मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 116

3
क्रीडाखण्डः · 116

रणशोधनं नाम षोडशाधिक शततमोऽध्यायः

क उवाच

जयं प्राप्ते मयूरेशे ययुस्तत्र मुनिश्वराः ।

शिवोऽपि गिरिजायुक्तो ययौ तं च निरीक्षितुम

॥१॥

औत्स्युक्यात् पार्वती चैनं समालिङ्ग्याऽब्रवीत्तदा ।

पार्वत्युवाच ।

अतिश्रान्तोऽसि दैत्यस्य कठिनस्य रणे सुत

॥२॥

कोमलानि तवाङ्गानि कथं शस्त्राणि सेहिरे ।

कृतान्तसदृशो दैत्यो मायावी बलवत्तरः

॥३॥

स कथं कोमलाङ्गेन त्वया युधि विनिर्जितः ।

प्रारुदत् करुणं देवी धृत्वाङ्गे निजबालकम्

॥४॥

ततो मुनिगणाः शम्भुर्वारयामास तां शिवाम् ।

शिव उवाच ।

न जानीषे मयूरेशं सर्वकारणकारणम्

॥५॥

अनादिनिधनं देवं वेदान्तागोचरं विभुम् ।

त्रयस्त्रिंशत्कोटिदेवैर्नुतं देवारिदारणम्

॥६॥

सृष्टिस्थितिज्ञानहेतुं लयहेतुमनामयम् ।

भूभारोत्तारणार्थाय नानारूपधरं परम्

॥७॥

ब्रह्माण्डव्याप्तरोमाङ्कमेकानेकस्वरूपिणम् ।

तपोबलसमायुक्तं योगशास्त्रसमन्विम्

॥८॥

मायाविभेदकं देवं मायिनामपि मायिनम् ।

बालभावेऽपि दैत्यानां हन्तारं किं न वेत्सि तम्

॥९॥

क उवाच

एवं स्तुतिं समाकर्ण्य हृष्टा सा पार्वती तदा ।

ततो हृष्टो मयूरेशो मुनीन् प्राह शिवं शिवाम्

॥१०॥

मयूरेश उवाच

न भयं वज्रहस्तान्मे अन्यस्मात् तत् कथं भवेत् ।

सर्वेषां नमनान्मातर्मुनीनामाशिषोऽपि च

॥११॥

शिवस्य वरदानेन सिन्धुदैत्यो जितो मया ।

स्कन्दादयो जिता येन युध्यन्ते न हि तेन ते

॥१२॥

असङ्ख्याता हता देवा दैत्यसेनाचरैर्नरैः ।

असृङ्गनद्यः सम्प्रवृत्ता वीरहर्षकरा बहु

॥१३॥

रणे निपतितान् देवान् विचिन्वानो मुनीश्वराः ।

क उवाच ।

एवं मयूरेशवचो निशम्य प्राह धर्मवित्

॥१४॥

वसिष्ठो मुनिवर्यस्तं यामः सर्वे चलन्तु वै ।

ततो ययौ रणे द्रष्टुं मुनिभिस्तैर्मयूरराट्

॥१५॥

मज्जारक्तवसागन्धो घ्रातुं यत्र न शक्यते ।

अतिभीषणकायांस्तान् छिन्नभिन्नाननेकशः

॥१६॥

दृष्ट्वा बीभत्सरूपांस्तान् प्रफुल्लान् किशुकानिव ।

विकृतिं परियातानि मनांसि दानवद्विषाम्

॥१७॥

पश्यतां वीरराशींस्तान् वीरो परि प्रतिष्ठितान् ।

कांश्चिच्च जीवतः कांश्चिन्मूर्छितान्शस्त्रघाततः

॥१८॥

कांश्चिच्च प्रविशीर्णाङ्गान् देवान् देवा व्यकर्षयन् ।

सहसा न विदुर्देवा देवान् वा दानवानपि

॥१९॥

अब्रुवंस्तत्र केचिच्च त्वदर्थं मृत्युमागताः ।

अन्ते ते दर्शनं प्राप्तमियुक्त्वा व्यसृजन्नसून्

॥२०॥

क उवाच

एवं श्रुत्वा तु तद्वाक्यं साश्रुकण्ठो मयूरराट् ।

भ्रमन् भ्रमन् ददर्शाग्रे मूर्छितं तु षडाननम्

॥२१॥

पतदश्रुर्मयूरेशः स्नेहात् तच्चाब्रवीदिति ।

उत्तिष्ठोत्तिष्ठभद्रन्ते किं शेषे प्राकृतोयथा

॥२२॥

श्रान्तोऽसि दैत्यहननात् यच्छालिङ्गनमद्य मे ।

प्रमार्जितस्तु हस्तेन ततः स प्रोदतिष्ठत

॥२३॥

अपश्यन्निकटे देवपादपद्मं भयापहम् ।

उवाच च मयूरेशं दर्शनात् ते गतं मम

॥२४॥

सर्वदुःखं श्रमश्चैव विश्रान्तश्चास्मि साम्प्रतम् ।

आलिलिङ्ग मयूरेशं दोर्भिर्द्वादशभिस्तदा

॥२५॥

उभौ यातौ रणं द्रष्टुं गृहित्वा च परस्परम् ।

अपश्यतां पुरः सुप्तं वीरभद्रमिषुक्षतम्

॥२६॥

नन्दिनं च शराघातैः पीडितं बलवत्तरम् ।

भूतराजं च पुरतो विभिन्नमस्तकं तदा

॥२७॥

क्रन्दन्तं विकटं चैव पुष्पदन्तं भृशार्दितम् ।

ललाटे दृढविद्धं च हिरण्यगर्भमेव च

॥२८॥

मृतप्रायं च चपलं मृतं श्यामलमेव च ।

लम्बकर्णो न चाज्ञासीद् भ्रान्त्या कञ्चन सङ्गरे

॥२९॥

उदानवायुनाक्रान्तः सुमुखस्तत्र चाभवत् ।

परमं खेदमापन्नः सोमश्च रक्तलोचनः

॥३०॥

शेते स्म मूर्छयाः भृङ्गी पञ्चास्यश्च मुमूर्षया ।

शङ्खः प्रेतत्वमापन्नो भयकृत् सर्वयोधिनाम्

॥३१॥

एवं दृष्ट्वा सर्ववीरान् हतप्रायान् हतानपि ।

चिन्तया परयाविष्टः पप्रच्छ तं षडाननम्

॥३२॥

मयूरेश उवाच

असुराश्च स्वकीयाश्च महावीरा हता मृधे ।

निजधामगताः सर्वे जीवतामत्र का गतिः

॥३३॥

स्कन्द उवाच

अनन्तकोटिब्रह्माण्डनायकस्त्वं गुणेश्वर ।

चतुर्दशानां विद्यानां सर्वासां च स्वयं निधिः

॥३४॥

कलानां तत्र किं प्रश्नं करोषि त्वं ममान्तिके ।

नाहं मन्त्रं विजानामि वेत्थ त्वं हि न वै सुराः

॥३५॥

विवर्द्धयसि कीर्तिं त्वं नानादैत्यविभञ्जनात् ।

यथामति ब्रवीमि त्वामाज्ञया च स्मृतेर्बलात्

॥३६॥

पूर्वं तु त्रिपुरवधे शिवेन युद्धमद्भुतम् ।

कृतं तत्र मृतान्देवान् द्रोणाद्रिवल्लिजं रसम्

॥३७॥

देवः क्षतेषु संयोज्य जीवयामास तत्क्षणात् ।

क उवाच ।

श्रुत्वेत्थं वचनं देवो जगाद तं षडाननम्

॥३८॥

इदानीं दैत्यकोटयस्तु युद्धार्थं बलवत्तराः ।

आयास्यन्ति तदा कोऽत्र युद्धेत ताभिः षडानन

॥३९॥

कश्चानेतुं व्रजेदद्रिं वल्लीरसमनुत्तमम् ।

एवं ब्रुवन्मयूरेशो मायामाविश्चकार ह

॥४०॥

उज्जीवयामास तदा निजाङ्गवायुस्पर्शतः ।

ततस्ते हर्षसम्पन्नाः प्रणेमुस्तं गुणेश्वरम्

॥४१॥

आलिलिङ्गु पुनर्युद्धं कर्तुं तं च विजिज्ञपुः ।

त्वद्दृष्टिविनिपातेन तेजो नो द्विगुणीकृतम्

॥४२॥

गुणेश्वर उवाच

ब्रह्मादयो देवगणाः स्तुवन्ति वः पराक्रमम् ।

तारकासुरमुख्याश्च निहता दैत्यदानवः

॥४३॥

क उवाच

ततस्तैः सहिता देवैर्मयूरेशः शिवं ययौ ।

नमस्कृत्य शिवं गौरीं युद्धाय गन्तुमुद्यतः

॥४४॥

आलिलिङ्ग मुदा गौरी शिवस्तं च गुणेश्वरम् ।

ततः षडाननाद्यास्ते शिवमालिङ्गिरे मुदा

॥४५॥

वयं रणे निपतिताः पुनः सञ्जीविता हर ।

मयूरेशाङ्गसम्भूत वायुनाऽद्भुतकारिणा

॥४६॥

पुनर्युद्धाय यास्यामोऽनेन सार्द्धं शिवाधुना ।

प्रसादात्तव जेष्यामः सर्वानेवासुरान् युधि

॥४७॥

इति श्रीगणेशपुराणे क्रीडाखण्डे रणशोधनं नाम षोडशाधिक शततमोऽध्यायः ॥ ११६ ॥