मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 142

3
क्रीडाखण्डः · 142

योगावृत्ति प्रशंसनायोगोनाम पञ्चमोऽध्याय

५ द्वेचत्वारिंशादधिकशततमोऽध्यायः ।

श्री गजानन उवाच ।

श्रौतस्मार्त्तानि कर्माणि फलं नेच्छन् समाचरेत् ।

शस्तः स योगी राजेन्द्र अक्रियाद् योगमाश्रितात्

॥१॥

योगप्राप्त्यै महाबाहो हेतुः कर्मैव मे मतम् ।

सिद्धयोगस्य संसिद्ध्यै हेतू शमदमौ मतौ

॥२॥

इन्द्रियार्थांश्च सङ्कल्प्य कुर्वन्स्वस्य रिपुर्भवेत् ।

एताननिच्छन् यः कुर्वन् सिद्धिं योगी स सिद्ध्यति

॥३॥

सुहृत्त्वे च रिपुत्वे च उद्धारे चैव बन्धने ।

आत्मनैवात्मनो ह्यात्माऽनात्मा भवति कश्चन

॥४॥

मानेऽपमाने दुःखे च सुखे सुहृदि साधुषु ।

मित्रेऽमित्रेऽप्युदासीने द्वेष्ये लोष्ठे च काञ्चने

॥५॥

समो जितात्मा विज्ञानी ज्ञानीन्द्रियजयावहः ।

अभ्यसेत्सततं योगं तदा युक्ततमो हि सः

॥६॥

तप्तः श्रान्तो व्याकुलो वा क्षुधितोऽव्यग्रचित्तकः ।

कालेऽनिशीतेऽत्युष्णे वाऽनिलाग्न्यम्बुसमाकुले

॥७॥

सध्वनावतिजीर्णे गोस्थाने साग्नौ जलान्तिके ।

कूपकूले श्मशाने च नद्यां भिन्नौ च मर्मरे

॥८॥

चैत्ये सवल्मिके देशे पिशाचादिसमावृते ।

नाभ्यसेद् योगविद्योगं योगीध्यानपरायणः

॥९॥

स्मृतिलोपश्च मूकत्वं बाधिर्यमन्धता ज्वरः ।

जडता जायते सद्यो दोषाज्ञानाद्धि योगिनः

॥१०॥

एते दोषाः परित्याज्या योगाभ्यासेनशालिना ।

अनादरे हि चैतेषां स्मृतिलोपादयो ध्रुवम्

॥११॥

नातिभुञ्जन्सदा योगी नाभुञ्जन्नातिनिद्रितः ।

नातिजाग्रत सिद्धिमेति भूप योगं सदाऽभ्यसन्

॥१२॥

सङ्कल्पजांस्त्यजेत्कामान् नियताहारजागरः ।

नियम्य खगणं बुद्धया विरमेत शनैः शनैः

॥१३॥

ततस्ततः कृषदेतद् यत्र यत्रानुगच्छति ।

धृत्यात्मवशगं कुर्याच्चित्तं चञ्चलमादृतः

॥१४॥

एवं कुर्वन् सदा योगी परां निर्वृतिमृच्छति ।

विश्वस्मिन् निजमात्मानं विश्वं च स्वात्मनीक्षते

॥१५॥

योगेन यो मामुपैति तमुपैम्यहमादरात् ।

मोचयामि न मुञ्चामि तमहं मां न स त्यजेत्

॥१६॥

सुखेदुःखेतरेद्वेषे क्षुधि तोषे समस्तृषि ।

आत्मसाम्येन भूतानि सर्वगं मां च वेत्ति यः

॥१७॥

जीवन्मुक्तः स योगीन्द्रः केवलं मयि सङ्गतः ।

ब्रह्मादीनां च देवानां स वन्द्यः स्याज्जगत्त्रये

॥१८॥

वरेण्य उवाच

द्विविधोऽपि हि योगोऽयमसम्भाव्यो हि मे मतः ।

यतोऽन्तःकरणं दुष्टं चञ्चलं दुर्ग्रहं विभो

॥१९॥

श्री गजानन उवाच

यो निग्रहं दुर्ग्रहस्य मनसा सम्प्रकल्पयेत् ।

घटीयन्त्रसमादस्मान्मुक्तिः संसृतिचक्रकात्

॥२०॥

विषयैः क्रकचैरेतत्संसृष्टं चक्रकं दृढम् ।

जनश्छेत्तुं न शक्नोति कर्मकीलैः सुसंवृतम्

॥२१॥

अतिदुःखं च वैराग्यं भोगाद् वैतृष्ण्यमेव च ।

गुरुप्रसादः सत्सङ्ग उपायास्तज्जये अमी

॥२२॥

अभ्यासाद्वा वशीकुर्यान्मनो योगस्य सिद्धये ।

वरेण्य दुर्लभो योगो विनाऽस्य मनसो जयात्

॥२३॥

वरेण्य उवाच

योगभ्रष्टस्य को लोकः का गतिः किं फलं भवेत् ।

विभो सर्वज्ञ मे छिन्धि संशयं बुद्धिचक्रभृत्

॥२४॥

श्री गजानन उवाच

दिव्यदेहधरो योगात् भ्रष्टः स्वर्भोगमुत्तमम् ।

भुक्त्वा योगिकुले जन्म लभेद् बुद्धिमतां कुले

॥२५॥

पुनर्योगी भवत्येष संस्कारात्पूर्वकर्मजात् ।

न हि पुण्यकृतां कश्चिन्नरकं प्रतिपद्यते

॥२६॥

ज्ञाननिष्ठः तपोनिष्ठः कर्मनिष्ठो नराधिप ।

श्रेष्ठो योगी श्रेष्ठतमो भक्तिमान्मयि तेषु यः

॥२७॥

ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामतार्थशास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे योगावृत्ति प्रशंसनयोगोनाम पञ्चमोऽध्याय

॥५॥

इति श्रीगणेशपुराणे क्रीडाखण्डे प्रशंसनयोगोनाम द्वेचत्वारिंशादधिकशततमोऽध्यायः ॥ १४२ ॥