वत्सशैलासुरवधो नामैकनवतितमोऽध्यायः
क उवाच
ततो द्वितीय वर्षे स बालो बालैरसङ्ख्यकैः ।
चिक्रीड वाटिकामध्ये नानाद्रुमलताकुले
॥१॥फलानि भक्षयामास खर्जूरीपनसानि च ।
ददौ तेभ्योऽतिबलात्स पातयित्वा बहून्यपि
॥२॥कटो नाम महादैत्यः कूटमायाकरः खलः ।
तत्तृषाकालमाज्ञाय वापिकायां विषाणि सः
॥३॥लोडयामास दुर्बुद्धिः सर्वेषां हि जिघांसया ।
येषां तु स्पर्शमात्रेण म्रियन्ते प्राणिनः क्षणात्
॥४॥यदुत्थवायुना स्पृष्टा निपतन्ति खगा भुवि ।
ततः कूटो गतस्तत्र तस्थौ नाशदिदृक्षया
॥५॥ततस्ते बालकाः पातुमज्ञानात्तु जलं ययुः ।
पपुः सर्वे स्वचुलुकैरञ्जलीभिश्च केचन
॥६॥मृतान् मत्स्यान्समादाय बहिर्याता मृतास्तदा ।
रक्षको ग्राममध्ये तु घोषयामास तन्मृतिम्
॥७॥ततो महारवं कृत्वा तत्रायुः सर्वनागराः ।
घ्नन्तः पाणितलैर्वक्षः पाषाणैरपरे शिरः
॥८॥हाहाकारो महानासीत् पुंवधूयोषितामपि ।
तेषामाक्रन्दनं श्रुत्वा शिवाया अपि बालकः
॥९॥अजीवयद् दृष्टिपातैः सर्वांस्तान् पुरबालकान् ।
क्रूरदृष्ट्या कूटदैत्यं मृतं भूमौ न्यपतयत्
॥१०॥पञ्चयोजनविस्तीर्णां चूर्णितां तेन वाटिकाम् ।
ददृशुर्नागराः सर्वे कतिचिच्च पलायिताः
॥११॥सोऽजीवयज्जलचरान्निर्विषां वापिका व्यधात् ।
स्वं स्वं बालं समादाय सर्वे ते स्वालयं ययुः
॥१२॥प्रशशंसुः शिवाबालं निनिन्दुर्नास्तिकाः खलाः ।
अस्य सङ्गादरिष्टानि नश्यन्तीति परेऽब्रुवन्
॥१३॥ततस्तृतीयवर्षे तु प्रातःकालेऽद्रिजासुतः ।
वञ्चयित्वा बहिर्यातो मुनिबालास्तमन्वयुः
॥१४॥अहोरात्रवियोगेन परस्परमथाश्लिषन् ।
त ऊचुर्निशि देव त्वां स्वप्ने पश्यामः सर्वदा
॥१५॥रात्रिर्युगसमा देव जायते त्वामपश्यताम् ।
इदानीं त्वां निरीक्ष्यैव प्रसन्नाः स्मोऽखिला वयम्
॥१६॥क्रीडामोऽद्य महासत्त्वं द्वन्द्वीभूय यथासुखम् ।
ततोऽर्ध एकतो भूत्वा परेऽर्धे परतोऽपि च
॥१७॥अभ्यघ्नन् पङ्कगोलेन नादयन्तोऽथ रोदसी ।
आह्लादेनाऽथ युध्यन्तो विकर्षन्तः परस्परम्
॥१८॥रमन्तस्ते ययुर्दूरमाश्रमं कस्यचिन्मुनेः ।
सरोवरे तत्र रेमुर्योजनायतविस्तरे
॥१९॥सिञ्चन्तोऽञ्जलिभिर्वारि द्वन्द्वीभूता यथा पुरा ।
निमज्य स्कन्धमारुहय मज्जयन्तो बलात्परम्
॥२०॥ततो दैत्यो मत्स्यरूपी तेषु क्रीडारतोऽभवत् ।
आस्फालयन् कराघातैस्तज्जलं तेषु पुच्छतः
॥२१॥कलुषात्तज्जलाद्भङ्गाज्जग्मुस्तीरं मुहुर्मुहुः ।
तीरे दृष्ट्वाऽद्रिजापुत्रं मत्स्यस्तन्निकटं ययौ
॥२२॥व्यादाय वदनं दध्रे तदङ्घ्री विचकर्ष च ।
निनाय धाव धावेति क्रोशयन्तं महाजले
॥२३॥निमज्ज्य स जले तेन चिरकालं महासुरः ।
अरोदिषुर्मुनिसुता मग्नं वीक्ष्याद्रिजासुतम्
॥२४॥हाहाकारं प्रकुर्वन्तः करपृष्ठोष्ठसंयुतम् ।
केचिद्गत्वा सरोरम्यं पश्यन्तो ददृशुर्न तम्
॥२५॥भवानीताडनाद् भीताः केचिद् बालाः पलायिताः ।
केचित् ते बालका गत्वाऽशंसन् मग्नं शिशुं च तम्
॥२६॥सर्वान्नः क्रीडतो हित्वा नीतो मत्स्येन बालकः ।
क उवाच ।
श्रुत्वा तद्वचनं गौरी मूर्छिता पतिता भुवि
॥२७॥मुहूर्ताच्चेतनां लब्ध्वा रोदमाना ययौ बहिः ।
मुञ्चन्ती नेत्रजं वारि मस्तकात् पतिताञ्चला
॥२८॥स्खलन्ती निश्वसन्ती च पतन्ती धरणीतले ।
सख्यस्तामन्वयुः काश्चिद्धित्वा कार्याणि सत्वराः
॥२९॥सरस्तीरं शीघ्रतरमागता सखिभिः सह ।
मुनयस्तमुदन्तं च श्रुत्वा याताः सरः प्रति
॥३०॥अगाधेऽम्भसि ते केचिन्मग्ना नापुरुमासुतम् ।
तामचुर्जननीं केचिन्मग्ना नो बालका जले
॥३१॥तैः पुनर्न च दृष्टश्च मत्स्योदरगतः सुतः ।
रोदनं पुनरारेभे गौरी श्रुत्वा तु तद्वचः
॥३२॥उमोवाच
मम प्राणा गमिष्यन्ति विना तं सर्वसुन्दरम् ।
अतिक्लेशेन संलब्धमतिपौरुषमीश्वरम्
॥३३॥चराचरगुरुं मायातीतं मायाविनं परम् ।
अनन्तकोटिब्रह्माण्डनायकं विश्वसम्भवम्
॥३४॥ललाटं निजघानोरो वारं वारं करेण सा ।
रुरुदुर्मुनयो वीक्ष्य रुदतीं तां तथाविधाम्
॥३५॥ततः कारुणिको देवो निशम्य करुणं वचः ।
स्वयमण्डजरूपोऽभूद् युयुधाते परस्परम्
॥३६॥तदाघातेन जलजा मृतास्तीरे निपेतिरे ।
दंष्ट्राभ्यां दशतः स्मोभौ घ्नतः स्म पुच्छघाततः
॥३७॥उदरं स्वोदरेणैव पृष्ठं पृष्ठेन जघ्नतुः ।
एवं चिरतरं युद्धं कृत्वा दारुणमोजसा
॥३८॥मत्स्यरूपं गुणेशोऽथ बलाज्जघ्ने मुखे मुखम् ।
भग्नास्यो भग्नदर्पोऽसौ भग्ननेत्रोऽभवच्च सः
॥३९॥पपाल जलमध्ये स पृष्ठेऽगात्स उमासुतः ।
यत्र यत्र ययौ सोऽथ तत्र तत्राप्यसौ ययौ
॥४०॥क्वचिल्लीनं तु तं दृष्ट्वा पुच्छाघातैरताडयत् ।
तत्पुच्छं तु मुखे धृत्वा गुणेशो बहिरानयत्
॥४१॥चुचूर्ण निजभारेण गतासुं विससर्ज सः ।
त्यजन्तं रुधिरं वक्त्रान्नदन्तं बलवत्तरम्
॥४२॥तेन शब्देन महता चकम्पे भुवनत्रयम् ।
निर्ययौ जलमध्यात् स लिलिङ्गं पार्वतीं तदा
॥४३॥आनन्दमग्ना गौरी तं स्तनपानं मुदा ददौ ।
मामपृष्ट्वाथ कुत्र त्वं गतोऽसि बालकैः सह
॥४४॥यद् यदायाति विघ्नं ते तत्तद्दैवाद्विनश्यति ।
मरीचे रक्षणाच्छम्भोः कृपया जगदीशितुः
॥४५॥कुरुषे किं चपलतां रक्षितव्यः कथं मया ।
त्वद्वियोगान्मम प्राणा गमिष्यन्ति प्रियार्भक
॥४६॥क उवाच
ततो मुनिगणाः प्रोचुस्त्वां विना दुःखिता वयम् ।
इदानीं पुनरानन्दं प्राप्तास्त्वद्दर्शनाद्विभो
॥४७॥पुपूजुर्मुनयो नानाद्रव्यैः सख्यः स्त्रियोऽपि च ।
नमस्कृत्य गुणेशं च प्रार्थयन्सर्व एव तम्
॥४८॥वयं त्वदीया देवेश न नस्त्यक्तं त्वमर्हसि ।
ततोमा बालमादाय ययौ स्वस्थानमुत्तमम्
॥४९॥अनन्तरं गणाः सख्यो मुनयो हर्षनिर्भराः ।
मार्गमध्ये परः शैलनामा दैत्यो महाबलः
॥५०॥सर्वशत्रुहरो नक्रदृढाङ्गोऽशनिनाशनः ।
गिरीणां यस्य शब्देन दारणं जायते क्षणात्
॥५१॥मार्गं निरुध्य सहसा संस्थितो रोदसी स्पृशत् ।
द्वियोजनमस्तकोऽसावधो द्वादशयोजनः
॥५२॥सरस्तडागा वृक्षाश्च लता यत्र विभान्ति च ।
क्रीडन्ति सिंहशार्दुला वारणा यक्षराक्षसाः
॥५३॥सर्वे ते विव्हलाः प्रोचुः किमिदं विघ्नमुत्थितम् ।
तदन्तिके स्थिता गौरी तेऽपि सर्वे स्थितास्तदा
॥५४॥ततस्ते मुनयः प्रोचः कदा द्रक्ष्याम योषितः ।
अपत्यानि गुणेशस्य कदा स्यादत्र विक्रमः
॥५५॥गमिष्यति वृथा होमकालोऽयं नः स्वधाक्रियाः ।
गौरी जगाद तान्सर्वान् खेदं कर्तुमर्हथ
॥५६॥ममापि चिन्तः सम्प्राप्ता शङ्करस्य हि जायते ।
क उवाच ।
श्रुत्वा वाक्यानि तान्याशु गुणेशो बुद्धिमत्तरः
॥५७॥प्रगृह्य तु विराङ्रूपं श्वासमात्रान्निराकरोत् ।
ददृशुर्न च तद्रूपं मोहिता मुनयोऽपि ते
॥५८॥तच्छ्वासयोगात् स गिरिर्बभ्राम गगने तदा ।
आश्चर्यं परमं प्राप्ताः सर्वे ते तं प्रशंसिरे
॥५९॥वात्यागतं यथा पत्रं ततोऽसौ पतितो भुवि ।
सहस्रधाऽभवच्छैलः पुनर्वृक्षानचूर्णयत्
॥६०॥ततस्ते मुनयः प्रोचुः साधु साधु गुणेश्वर ।
दूरिकृतमरिष्टं नः स्वाश्रमस्था वयं सुखम्
॥६१॥वसामस्त्वत्प्रसादेन स्वस्वकर्मरता भृशम् ।
क उवाच ।
एवमुक्त्वा च नत्वा च दृष्ट्वा सम्पूज्य तं ययुः
॥६२॥पार्वती च तमादाय विवेशनिजमन्दिरम् ।
सख्यश्च मुनिपत्न्यश्च पृष्ट्वा तां स्वगृहं ययुः
॥६३॥इदं यः शृणुयान् मर्त्यः सर्वत्र सुखमाप्नुयात् ।
आयुरारोग्यमैश्वर्यं सर्वत्र विजयं तथा
॥६४॥इति श्रीगणेशपुराणे क्रीडाखण्डे कूटमत्स्यशैलासुरवधो नामैकनवतितमोऽध्यायः ॥ ९१ ॥