मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 121

3
क्रीडाखण्डः · 121

एकविंशोत्तरशततमोऽध्यायः

क उवाच

वीरभद्रादिभिर्वीरैः सुखासीनं गणेश्वरम् ।

आययुर्वेगतो देवा भीताः श्वासमाकुलाः

॥१॥

न्यवेदयन्त वृत्तान्तं स्वयं सिन्धुः समागतः ।

मेनिरे ते पुनः प्राप्तं कालं संहर्त्तुमात्मनः

॥२॥

ततो हर्षान्मयूरेशो रुरोह शिखिनं तदा ।

आयुधानि च चत्वारि प्रगृह्य च जगर्ज च

॥३॥

नमस्कृत्य शिवं वेगाद् ययौ स द्योतयन्दिशः ।

तदाशीःकवचो वीरसहितो वाहिनीयुतः

॥४॥

यावत्स पुरतो याति सिधुं हन्तुं समुद्यतः ।

तावत्षडाननः प्राह यामि युद्धाय विघ्नराट्

॥५॥

तिष्ठत्सु बहुवीरेषु कथं युद्धाय यास्यसि ।

पौरुषं पश्य सर्वषां तस्मिन् क्षीणे रणं कुरु

॥६॥

एवमुक्त्वा नमस्कृत्य ययौ युद्धाय षण्मुखः ।

चतुरङ्गबलं गृह्य सिन्धुसेनामथाऽवधीत्

॥७॥

सोऽपि तां न्यहनत् सेनां नानाशस्त्रैः शरव्रजैः ।

सहस्व प्रहरस्वाद्य हन्मि सम्मुखतां व्रज

॥८॥

एवं कोलहलोऽप्यासीद् वीराणां तत्र युद्ध्यताम् ।

पेतुर्वीराः शस्त्रहताः शरजालगतासवः

॥९॥

छिन्नाङ्गा भिन्नपादाश्च छिन्नबाहूरुमस्तकाः ।

असिभिर्भिण्डिपालैश्च कुन्तैर्मुद्गरसञ्चयैः

॥१०॥

मारयन्तः स्थिरा वीरास्तान्परान् युद्धदुर्मदान् ।

कोलाहलो महानासीत्क्ष्वेडितैर्हेषितैरपि

॥११॥

वाद्यध्वनिप्रतिध्वानैर्बृंहितै रथनेमिभिः ।

असम्बद्धमभूद् युद्धं सेनयोरुभयोरपि

॥१२॥

यथाप्रतिज्ञं वीरास्ते निजघ्नुर्मस्तकं मुखम् ।

नेत्रे बाहूदरं नाभिं पादौ गुल्फौ च जानुनी

॥१३॥

कोऽपि हस्तेन पादेन कोऽपि खड्गेन नाशयन् ।

असिना केऽप्यरिगणानन्धकारे महत्यपि

॥१४॥

अस्तं याते दिनकरे दृष्ट्वा पृष्ट्वा निजघ्निरे ।

देवान् ज्ञात्वाऽसुरा जघ्नुरितरानितरेऽपि च

॥१५॥

असृक्प्रवाहस्तत्रासीत्प्रधने तुमुले तदा ।

वहन् प्रेतानिषज्जीवान् हुङ्कारेण च तान्परे

॥१६॥

बलान्निष्काशयामासुर्विशल्यांश्चक्रिरे यथा ।

इतो न सेने पञ्चाहविरामं युद्धलम्पटे ।

एवं पदाताः सिन्धोस्ते कोटिशोऽथ हताः सुरैः

॥१७॥

ततोऽगात् तद्गजानीकमसङ्ख्यं शस्त्रसंयुतम् ।

धिष्ठितं सादिभिर्वीरेर्नानायुद्धविशारदैः

॥१८॥

वीरभद्रादयो जघ्नुर्गजसेनां दुरत्ययाम् ।

केषाञ्चिन्मस्तका भिन्नाः केषाचिच्च करा द्विजाः

॥१९॥

अग्निशस्त्रधरैः केचित्पातिता वीरसंयुताः ।

वीरभद्रोऽतिवीर्येण गजेनैवाहनद् गजम्

॥२०॥

पेततुरष्टधा भिन्नावुभावपि तदा गजौ ।

ततः षडाननो निघ्नन् गजानीके व्यरोचत

॥२१॥

वीरैस्तु सहितान् मत्ताननन्तान् करिसञ्चयान् ।

शक्त्या शरैरनेकैः सोऽनाशयत् षड्धनुश्च्युतैः

॥२२॥

हिरण्यगर्भोऽनेकवीरयुतांस्तानप्यपातयत् ।

भूतराजोऽपि शस्त्रैस्तान् गजान्नानाविधान् रणे

॥२३॥

न्यपातयद् वीरयुक्तान् नाराचक्षतजीवितान् ।

सिंहो भूत्वा पुष्पदन्तो दारयामास तान् गजान्

॥२४॥

नन्दी तु गजरूपेण बभञ्ज तान् गहान् बहून् ।

अन्यैश्च शरसङ्घातैः सर्वे ते विनिपातिताः

॥२५॥

कञ्चित् पुच्छे गृहित्वेभं भ्रामयित्वा परेऽक्षिपत् ।

उभावपि लयं यातौ दृढाघातेन चूर्णितौ

॥२६॥

ततोऽश्वचारा युयुधुर्गजानीके निवारिते ।

असङ्ख्यातान् निजघ्नुस्तान् सुरान्नानायुधै रणे

॥२७॥

पतिता मूर्छिता देवाः पुनः संज्ञां च लेभिरे ।

ततो विव्यधुरश्वस्थान् वीरानश्वानथो रुषा

॥२८॥

क्रोधेन देवाघ्नन्ति स्म हयारूढा महासुराः ।

सुरांस्तान् निन्युरन्तं ते शस्त्रास्त्रशरवृष्टिभिः

॥२९॥

षड्वीराः पुनरायाताः श्रुत्वा देवान् हतान् युधि ।

ततस्ते पुनराजघ्नुर्दैते यानश्वसादिनः

॥३०॥

चत्वारस्ते चतुर्दिक्षु प्रायुध्यन् बलवत्तरम् ।

ररक्षतुरुभौ सैन्यं स्वीयं देवगणैर्युतम्

॥३१॥

मारयामासुरश्वांस्तानश्वस्थान् वीरसंयुतान् ।

अयुध्यन् पादचारेण निघ्नन्तोऽरिगणान् बहून्

॥३२॥

कोटिकोटिमितास्तत्र पेतुस्ते तु शरार्दिताः ।

नन्दी भृङ्गी हतानश्वान् पतितान् वीक्ष्य सादिनः

॥३३॥

पादाघातेन तेनाशु पातयन् नन्दिकेश्वरः ।

वीरभद्रोऽप्यसङ्ख्यातान् अश्वयोधान् न्यपातयत्

॥३४॥

हतेषु मुख्यवीरेषु चतुर्भिः सर्वतो दिशम् ।

कल्पान्त इव तत्रासीद् दैत्यानां रणकर्मणाम्

॥३५॥

ततः केचित्सुरगणान् पेदिरे शरणं तदा ।

हाहाकारो महानासीद् दैत्यसैन्याश्वसादिषु

॥३६॥

एवं हत्वाऽखिलां सेनां षड्वीरास्ते मुदं ययु ।

वाद्यत्सु सर्ववाद्येषु जगर्जुस्तुष्टुवुर्विभुम्

॥३७॥

जयः प्राप्तो मयूरेशप्रभावात्स्मरणान्नतेः ।

ततः सिन्धुः समाकर्ण्य शरणागतवाक्यतः

॥३८॥

वृत्तान्तं हतसेनाया हस्त्यश्वरथ संयुतः ।

अमात्यान्सर्ववीरांश्च प्रोवाच युद्धलालसः

॥३९॥

सिन्धुरुवाच

ये ये गच्छन्ति योद्धारस्तान् श‍ृणोमि हतान्परैः ।

इदानीं यामि तं हन्तुं गुणेशं च स्वयं बलात्

॥४०॥

क उवाच

इत्युक्त्वा क्ष्वेडितेनासौ गगनं च दिशो दश ।

नादयामास त्रींल्लोकान् ग्रसन्भूस्वर्गमण्डलम्

॥४१॥

योजयित्वाऽक्षिपत् बाणमाकर्णकर्षणाज्जवात् ।

सेनायां वीरभद्रादिपालितायां महाबलैः

॥४२॥

निरीक्ष्य सर्ववीरान् स बाणं धनुषि सन्दधे ।

अस्त्रमन्त्रेण सहसा शतजप्तेन दैत्यराट्

॥४३॥

कृपीटयोनिः सहसा तस्माज्जातो ददाह ताम् ।

देवसेनां च पृथिवीं सवनां च सपर्वताम्

॥४४॥

ततोऽपश्यन् सैनिकास्ते दह्यमानान्कृशानुना ।

पुरुषं वह्निसम्भूतं जटिलं दीप्ततेजसम्

॥४५॥

विद्युज्जिव्हं करालास्यं गिलन्तं देवसैनिकान् ।

षडाननादयो भीता दुद्रुवुस्ते दिशो दश

॥४६॥

यं यं स भक्षति स्माजौ स स प्राप स्मरन्मुदा ।

निजधाम मयूरेशमेव मत्ताऽखिला चमूः

॥४७॥

यतो यतो याति सेना ततस्तद्वक्त्रसम्भवः ।

तनूनपाद् दहत्येनां प्रलयाग्निरिव ज्वलन्

॥४८॥

एवं सा वह्निना दग्धा मयूरेशस्य वाहिनी ।

धूमान्धकारे महति न प्राज्ञायत किञ्चन

॥४९॥

ततः सर्वे मयूरेशपृष्ठभागं समाश्रिताः ।

त्राहि त्राहीति जल्पन्तो दग्धास्ते जातवेदसा

॥५०॥

अनिवार्यं महास्त्रं तद्दृष्ट्वा देवो मयूरराट् ।

निस्तेजाश्चिन्तयामास भीतो लोके लघुत्वतः

॥५१॥

शिवः प्रसादं चेत् कुर्यात् तदैवात्र जयो भवेत् ।

इत्युक्त्वा परशुं गृह्य मन्त्रयित्वाऽक्षिपन्बलात्

॥५२॥

महसा जितसूर्यः स गर्जयन् गगनं दिशः ।

यातो दहन्वैरिसेनां जगत्कल्पानलो यथा

॥५३॥

तस्मादपि महानेकः पुरुषः समजायत ।

यस्यास्ये सर्वभूगोलः किन्नु मास्यति साम्बरः

॥५४॥

पुरुषः पुरुषेणासावस्त्रमस्त्रेण वै तदा ।

अयुध्यतां ततो जग्मुर्द्रष्टुं देवर्षयस्तदा

॥५५॥

दैत्यास्त्रं भक्षितं तेन कृतान्तास्त्रेण सत्वरम् ।

ययौ सेनां च निर्दग्धुं ज्वालामालिव हव्यभुक्

॥५६॥

दैत्यराजोऽपि तं दृष्ट्वा बाणवृष्टिमवासृजत् ।

एकस्मान्मन्त्रिताद् बाणादनन्ता निःसृताः शराः

॥५७॥

देवसेनाचरास्तेषु निमग्ना वेगशालिनः ।

मयूरेशः क्रोधवशान्नानाऽस्राणि तदाऽसृजत्

॥५८॥

तैरस्त्रैर्दैत्यराजस्य निरस्यास्त्राणि सर्वशः ।

अभक्षय द्दैत्यसेनां स कालपुरुषः पुनः

॥५९॥

यतो यतः पलायन्तेऽसुरास्तत्र च याति सः ।

चिन्ताक्रान्तस्ततो दैत्यः कर्तव्यं नाभ्यपद्यत

॥६०॥

किं कर्तव्यं क्व गन्तव्यं क्व न स्थेयमचिन्तयत् ।

अस्तं याते दिनकरे स्वधाम प्रत्यपद्यत

॥६१॥

गच्छन् स्खलन्पतन्भूमौ नष्टकुण्डलभूषणः ।

नगरं प्राविशदसौ ततः शम्भुरिवापरः

॥६२॥

गुप्त एवावसत् क्वापि स्त्रीणां चैवानुजीविनाम् ।

जगर्ज सगणो देवो ज्ञात्वा तद्वृत्तमाशु सः

॥६३॥

तेन नादेन सहसा नादितं भुवनत्रयम् ।

सञ्जहार कृतान्तास्त्रं मन्त्रविद्भुजगं यथा

॥६४॥

स्वनिवेशं जगामाशु मयूरेशो गणैर्वृताः

॥६५॥

इति श्रीगणेशपुराणे क्रीडाखण्डे युध्दवर्णनं नामैकविंशोत्तरशततमोऽध्यायः ॥ १२१ ॥