कलविकलवधो नामाष्टादशोत्तरशततमोऽध्यायः
क उवाच
युद्धावेशदुराधर्षः उपविष्टो महासने ।
स तदा वीरमुख्यांस्तानुपविष्टानथाब्रवीत्
॥१॥सिन्धुरुवाच
गतौ मम प्रधानौ तौ त्रैलोक्याकर्षणक्षमौ ।
न तादृशोऽस्ति वीरोऽत्र यो मे हन्याद् रिपुं बलात्
॥२॥नेतादृशौ बुद्धिमन्तौ पराक्रमजयैषिणौ ।
वीरा ऊचस्ततः सिन्धुं मा चिन्तां कुरु सर्वथा
॥३॥यावद्वयं प्राणवन्तो लघुकृत्य उपस्थिते ।
किमर्थं चिन्ताकुलतां तावद् व्रजसि दैत्यराट्
॥४॥स्वापं कुरु महाभाग पर्यङ्के पुष्यसंस्तरे ।
कृतान्तस्ताडितो याभ्यां तयोः कस्माद् भयं भवेत्
॥५॥एवमुक्त्वा कलः सिन्धुं विकलश्च महाबलौ ।
श्यालकौ तस्य दैत्यस्य निर्यातौ युद्धुदुर्मदौ
॥६॥नानायुद्धेषु कुशलौ नानायुधधरावुभौ ।
नानाभूषणवस्त्राढ्यौ नानासेनासमन्वितौ
॥७॥नानागर्जनतो व्योम चक्रतुर्नादसंयुतम् ।
देवकोटिनिहन्तारौ असङ्ख्यवाहिनीयुतौ
॥८॥ययुस्तत्पुरतोवीराः सिन्दूरारुणमस्तकाः ।
अग्निशस्त्रधरा मुक्तकेशपाशाः सचन्दनाः
॥९॥लसच्छस्त्रधराः सर्वे यममत्तुमिवोद्यताः ।
ततः करिघटा याता नानाधातुविचित्रिताः
॥१०॥अधिष्ठाता महामात्रैर्नानाभूषाविराजिताः ।
तीक्ष्णदन्ताः सिन्दुरिता घण्टानादनिनादिताः
॥११॥ततोऽश्वसादिनो यातास्तनुत्राणविराजिताः ।
धनुर्बाणधराः सर्वे लसच्छत्रविभूषिताः
॥१२॥अनेकयुद्धसम्भार रथा यातास्ततः परम् ।
अनेकवीरसंयुक्ता नानासूतविराजिताः
॥१३॥एवं तौ शालकौ यातौ रणस्थानं रुषान्वितौ ।
ददृशाते मयूरेशमाशीविषभुजि स्थितम्
॥१४॥षडाननादिभिर्वीरैरन्यैश्च परिवारितम् ।
दृष्टा तैस्तु तयोः सेना घोरा सा चतुरङ्गिणी
॥१५॥असङ्ख्यातं बलं तस्य समायातं विचित्रितम् ।
प्रेषितो देवप्रवरैर्दूतो नीतिविशारदः
॥१६॥ज्ञात्वा वृत्तान्तमायातः स जगाद सुरान्प्रति ।
दूत उवाच ।
कलश्च विकलश्चैव नानासेनासमायुतौ
॥१७॥जेतुं सुरान् समायातौ नानायुद्धविशारदौ ।
ताभ्यां युद्धाय सम्प्राप्तौ पुष्पदन्तवृषावुभौ
॥१८॥धनुषी सज्जतां नीत्वा षष्टया बाणैरविध्यताम् ।
दैत्यौ बाणान् निवार्यैव तावुभौ बाणवृष्टिभिः
॥१९॥छादितौ शरघातेन घ्नतः स्म देवसैनिकान् ।
कलस्य खड्गं खड्गेन बिभेद स महावृषः
॥२०॥सैन्यमादाय तस्याशु खड्गं छित्त्वा न्यपातयत् ।
विकलस्य पुष्पदन्तो धनुश्चिच्छेद सायकैः
॥२१॥ततस्तौ मल्लयुद्धेन परस्परमयुध्यताम् ।
ते सेनेऽयुद्ध्यतां तत्र नानाशस्त्रास्त्रपत्रिभिः
॥२२॥मायाभिर्विविधाभिश्च परस्परजयेच्छया ।
ततः पपाल दैत्यानां सेना शस्त्रार्दिता भृशम्
॥२३॥केऽपि देवाः पृष्ठलग्ना मारयन्त्यसुरांश्च तान् ।
पादाघातेन निहता दैत्यसेनाचरा नराः
॥२४॥मृतासृक्प्रवहा तत्र वाहिनी भीरुभीतिदा ।
सम्प्रवृत्ता महाघोरा भूतपक्षिप्रमोदिनी
॥२५॥ततो वेगात् समुड्डीय कलश्च विकलश्च ह ।
शस्त्रवृष्टि महोग्रां तौ चक्रतुर्युद्धदुर्मदौ
॥२६॥तया हता देवसेना स्रवद्रक्ता पपाल ह ।
ततो वृषोऽहनत् सेनां शृङ्गाभ्यां च तयोर्भृशम्
॥२७॥लत्ताभिश्च जघानाशु फूत्कारेण न्यपातयत् ।
पुच्छाघातेन कांश्चिच्च चूर्णयामास दैत्यपान्
॥२८॥एवं तेन हता सेना नानादैत्यसमाकुला ।
हाहाकारो महानासीद् दैत्यानां तत्र नश्यताम्
॥२९॥ततोऽतिबलिनौ वीरौ कलश्च विकलश्च ह ।
जगर्जतुरुभौ रोषाद् गर्जयन्तौ दिशो दश
॥३०॥निनिन्दतुस्तौ वृषभं किं त्वं युध्यसि नौ पुरः ।
तृणादनेषु शक्रस्त्वं तृणरूपोऽसि साम्प्रतम्
॥३१॥दध्रात एवमुक्त्वा तौ तस्य शृङ्गे महाबलौ ।
विकृष्य प्रापतुरुभौ स्वसेनां चतुरङ्गिणीम्
॥३२॥तं मोचितुं पुष्पदन्तोऽभिययौ सहसा जवात् ।
ततस्तं विकलो लत्ताप्रहारैः पातयन् भुवि
॥३३॥ननर्द वाद्यघोषेण हर्षनिर्भरमानसः ॥
स मूर्च्छितो मुहूर्त्तात्तु संज्ञां प्रापदनातुरः
॥३४॥ततो योद्धुं समायातौ वीरभद्रषडाननौ ॥
कलः पर्वतघातेन शतधान्यपतद् भुवि
॥३५॥वीरभद्रस्तु विकलं तलघातादपातयत् ।
दृष्ट्वा स्कन्देन निहतं कलं दैत्यं महाद्रिणा
॥३६॥ततो ययुः स्वशिबिरं गणास्ते जयशालिनः ।
ततः शस्त्रहताः केचिज्जीवन्तो गण्डकीं ययुः
॥३७॥शशंसुर्दैत्यराजाय नानासेनायुतः कलः ।
विकलश्च हतो रोषाद् वीरभद्रादिभिर्गणैः
॥३८॥गतास्ते शिबिरं देवगणास्तु जयशालिनः
॥३९॥इति श्रीगणेशपुराणे क्रीडाखण्डे कलविकलवधो नामाष्टादशोत्तरशततमोऽध्यायः ॥ ११८ ॥