बालचरिते नृपप्रत्यागमो नाम षोडशोऽध्यायः
क उवाच
शृण व्यास प्रवक्ष्यामि कथामाश्चर्यकारिणीम् ।
यां श्रुत्वा मानवो भक्त्या सुखमत्यन्तमश्नुते
॥१॥उत्थाय कल्पे राजाऽसौ नित्यं कृत्वा ययौ बहिः ।
विनायकालयं गत्वा नत्वा तं परिपूज्य च
॥२॥सम्प्रार्थयद्भोजनार्थं ततो बालं विनायकम् ।
ततो ददौ स उद्गारं नानापक्वान्न तृप्तिजम्
॥३॥शेषं ददर्श तत्रासौ लड्डुकान् पायसादिकम् ।
अपूपान् वटकान् पुण्यमोदनं सूपसंयुतम्
॥४॥दधि दुग्धं मधु घृतं कथिकापात्रसञ्चयम् ।
मणिमुक्तामयीं मालां नानालङ्करणानि च
॥५॥अपश्यत् तस्य देहेऽसावनर्घ्याणि नवानि च ।
पुनर्नत्वा च पप्रच्छ नृपतिस्तं विनायकम्
॥६॥केन भक्तेन पूजेयं कृता ते जगदीश्वर ।
तमहं ज्ञातुमिच्छामि द्रष्टुं च त्वत्प्रसादतः
॥७॥एवमुक्तो नृपेणाऽथ वदति स्म विनायकः ।
भक्ताय काशीराजाय निजभक्तकृतार्हणाम्
॥८॥देव उवाच
शृणु राजन् प्रवक्ष्यामि यत्पृष्टोऽहमिह त्वया ।
तदहं ते प्रवक्ष्यामि सङ्क्षेपेण नृपात्मज
॥९॥दण्डकारण्यदेशीये पुरे नामलसंज्ञके ।
भृशुण्डिनाम्ना भक्तोऽभूद् भूतभव्यभविष्यवित्
॥१०॥स्रष्टुं पातुं च संहर्तुं शक्तस्त्रैलोक्यमाशुयः ।
ब्रह्मा भवश्च विष्णुश्च नित्यं यद्दर्शनार्थिनः
॥११॥सर्वकालं ममध्यानध्वस्तपापो जितेन्द्रियः ।
पुरा तपस्यतस्तस्य भ्रूमध्यान्निसृतः करः
॥२१॥भ्रूशुण्डीति ततः ख्यातस्त्रिषुलोकेषु सर्वदा ।
अतिभक्त्या मृत्युलोके सादृश्यं प्रापितो मम
॥१३॥अद्य शुक्लचतुर्थ्यां तु पूजयामास मां मुदा ।
घृतं दुग्धं दधि मधु पश्य मेऽङ्गात् स्त्रवन्नृप
॥१४॥भुक्तशेषमिदं चान्नं दृष्टं ते नृपसत्तम ।
क उवाच ।
तत ऊचे काशिराजो देवदेव जगत्पते
॥१५॥तमहं द्रष्टुमिच्छामि कथं सोऽत्रागमिष्यति ।
विनायक उवाच ।
गच्छ राजंस्त्वमद्यैव तस्य चाश्रममण्डलम्
॥१६॥सम्पूज्य प्रणिपत्यापि विवाहाय तमाह्वय ।
प्रार्थनीयः प्रयत्नेन वाच्यं च मद्वचोऽपि च
॥१७॥विनायको मम गृहमागतोऽस्ति यतो मुने ।
स चातितृप्तस्त्वत् कृतात् पूजनाद्भक्तितो मुने ।
सोऽपि त्वद्दर्शनाकाङ्क्षी तेनेह प्रेषिता वयम्
॥१८॥ममापि दर्शने काङ्क्षा महती पूजने तव ।
गृहं च सम्पदो मे त्वमागत्य सफलीकुरू
॥१९॥एवमुक्ते त्वया राजन् श्रुते च मम नामनि ।
भ्रूशुण्डी मम भक्तः स तत्क्षणादागमिष्यति
॥२०॥क उवाच
एवमुक्तः स तेनाथ प्रस्थितः परिपूज्य तम् ।
तूणीर कार्मुकधरो हयमारूह्य शीघ्रगम्
॥२१॥नदीवनानि च गिरीनतिक्रम्य शनैर्ययौ ।
प्राप तस्याश्रमं राजाऽवरुरोह हयात्ततः
॥२२॥दृष्ट्वा मुनिं भ्रूशुण्डीं स प्रणिपातं चकार ह ।
तेनापि मानितः सोऽथ पुपूजे तमृषिं मुदा
॥२३॥पश्यति स्म महारण्यमुपविष्टस्तदाज्ञया ।
सरोवृक्षलतापुष्पैः फलै रम्यं तदाश्रमम्
॥२४॥कैलासो विष्णुलोकोऽथ सत्यलोको न तादृशः ।
वेदघोषैः शास्त्रघोषैर्गीतनृत्यैर्विराजितम्
॥२५॥अग्निहोत्रैश्च कासारैः पक्षिभिर्जलजैरपि ।
दृष्ट्वा तमाश्रमं राजा मुमुदे हृष्टमानसः
॥२६॥दण्डवत् प्रणिपत्याऽसौ तं मुनिं सर्वमब्रवीत् ।
विवाहकृत्यं तत्पूजामाज्ञां वैनायकीमपि
॥२७॥तस्मादेहि मम गृहमिति च प्रार्थयन्नृपः ।
ऋषिः उवाच ।
कस्त्वं वद महाराज कोऽसौ तेऽपि विनायकः
॥२८॥नृप उवाच
काशिराज इति ख्यातं मां विद्धि रविवंशजम् ।
कश्यपस्य सुतः सोऽपि दैवतं ते विनायकः
॥२९॥तं भोक्तुकामेन मया तव कीर्तिः श्रुता मया ।
(तं भोजयितुकामेन तव) चतुर्थ्यां पूजितः सम्यक् नानोपहारसञ्चयैः
॥३०॥ते तत्र दर्शितास्तेन तृप्तेन नगरे मम ।
तेनोक्तं मम नाम्नैवायास्यति स मुनिर्नृप
॥३१॥अतोऽहमेव संयातः प्रार्थितुं त्वां महामुने ।
तवापि दर्शनं मत्वा दुर्लभं चर्मचक्षुषाम्
॥३२॥क उवाच
एवमुक्तो नृपतिना भ्रूशुण्डिर्विस्मयान्वितः ।
उवाच किमिदं सत्यमुत वाऽसत्यमेव च
॥३३॥योऽगोचरो वेदविदां वेदान्तानां च चेतसः ।
स कथं त्वद्गृहे तिष्ठेदिति सन्दिद्यते मनः
॥३४॥त्रयस्त्रिंशत्कोटिदेवा दर्शनार्थं समागताः ।
स कथं तव वाक्येन यामीत्युक्त्वा स्वमाश्रमम्
॥३५॥यदि तिष्ठति देवोऽसौ तव गेहे नराधिप ।
स्वरूपं वद तस्याहं ततो यास्यामि ते गृहम्
॥३६॥नृप उवाच
अनन्तानि स्वरूपाणि गणितुं न क्षमो विधिः ।
शेषो वा तस्य कोऽन्यो हि वक्तुमीशो भवेद्विज
॥३७॥अवतीर्णः साम्प्रतं स कश्यपस्य गृहे मुने ।
विनायकेति नाम्नाऽपि विख्यातो भुवनत्रये
॥३८॥अत्यद्भुतेन रूपेण सप्तवर्षात्मकेन च ।
अद्भुतानि च कर्माणि महान्ति जगदीश्वरः
॥३९॥अशक्तो यानि कर्तुं वै तानि तेन कृतानि च ।
स्वरूपं तेऽभिवक्ष्यामि येन रूपेण मे गृहे
॥४०॥वसते देवदेवोऽसौ ब्रह्मचारिस्वरूपतः ।
अवतीर्णो यदा सोऽभूद् दिव्यकान्तिश्चतुर्भुजः
॥४१॥दिव्यमाल्याम्बरधरो दिव्यालङ्कारसंयुतः ।
दिव्यायुधधरो धीमान् दिव्यगन्धानुलेपनः
॥४२॥प्रार्थितः कश्यपेनाऽसौ प्राकृतोऽभूत् तदैव सः ।
मुनिरुवाच ।
नायं देवो मम ध्यानगोचरो राजसत्तम
॥४३॥यस्य प्रभावान् मे शुण्डा जाता देवर्षिदुर्लभा ।
यत्र कुत्रापि यास्येऽहं स चेदाकारयिष्यति
॥४४॥क उवाच
एवं श्रुत्वा मुनिवचश्चिन्ताविष्टोऽब्रवीन्नृपः ।
मम भाग्यमभाग्यं च महदेतदुपस्थितम्
॥४५॥त्वदाशया महाघोरान्पर्वतान् गहनानि च ।
अतिक्रम्येह सम्प्राप्तः प्राप्तं त्वद्दर्शनं महत्
॥४६॥बलात्करो न मेऽत्रास्ति गन्तुं चैवालयं विभो ।
ततो मुनिः करूणया नुपमूर्ध्नि करं ददौ
॥४७॥निमीलयाक्षिणी राजन्नित्युक्तः स तथाऽकरोत् ।
उन्मील्य नयनेऽपश्यत् क्षणमात्रादसौ नृपः
॥४८॥गृहान्तर्गतमात्मानं पूर्ववत्तदनुग्रहात् ।
विनायकाय तं सर्वं वृत्तान्तं समभाषत
॥४९॥दर्शनाद्धर्षसम्पन्नो नागतो दुःखसंयुतः ।
नागतस्तव वाक्येन मम यत्नान् मुनिस्तु सः
॥५०॥ब्राह्मणेषु बलात्कारो भस्म सर्वं करिष्यति
॥५१॥इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते नृपप्रत्यागमो नाम षोडशोऽध्यायः ॥ १६ ॥