य शब्देन तत्क्षणात् ।

प्रमथाद्या गणाः केचिन्मूर्छिता धरणीं गताः

॥३१॥

आकर्णं धनुराकृष्य मुमोच कमलासुरः ।

शरवृष्टिं पुना रौद्रां मयूरेशे बलेऽपि च

॥३२॥

इति श्रीगणेशपुराणे क्रीडाखण्डे कमलासुरसङ्ग्रामो नाम द्व्युत्तरशततमोऽध्यायः ॥ १०२ ॥