मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 125

3
क्रीडाखण्डः · 125

पञ्चविंशोत्तरशततमोऽध्यायः

क उवाच

सभां संवारयामास चक्रपाणिः पुरो गतः ।

परार्ध्यास्तरणैर्वस्त्रैः पताकाध्वजचामरैः

॥१॥

नानारत्नेषु दीप्तेषु भूमिस्तम्भगतेषुच ।

अनन्तो दृश्यते यत्र सङ्क्रान्तप्रतिमो नरः

॥२॥

ददर्श नगरीं देवो नानाध्वजविराजिताम् ।

प्रासादशिखरारूढाः पश्यन्ति स्माऽसुरस्त्रियः

॥३॥

ततो मुक्ताः सुरास्ते तं सम्मुखं चक्रपाणिना ।

आयर्युमाधवः शक्रोऽनल ऐलविलोऽपि च

॥४॥

मरुद् रविः शशी चान्ये वाद्यघोषेण सत्वरम् ।

स्वस्ववाहात् समुत्तीर्य प्रणेमुः सर्व एव तम्

॥५॥

आलिलिङ्गुर्मयूरेशं देवाः पौराश्च सादरम् ।

माधवश्च मयूरेशं दृष्ट्वा हर्षसमन्वितः

॥६॥

प्रशशंसुः सिन्धुवधात् सर्वे हर्यादयः सुराः ।

देवा ऊचुः ।

आक्रान्तं विष्टपं येन सहतः क्षणमात्रतः

॥७॥

दत्तानि स्वपदान्याशु नेदृग्दृष्टो न वा श्रुतः ।

अत्र ये वैष्णवाः शैवाः शाक्ताः सौराश्च तेऽप्यमुम्

॥८॥

तत्तद्रूपं निरीक्ष्यैव पुपूजुः परया मुदा ।

मयूरेश जयस्वेति श्रुत्वा वाचः सुविस्मिताः

॥९॥

बालकाश्च सुसम्पन्ना मुग्धाः प्रौढाश्च योषितः ।

पुपूजुर्मनसा देवं वृद्धाश्च तरुणास्तदा

॥१०॥

चक्रपाणिगृहे देवो मध्ये सिंहासने शुभे

॥११॥

उपविष्टो मयूरेशो विबुधाश्च समन्ततः ।

मुनयश्च गणाः सर्वे सप्तकोटिमिता मुने

॥१२॥

नुनुवुर्बन्दिनः सर्वै धन्या देवा नृपास्तथा ।

ननृतुश्चाप्सरःसङ्घा जगुस्ते नारदादयः

॥१३॥

चक्रपाणिस्ततः सर्वान् सम्पूज्य विधिवत् तदा ।

उवाच च सभामध्ये धन्यं मे जन्म कर्म च

॥१४॥

इन्द्रादयो लोकपालाः समितौ यस्य मेऽधुना ।

शतजन्मार्जितैः पुण्यैर्मयूरेशो निरीक्षितः

॥१५॥

क उवाच

इन्द्रो दृष्ट्वा मयूरेशं प्रथमं पूजितं रुषा ।

अब्रवीत् सहसा भ्रान्तो मायया जगदीशितुः

॥१६॥

शक्र उवाच

चतुर्मुखोऽपि लक्ष्मीशो जगदुत्पत्तिकारकः ।

मूढोऽसि चक्रपाणे त्वमर्भस्य प्रपूजनात्

॥१७॥

अस्मान् धिक्कृत्य यन्मोहात् पूजितो बालकस्त्वया ।

जनकं सर्वलोकानां त्यज्य संहारकारकम्

॥१८॥

त्रैलोक्यजननीमम्बां सृष्टिस्थित्यन्तकारिणीम् ।

रविं त्रैलोक्यनेतारं त्रयीकर्मप्रवर्तकम्

॥१९॥

हित्वा सम्पूचितो बालो नेदं सम्यक्कृतं त्वया

॥२०॥

क उवाच

एवं वदति देवेन्द्रे चक्रपाणिस्तदाऽब्रवीत् ।

रुद्रात्सूर्यात्कुबेराच्च शक्राच्च मरुतोऽनलात्

॥२१॥

दृष्टः पराक्रमोऽतीव सिन्धुदैत्यविनाशनात् ।

मोक्षात्सर्वसुराणाञ्च कारागाराद् गुणेश्वरः

॥२२॥

योवऽतीर्णो भुवो भारं हर्तुं शिवनिवेशने ।

परमात्मानन्तशक्तिर्नानादैत्यविभञ्जनः

॥२३॥

क उवाच

एवं वदति तस्मिंस्तु श्रुतः शब्दः सुरैर्महान् ।

मूर्छिताः पतिताः केचिद् ब्रह्माण्डस्फोटशङ्कया

॥२४॥

च कम्पे धरणी सर्वा न प्राज्ञायत किचन ।

कोटिसूर्यप्रकाशेन सहसाच्छादितं जगत्

॥२५॥

ततस्तैस्त्रिदशैस्तत्र दृष्टो देवोऽतिसुन्दरः ।

नानालङ्कारसंयुक्तो दशबाहुर्गजाननः

॥२६॥

एवं दृष्ट्वा स्वरूपं ते विस्मितास्त्रिदशास्तदा ।

पुनस्तमेव ददृशुः पञ्चरूपिणमीश्वरम्

॥२७॥

पद्मासनगतं मध्ये वक्रतुण्डं शिवं पुनः ।

आग्नेय्यां नैऋते सूर्यं पार्वतीं मारुतेऽपि च

॥२८॥

नारायणं तथेशान्ये ततो भ्रममिताः सुराः ।

ततस्ते शुश्रुवुर्व्योमवाणीं भ्रमनिवारिकाम्

॥२९॥

आराध्योऽयं सर्वजनैरेको जातः स पञ्चधा ।

अनादिनिधनो देवो जगद्व्यापी गजाननः

॥३०॥

अयमेव सदा पूज्यः सर्वविघ्नविनाशनः ।

देवैर्मनुष्यैर्यक्षैश्च नागै रक्षोभिरेव च

॥३१॥

एतास्मिन्पूजिते पञ्चपूजनं च भविष्यति ।

न बुद्धिभेदं तनुयादेतस्मिन् नरकाय सा

॥३२॥

क उवाच

श्रुत्वैवं ते मयूरेशं शुण्डादण्डविराजितम् ।

ददृशुर्वज्रिमुख्यास्ते आद्यमोङ्काररूपिणम्

॥३३॥

ततः प्रबुद्धास्ते देवास्त्यक्त्वा भ्रान्तिस्मयं च तम् ।

पुपूजुर्जयशब्दैस्तं सर्वान्तर्यामिणं विभुम्

॥३४॥

ततः पुपूजे हर्षेण चक्रपाणिर्गुणेश्वरम् ।

पञ्चामृतैः शुद्धजलैर्दिव्यवस्त्रैश्च भूषणैः

॥३५॥

पुष्पैर्धूपैश्च दीपैश्च नैवेद्यैर्विविधैरपि ।

फलताम्बूलनिचयैर्दक्षिणाभिरनेकशः

॥३६॥

नीराजनैर्मन्त्रपुष्पैर्नतिभिः स्तुतिभिस्तदा ।

तथैव पूजयामास भक्त्या सर्वसुरानपि

॥३७॥

उवाच तान् नृपवरो धन्योऽहं च प्रपूजनात् ।

यतो नैतादृशः क्वापि जातः सर्वसमागमः

॥३८॥

ततस्तत्राब्रवीत् हृष्टो नारदश्चतुराननम् ।

नारद उवाच ।

सिद्धिबुद्धि विवाहार्थमाज्ञया तेऽब्जसम्भव

॥३९॥

शिवं शिवां च विज्ञाप्य निश्चयः प्राङ्मया कृतः ।

मयूरेशाय सम्यक्ते दातव्ये बहुलक्षणे

॥४०॥

ततः सर्वे सुरा देवं ब्रह्माणं मन्मथातुराः ।

प्रत्येकं ते ह्ययाचन्त मम देहीति सादरम्

॥४१॥

ततो ब्रह्मा तयोर्हस्ते मालां दत्त्वाऽब्रवीदिदम् ।

क उवाच ।

त्रयस्त्रिंशत्कोटिसुरेष्वेको यो भासते हृदि

॥४२॥

तमेव वृणुतं देव्यौ मालाभ्यां मत्समक्षतः ।

त्यक्वा सर्वान्सुराँस्तेतु सिद्धिबुद्धी उभे अपि

॥४३॥

मयूरेशगले माले निक्षिपेतां मुदा तदा ।

विमनस्कास्ततो देवा असृजन् श्वासमारुतम्

॥४४॥

ताभ्यां जानुगताभ्यां तु शुशुभे स मयूरराट् ।

ब्रह्मा यथाविधि तयोर्विवाहमकरोत्तदा

॥४५॥

उवाच च सभामध्ये मया लब्धं हृदि स्थितम् ।

न्यवेदयत् तं देवेशं मयूरेशं विधानतः

॥४६॥

अद्य यावन्मयैते वै पालिते बहुयत्नतः ।

इदानीं ते मया दत्ते रक्षस्व बहुयत्नतः

॥४७॥

तत इन्द्रादयो देवा मयूरेशं व्यजिज्ञपुः ।

तव प्रसादाद् देवेश मुक्ताः कारागृहात् ततः

॥४८॥

ततः सिन्धुर्गतो मोक्षं स्वस्थानं कृपया तव ।

यास्यामो देह्यनुज्ञां नो मुनिभिर्गौतमादिभिः

॥४९॥

क उवाच

ददावाज्ञां मयूरेशो यातुकामान्मुदा तदा ।

पार्वती च स्नुषे चोभे स्वाङ्कमारोप्य सादरम्

॥५०॥

मयूरेशं च परमं हर्षमाप शिवान्विता ।

ददौ दानान्यनेकानि वासांस्याभरणानि च

॥५१॥

य इदं श‍ृणुयान्मर्त्यो विवाहं च वयं शुभम् ।

सिन्धोर्जय गणेशस्य सर्वकामाल्लँभेन्नरः

॥५२॥

इति श्रीगणेशपुराणे क्रीडाखण्डे श्रीगणेशविवाहवर्णनं नाम पञ्चविंशोत्तरशततमोऽध्यायः ॥ १२५ ॥