मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 80

3
क्रीडाखण्डः · 80

अशीतितमोऽध्यायः

क उवाच

तत्र सा काननं दृष्ट्वा रम्यं पुष्पजलान्वितम् ।

तस्थौ पद्मासनगता नासाग्रन्यस्तलोचना

॥१॥

गणेशध्याननिरता प्राङ्गमुखी जपतत्परा ।

एकाक्षरस्य मन्त्रस्य शुष्कद्रुम इव स्थिता

॥२॥

न फलं न जलं मूलं पर्णं कन्दं न मारुतम् ।

अत्ति सा निश्चला तत्र निर्वाणं परमं श्रिता

॥३॥

एवं सा द्वादशाब्दानि व्यतीतानि ततो विभुः ।

कृपयाऽऽविरभूत्प्रीतो गुणेशो गुणवल्लभः

॥४॥

किरीटकुण्डलधरो दशबाहुस्त्रिशूलभृत् ।

भालचन्द्रः शङ्खचक्रमुक्तामालाविभूषितः

॥५॥

अक्षमालां च कमलं कस्तूरीतिलकं दधत् ।

मध्ये नारायणमुखो दक्षिणे च शिवाननः

॥६॥

वामे ब्रह्ममुखः शेषे पद्मासनगतो विभुः ।

तत्फणामण्डलच्छायः कुन्दकर्पूरसन्निभः

॥७॥

उवाच जगदम्बां तां यं ध्यायसि दिवानिशम् ।

गुणेशो गुणेश इति सोऽहं ते दर्शनं गतः

॥८॥

तव निष्ठां च भक्ति च तप उग्रमवेक्ष्य च ।

मम स्वरूपं वक्ष्यामि प्रीतस्तव वरानने

॥९॥

त्रयस्त्रिंशत्कोटिदेवेष्वधिको न च मत्परः ।

गुणत्रयविभागाच्च गुणेश इति मां विदुः

॥१०॥

त्रिदेहो गुणतश्चाहं सन्तुष्टस्तपसा च ते ।

वरं वरय मत्तस्त्वं यत्ते मनसि वर्तते

॥११॥

असाध्यमपि दास्यामि त्रैलोक्येऽस्मिन् महेश्वरि ।

इति तद्वचनं श्रुत्वा हर्षगद्गदनिःस्वना

॥१२॥

उन्मील्य नयने गौरी पश्यति स्म पुरो विभुम् ।

गुणशं त्रिगुणेशं च त्रितनुं प्रणनाम सा

॥१३॥

उवाच जन्मनिष्ठा च तपो मन्त्रो हरोऽपि च ।

अद्य धन्यतमो जातो दृष्ट्वा ते पदपङ्कजम्

॥१४॥

अद्य सिद्धिः परा प्राप्ता साक्षादृष्टो यतो भवान् ।

न काङ्क्षेऽन्यवरं कच्चित् त्वद्वाक्यं न च लङ्घये

॥१५॥

अतस्त्वं पुत्रतां याहि मम प्रीतिकरो भव ।

निरन्तरं दर्शनं ते सेवनं पूजनं भवेत्

॥१६॥

इति तस्या वचः श्रुत्वा गुणेशो हर्ष निर्भरः ।

उवाच गिरिजां तां स भविष्यामि सुतस्तव

॥१७॥

वाञ्छितं पूरयिष्यामि लोकानां च तवापि च ।

एवमुक्त्वा गुणेशस्तामन्तर्धानमगात्क्षणात्

॥१८॥

न ददर्श यदा देवी गुणेशं तं क्षणात्तदा ।

अमन्यत मया दृष्टः स्वप्ना किं सुखदःक्षणम्

॥१९॥

ईश्वरस्योपदेशेन दृष्टो देवोऽखिलार्थदः ।

न सोढुं विरहं तस्य शक्तास्मीति व्यधाच्छिवा

॥२०॥

गुणेशप्रतिमां कृत्वा स्थापयामास सादरम् ।

प्रासादं कारयामास चतुर्द्वारं सुशोभनम्

॥२१॥

गिरिजात्मजेति तन्नाम स्थापयामास सुन्दरम् ।

सिद्धिक्षेत्रमिति ख्यातं भविष्यति नृणामिह

॥२२॥

अनुष्ठानवतां सिद्धिर्भविष्यति न संशयः ।

इति दत्त्वा वरं तत्र सम्पूज्य च यथा विधि

॥२३॥

प्रदक्षिणा नमस्कारान्कृत्वा च द्विजपूजनम् ।

दत्त्वा दानानि तेभ्यश्च गृहीत्वाशीर्वचो द्विजात् ।

त्रिसन्ध्याक्षेत्रमगमद् योगस्थं ददृशे हरम्

॥२४॥

तत्पादपङ्कजे स्वीयं शिरःपद्मन्न्यधाच्छिवा ।

उवाच निजवृत्तान्तमाज्ञां प्राप्य विभो तव

॥२५॥

उपदेशं मनोश्चापि द्वादशाब्दं कृतं तपः ।

अवायुभक्षया स्वामिन् ततस्तुष्टो गुणेश्वरः

॥२६॥

उवाच परमप्रीतो भावं ज्ञात्वा परं मम ।

तवोदरेऽवतारं तु करिष्याम्यचलात्मजे

॥२७॥

वाञ्छितं च करिष्यामि देवानां च तवापि च ।

एवमुक्त्वा क्षणेनाऽसौ तत्रैवाऽन्तर्दधे विभुः

॥२८॥

ततोऽहं परमप्रीता मूर्तिं प्रासादमेव च ।

विधाय स्थापयित्वा तां तवान्तिकमुपागता

॥२९॥

क उवाच

एवं श्रुत्वा प्रियावाक्यं प्रहृष्टमानसो हरः ।

प्रोत्फुल्लनयनः प्राह धन्याऽसि गिरिजात्मजे

॥३०॥

साक्षाद् दृष्टो गुणेशस्ते गृहे सोऽवतरिष्यति

॥३१॥

हनिष्यति महादैत्यं भूभारं च हरिष्यति ।

इन्द्रादिलोकपालानां स्वपदानि प्रदास्यति

॥३२॥

एतन्मम वचो देवि न च विस्मर्तुमर्हसि ।

क उवाच ।

एवमुक्त्वा शिवो देव आलिलिङ्ग शिवां तदा

॥३३॥

आनन्दाश्रूणि मुञ्चन्तौ रोमाञ्चिततनू उभौ ।

तिष्ठन्तौ परमाल्हादयुतावम्बामहेश्वरौ

॥३४॥

इति श्रीगणेशपुराणे क्रीडाखण्डे श्रीगणेशदर्शनं नामऽशीतितमोऽध्यायः ॥ ८० ॥