मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 97

3
क्रीडाखण्डः · 97

सप्तनवतितमोऽध्यायः

मुनिरुवाच

त्वया विनायको देवो मयूरेश्वरसंज्ञितः ।

ततो गुणेशनाम्ना मे महिमाऽयं निरूपितः

॥१॥

स कथं प्राप तन्नाम किं च तेन कृतं महत् ।

कर्म तन्मे समाचक्ष्व साम्प्रतं विश्वसृग्विभो

॥२॥

क उवाच

यथा तेन कृतं कर्म मयूरेश्वरनाम च ।

प्रापद्विनायको देवो निरूपिष्येऽखिलं तव

॥३॥

पातालभवने शेषः सभामध्यगतोऽभवत् ।

वासुकिप्रमखैः सर्वेः समन्तात्परिवारितः

॥४॥

तत्तः कद्रूः समायाता तेजोरूपा सुरूपिणी ।

मुक्तामणियुतं चारु बिभ्रती कञ्चुकं शुभम्

॥५॥

बिम्बोष्ठी चन्द्रवदना दिव्यभूषाम्बरावृता ।

तां दृष्ट्वा जननीं शेषो वासुकिप्रमुखाश्च ये

॥६॥

नेमुर्मातर्बहुदिनैरभवद् दर्शनं तव ।

काङ्क्षन्ते दर्शनं सर्वे त्वं तु निष्ठुरतां गता

॥७॥

इत्युचुस्तां करे धृत्वाऽस्थापयन् पैत्र्य आसने ।

पुपूजुः परया भक्त्या ततः शेषोऽब्रवीत्तु ताम्

॥८॥

शेष उवाच

त्वं मातः कश्यपस्यापि पत्नी चारुतरा सती ।

सर्वविद्यानिधानस्य सृष्टिस्थित्यन्तकारिणः

॥९॥

ब्रह्मादयो देवगणास्तत्त्वं यस्य न वै विदुः ।

त्वं चापि सहसा शापानुग्रहे च क्षमा ह्यसि

॥१०॥

तव पुत्रा वयं मातस्त्रैलोक्यग्राससाहसाः ।

सा कथं त्वमिहायाता किमुद्दिश्य प्रयोजनम्

॥११॥

कद्रूरुवाच

विना प्रयोजनं पुत्र कोऽपि नायाति किञ्चन ।

तच्च ते कथयिष्येऽहं श‍ृणु सादरमात्मज

॥१२॥

विनता मे सपत्नी या जननी पुत्र पक्षिणाम् ।

तस्या दर्शनकाङ्क्षा मे कदाचित्सम्बभूव ह

॥१३॥

अनादृता तयाऽहन्तु तद्गृहं सहसा गता ।

नासनं न च सत्कारं स्वागतं न च साऽकरोत्

॥१४॥

पूर्ववैरं स्मरन्ती सा जटायुं पुत्रमादिशत् ।

तेन चाकर्षिता वेणी विवस्त्राऽहं कृता क्षणात् ।

मामुवाच महादुष्टे नावलोक्यं मुखं तव

॥१५॥

मम मातुस्तु दासी त्वं पूर्वमासीः कृतं त्वया ।

तदा न करुणालेशो धृतो मनसि कर्हिचित्

॥१६॥

इतो गच्छन चेत् प्राणान् गृहीष्यामि महाखले ।

श्रुत्वा तदीयवाक्यानि दुःखिताऽहं फणीश्वर

॥१७॥

आक्रन्दं परमं प्राप्ता प्राणत्यागे तु निश्चिता ।

आगताऽहं ततो युष्मद्दर्शनार्थं सुदुःखिताः

॥१८॥

यदि वो मयि भक्तिः स्यात् साहाय्यं क्रियतां मम ।

सत्पुत्रा यदि मान्याऽहं तदा तस्या विनाशनम्

॥१९॥

कर्तव्यं च सपत्न्या मे ततो हृदि सुखं भवेत् ।

क उवाच ।

एवमाकर्ण्य तद्वाक्यं शेषो रोषसमन्वितः

॥२०॥

जज्वालसहसा वह्निर्घृतेनेव प्रदीपितः ।

मम मातुः कृता पीडा विनतातनयैर्यदि

॥२१॥

तदाऽहं तत्प्रतीकारं करिष्यामि न संशयः ।

एवमुक्त्वा स शेषोऽथ वासुकिप्रमुखैर्युतः

॥२२॥

तत्र गन्तुं मनश्चक्रे यत्र सा विनताऽभवत् ।

वासुकिरुवाच ।

अहमेव गमिष्यामि कोटिलागैर्युतोऽनघ

॥२३॥

विनतामानयिष्यामि तिष्ठ त्वं भुजगाधिप ।

क उवाच ।

एवमुक्त्वा ययौ शीघ्रं वासुकिर्विनताश्रमम्

॥२४॥

असङ्ख्यानुरगान् दृष्ट्वा बिभाय विनता तदा ।

तदैव वेष्टिता सर्पैः क्रूरैर्दुष्टस्वभावकैः

॥२५॥

निन्युस्ते शेषनिकटं सा च तानब्रवीत् तदा ।

विनतोवाच ।

किमर्थं बन्धनं कृत्वा मम नेतुं समुद्यताः

॥२६॥

अपराधविहिनायाः पापिष्ठा गदताशु मे ।

मम पुत्रस्यानुभवो ज्ञातोऽस्ति सर्वपन्नगैः

॥२७॥

अतो मुञ्चन्तु मां नो चेत्स संहारं करिष्यति ।

क उवाच ।

धार्ष्टयं तेषां समीक्ष्यैव सस्मार गरुडं तु सा

॥२८॥

सोऽपि ज्ञात्वा स्मृतिं तस्या आगतः पक्षिभिः सह ।

श्येनः सम्पातिरथ च जटायुः पक्षिपुङ्गवः

॥२९॥

येषां पक्षसमीरेण च कम्पे भुवनत्रयम् ।

भुजगास्ते तु सर्वेऽपि वमद्विषकणाभवन् (बभुः)

॥३०॥

युद्धमासीन्महाघोरं भुजगेन्द्रपतत्त्रिणाम् ।

ततो जटायुं सम्पातिं श्येनं बद्ध्वानयंस्तु ते

॥३१॥

मातुः स्मृते तु सम्प्राप्तो गरुडः पक्षघाततः ।

कम्पयञ्जगतीं सर्वा पातयन् द्रुमपर्वतान्

॥३२॥

तद्गन्धं भुजगा घ्रात्वा पलायनपरा ययुः ।

पक्षवातेन गगने बभ्रमुर्भुजगाः परे

॥३३॥

मुक्ता तु विनता बन्धात् स्वस्थानं गन्तुमुद्यता ।

तां दृष्ट्वा वासुकिः कुद्धो दहन् व्योम वमन् विषम्

॥३४॥

पक्षाघातेन गरुडोऽपातयद् भूतले च तम् ।

विनता तु गता वेगात् स्वस्था स्वस्थानमुत्तमम्

॥३५॥

प्रतापं वासुकेर्दृष्ट्वा गरुडः सूक्ष्मरूपधृक् ।

विनतां रक्षितुं यातो याते तस्मिंश्चुकोप ह

॥३६॥

वासुकिर्विषमत्यन्तमसृजज्जगतीं दहन् ।

नागलोकं निनायाशु बद्ध्वा तान् विवरेऽक्षिपत्

॥३७॥

पिधायद्वारं शिलया ततो मातरमभ्यगात् ।

उदन्तं सर्वमाचख्यौ मात्रे शेषाय चारुधिः

॥३८॥

शुशोच विनता श्रुत्वा बद्ध्वा नीतान् सुतांस्तुतान् ।

प्रययौ कश्यपं शीघ्रं नमस्कृत्याब्रवीदिदम्

॥३९॥

विपरीतमिदं जातं प्रत्यक् सूर्योदयो यथा ।

गृहे स्थितां मामनयत् सहसा वासुकी रिपुः

॥४०॥

पृष्ठतोऽनुययौ श्येनो जटायुर्मोचितुं च माम् ।

सम्पातिः सर्पसङ्घांस्ते मारयामासुरोजसा

॥४१॥

पराजितेषु तेष्वाशु भुजगैबहुभिर्मुने ।

गरुडं चास्मरं तेन जित्वा सर्पगणाँस्तु तान्

॥४२॥

मोचिता चाणुरूपेण तेनाप्यागमनं कृतम् ।

जटायुस्तेन सम्पातिः श्येनो वासुकिना बलात्

॥४३॥

नीताः पातालविवरे पिधाय स्थापिता दृढम् ।

गमिष्यन्ति मम प्राणास्तान् विना निश्चितं मुने

॥४४॥

एतावद्दुःखतप्ताऽहं त्वयि नाथे सति प्रभो ।

क उवाच ।

इति श्रुत्वा प्रिया वाक्यं प्राह तां कश्यपो मुनिः

॥४५॥

मुनिरुवाच

मा चिन्तां कुरु भद्रे त्वं व्यतु ते मानसो ज्वरः ।

ऋतुं तेऽहं प्रदास्यामि पुत्रस्तेऽन्यो भविष्यति

॥४६॥

अभेद्यमण्डं वज्रेण पार्वत्या यदि बालकः ।

क्रीडन्भेत्स्यति पादाभ्यां ततः पुत्रो भवेत्तव

॥४७॥

स नीलकण्ठो बलवान् नीलकण्ठ इवापरः ।

श्रवणात् तस्य शब्दस्य भुजगास्ते पराभवम्

॥४८॥

यास्यन्ति च गुणेशोऽपि तमारुह्य भुवो भरम् ।

हरिष्यति तदा पत्राः मोक्ष्यन्ते नागबन्धनात्

॥४९॥

एवमुक्त्वा मुनिस्तस्यै रहो नीत्वा ऋतुं ददौ ।

विनताथ ययौ हर्षात् काननं जन्तुवर्जितम्

॥५०॥

कालेन सुषुवे चाण्डमभेद्यं वज्रपर्वतैः ।

मृद्भाण्डे वल्कलैर्वेष्टय निक्षिप्याण्डं स्थिराऽभवत्

॥५१॥

यथा भूमिगतं द्रव्यं भुजगो बलवत्तरः

॥५२॥

इति श्रीगणेशपुराणे क्रीडाखण्डे कद्रूविनिताकलहप्रसङ्गे कश्यपद्वारा विनतायां गर्भाधानं नाम सप्तनवतितमोऽध्यायः ॥ ९७ ॥