मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 5

3
क्रीडाखण्डः · 5

पञ्चमोऽध्यायः

ब्रह्मोवाच

ममैव मानसः पुत्रः कश्यपो बुद्धिमत्तरः ।

पुण्यवान् धर्मशीलश्च तपस्वी विजितेन्द्रियः

॥१॥

अतिकारुणिको लोके दुःखशोकावमर्दनः ।

वर्तमानं भूतभावि जानाति मीलितेक्षणः

॥२॥

मनसा सृष्टिसंहारकर्ता वेदान्तपारगः ।

सर्वशास्त्रार्थतत्त्वज्ञ समलोष्ठाश्मकाञ्चनः

॥३॥

अदितिर्यस्य ज्येष्ठाऽऽसीत्पत्नी नाम्नाऽतिवल्लभा ।

सर्वलक्षण सम्पूर्णाऽनुपमा सा त्रिविष्टपे

॥४॥

त्रिलोकीं भस्मसात् कर्तुं पातिव्रत्येन तेजसा ।

शेषो यस्या गुणान् वक्तुं नेशो वक्त्रसहस्रकैः

॥५॥

सेवन्ते यां सदा चाष्टनायिका गुणलब्धये ।

शक्रादि सुरवृन्दानि जनयामास याऽनघा

॥६॥

मूलप्रकृतिरूपा सा तादृग् रूपं समाश्रिता ।

सा कदाचित् स्वकं कान्तं मुदितं मुदिताऽब्रवीत्

॥७॥

स्वामिन् विज्ञप्तुमिच्छामि कृपां कृत्वा वदस्व तत्

॥८॥

पतिं विना न चान्याऽस्ति गतिः सद्योषितां प्रभो ।

कश्यप उवाच ।

सम्यगुक्तं त्वया भद्रे मम प्रीतिकरेऽनघे

॥९॥

तद् ब्रवीमी समापृच्छ यत्ते मनसि वर्त्तते ।

अदितिरुवाच ।

इन्द्रादयो देवगणाः स्वस्य पुत्रत्वमागताः

॥१०॥

परमात्मा चिदानन्द ईश्वरो यः परात्परः ।

यदा स्वपुत्रतामेष्येत् तदा मे स्यात्स्थिरं मनः

॥११॥

तस्य सेवां कर्तुमीहे उपायं तत्र मे वद ।

येन स पुत्रतामेष्येत् कृतकृत्यं मनो भवेत्

॥१२॥

मुनिरुवाच

साधु प्रोक्तं महाभागे वचनं परितोषकम् ।

यथा जलं तृषार्तस्य क्षुधितस्य च भोजनम्

॥१३॥

तथा मे वचनं जातं तव देवि सुतोषकृत् ।

विना पुण्यं कथं यायात्परमात्मा स्वपुत्रताम्

॥१४॥

तत्रोपायं वदे तं च हृदि कुरु स्थिरं प्रिये ।

योऽगोचरः श्रुतीनां च ब्रह्मादीनामगोचरः

॥१५॥

निर्गुणो निरहङ्कारो निरीहो निर्विकल्पकः ।

योऽमायाविषयो मायानर्तको मायिमोहनः

॥१६॥

मायातीतोऽपि मायाया आधारः कारणातिगः ।

मायाविस्तारकारी च कार्यकारणकारणम्

॥१७॥

कथं साकारतां गच्छेदनुष्ठानं विना प्रिये ।

अदितिरुवाच ।

कस्य ध्यानं कथं कार्यमनुष्ठानं मयाऽधुना

॥१८॥

केन मन्त्रेण वा कुर्वे तद् वदस्व महामुने ।

क उवाच ।

एवं पृष्टो मुनिस्तस्यै नाममन्त्रं समादिशत्

॥१९॥

पञ्चाक्षरं चतुर्थ्यन्तमोङ्कारपल्लवान्वितम् ।

नमोऽन्तं ध्यानसहितं न्यासदैवतसंयुतम्

॥२०॥

पुरश्चरणमार्गं च सर्वं तस्यै न्यवेदयत् ।

ततः सा मुदिता ब्रह्मन् प्रणिपातपुरःसरम्

॥२१॥

कश्यपं निजभर्तारं पूजयामास सादरम् ।

तदनुज्ञां समादाय जगाम तपसे वनम्

॥२२॥

स्नाता पवित्रवसना ध्यायन्ति स्थिरचेतसा ।

विनायकं देवदेवं न्यासं कृत्वा यथाविधि

॥२३॥

स्थाने द्रुमलताकीर्णे निर्वाते निरुपद्रवे ।

अदिती रुद्धकरणा शुभासनपरिग्रहा

॥२४॥

जजाप परमं मन्त्रं स्मरन्ती सा विनायकम् ।

अनन्यवृत्ति मनसा साक्षात्कारमभीप्सती

॥२५॥

निराहारा वायुभक्ष्या जपध्यानपरायणा ।

तस्यास्तपः प्रभावेन निर्वैराः प्राणिनोऽभवन्

॥२६॥

धर्षिता देवताः सर्वाः किमियं साधयिष्यति ।

एवं वर्षशतं तेपेऽदितिः सा परमं तपः

॥२७॥

क्लेशान् बहुविधांस्तस्या दृष्ट्वा देवो विनायकः ।

स्त्रीभावे च तथा धैर्यमाविरासीद् विनायकः

॥२८॥

तेजोराशिः पुरस्तस्याः सूर्यकोटिसमप्रभः ।

गजाननो दशभुजो कुण्डलाभ्यां विराजितः

॥२९॥

कामातिसुन्दरतनुः सिद्धिबुद्धिसमायुतः ।

मुक्तामालां च परशुं बिभद् यो मेघपुष्पजम्

॥३०॥

काञ्चनं कटिसूत्रं च तिलकं मृगनाभिजम् ।

उरगं नाभिदेशे तु दिव्याम्बरविराजितम्

॥३१॥

महोराशिं पुरो दृष्ट्वा च कम्पे त्वदितिर्भृशम् ।

निमील्य नयने मूर्छामियाय न्यपतद्भुवि

॥३२॥

जपं ध्यानं विसस्मार चिन्तयामास चेतसा ।

किमागतं मम पुरो भाव्यं किमिदमद्भुतम्

॥३३॥

विस्मृताऽहं जपं ध्यानं किं वाऽयं परमेश्वरः ।

वरं दातुं समायातो महसा भासयन्दिशः

॥३४॥

एवं सा विव्हला यावत् तावद् देवो जगाद ताम् ।

विनायक उवाच ।

सोऽहं देवि दिवारात्रौ यं ध्यायसि च चेतसा

॥३५॥

दृष्टवा निष्ठां तपो घोरं वरं दातुमुपस्थितः ।

वरयस्व वरान् मत्तो यान् यान् कामयसे हृदा

॥३६॥

ताँस्तान् दास्यामि सन्तुष्टस्तपसाऽनेन सुव्रते ।

क उवाच ।

तदीयं वाक्यमाकर्ण्य स्वस्था जाताऽदितिस्तदा

॥३७॥

बद्धाञ्जलि पुटा दीना प्रणनाम विनायकम् ।

अवदच्च तदा देवमतर्क्यं मनसा सदा

॥३८॥

अदितिरुवाच

त्वमेव सृजसे विश्वं प्रासि हंस्यखिलेश्वरः ।

नित्यो निरञ्जनो देवो निर्गुणो निरहङ्कृतिः

॥३९॥

नानारूपधरो नित्यो योगगम्योऽखिलार्थकृत् ।

इदानीं सौम्यरूपेण वरं देहि विनायक

॥४०॥

यदि तुष्टोऽसि देवेश यदि देयो वरो मम ।

तदा मे पुत्रतां याहि ततो मे कृतकृत्यता

॥४१॥

ततस्ते सेवनं यास्ये साधूनां पालनं भवेत् ।

दुष्टानां निधनं देव लोकानां कृतकृत्यता

॥४२॥

विनायक उवाच

अहं ते पुत्रतां यास्ये पास्ये साधूंश्च कण्टकान् ।

हनिष्ये सकलां वाञ्छां पूरयिष्ये तवापि च

॥४३॥

क उवाच

एवमुक्त्वाऽन्तर्दधेऽसौ देवदेवो विनायकः ।

साऽदितिः कश्यपं गत्वा सर्व वृतान्तमब्रवीत्

॥४४॥

अदितिरुवाच

तवाज्ञया गताऽरण्यं तपस्तप्तं महत्तरम् ।

वरं दातुं महोरूप आगतोऽसौ गजाननः

॥४५॥

दृष्ट्वा स्वरूपं भीताऽस्मि ततो प्रार्थि विनायकः ।

तेन नानाविधा दत्ता वरा मे मुनिसत्तम

॥४६॥

यास्ये पुत्रत्वमित्युक्त्वाऽन्तर्दधेऽसौ विनायकः ।

सिद्धकार्या तव बलादागता स्वाश्रमं मुने

॥४७॥

क उवाच

इति तस्या वचः श्रुत्वा वरदानं सुधोपमम् ।

जहर्ष मुनिमुख्योऽसौ तया सह मुनीश्वर

॥४८॥

रेमाते परयप्रीत्या ह्यमृतादिव निर्वृतौ

॥४९॥

इति श्रीगणेशपुराणे क्रीडाखण्डे अदितिवरप्राप्तिवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥