नरान्तकनिग्रहो नामाष्टपञ्चाशत्तमोऽध्यायः
क उवाच
अर्धमार्गं गतो यावद्धर्षेणाऽसौ नरान्तकः ।
तावदेव श्रुतं काशीराजपत्न्या धृतो नृपः
॥१॥अत्यन्तं सा शुशोचाथ पौरा ये चावशेषिताः ।
आक्रन्दः सुमहानासीन्मत्स्यानां निर्जले यथा
॥२॥अम्बा सा पतिता भूमौ धृते भर्तरि वैरिभिः ।
मूर्छिता च विवर्णाऽभूद् रम्भा वातहता यथा
॥३॥सखीभिः सहिताऽरोदीद् रुदती प्राब्रवीत् तदा ।
अम्बोवाच ।
सिंहखेलो गजानीकहन्ता यो रिपुमर्दनः
॥४॥शृगालतुल्यदैत्येन स कथं विधृतो बलात् ।
क्व गतं मत्तमातङ्गसहस्रम्बलशालिनः
॥५॥बलं भर्तुर्मदीयस्य दैत्यकोटिहरस्य ह ।
कथं रुष्टो महेशो मे कदा द्रक्ष्ये निजं पतिम्
॥६॥कं देवं शरणं यामि यस्तं शीघ्रं विमोचयेत् ।
कश्यपस्यास्य बालस्य वरायुद्धं कृतं वरम्
॥७॥तद्धि सर्वं वृथा जातं राज्ञि मूढत्वमागतम् ।
यो बालवचनाच्छ्रेष्ठैर्विरोधं कृतवान् वृथा
॥८॥को जयेत् तं महादैत्यं भर्तृग्राहं नरान्तकम् ।
विना सर्वैः कथं कल्पकालः प्राप्तो हताशया
॥९॥अहं च धरणी चापि कथं वैधव्यमागता ।
न तादृशः क्वापि जातो करुणाब्धिः शरण्यदः
॥१०॥मुनिरुवाच
एवं तच्छोकमाकर्ण्य कश्यपस्यात्मजो बली ।
शब्देन महताऽगर्जद् ब्रह्माण्डस्फोटकारिणा
॥११॥प्रतिशब्देन गगनं जगर्ज च दिशोऽपि च ।
चकम्पे धरणी सर्वा सपर्वतवनाकरा
॥१२॥पक्षिणः पतितास्तेन मृता भ्रान्ता जनास्तदा ।
ततः सिद्धिं समालोक्य क्रोधव्याकुललोचनः
॥१३॥क्व गताऽसि महायुद्धप्रसङ्गं प्राह तामिति ।
सा तदाशयमालक्ष्य चक्रे नानाविधां चमूम्
॥१४॥विकरालमुखा वीराः प्रादुरासन्सहस्रशः ।
हलदन्ताः सर्पजिह्वा नराः पर्वतमस्तकाः
॥१५॥दारितास्यास्तु भूगोलमकस्माद् ग्रसयिष्णवः ।
आस्यानलं विमुञ्चन्तः शतनेत्रा महाबलाः
॥१६॥येषां नासारन्ध्रगता न दृश्यन्ते महागजाः ।
सूर्याचन्द्रामसौ येषां श्वासान्निपतितौ भुवि
॥१७॥जटाभिः पृथिवी येषां सर्वा सम्मार्ज्यते भृशम् ।
सहस्रयोजनहस्ता द्विगुणाश्च तदङ्घ्रयः
॥१८॥तेषां तु नायकः क्रूरो विनायकसमीपतः ।
आगतः परिपप्रच्छ किं कार्यं वद मे प्रभो
॥१९॥देहि मे क्षुधितस्यादौ भक्ष्यं तृप्तिकरं प्रभो ।
इत्युक्तवन्तं पुरुषमुवाच स विनायकः
॥२०॥भक्षयस्व महासेनां नरान्तकसुपालिताम् ।
हत्वा तु तच्छिरो मह्यमानयस्व त्वरान्वितः
॥२१॥तत्सैन्येन न तृप्तिश्चेद् दास्ये भक्ष्यान्तरं तव ।
एवमाज्ञामनुप्राप्य नत्वा तं कश्यपात्मजम्
॥२२॥महाक्ष्वेडितशब्दं तु कृत्वा यातो नरान्तकम् ।
तस्य क्ष्वेडितशब्दस्य नादृग्रूपेण सैनिकाः
॥२३॥नरान्तकोऽपि भीतास्ते दुद्रुवुस्ते दिशो दश ।
हस्ते धृत्वा तु तान्सर्वान्मुखमध्ये समाक्षिपत्
॥२४॥उद्दुधूल रजो भौमं न प्राज्ञायत किञ्चन ।
अन्धकारे महाघोरे दीपिकाभिर्व्यलोकयन्
॥२५॥तं दृष्ट्वा पुरुषं घोरं कचित्प्राणान्प्रजह्रिरे ।
तांश्चापि जीवतः सर्वां स्त्वरया भक्षयत्यसौ
॥२६॥नरान्तकस्तु दृष्ट्वैवं सर्वसैन्याविनाशनम् ।
अतर्कयत्स्वमनसा कृतान्तस्यान्तकोऽपरः
॥२७॥आगतः किं मया कार्यं दृश्यते बलवानयम् ।
एवं वदन् ददर्शाऽथ सेनामर्द्धां तु भक्षिताम्
॥२८॥प्रलयानलवच्चायं पृतनां हरते बलात् ।
निःशेषामेव कर्ताऽमुमगस्त्य इव वारिधिम्
॥२९॥दैत्यसेनाचराः सर्व महाशब्दान्प्रचक्रिरे ।
केचिच्च भक्षितास्तेन चूर्णिताः पादघाततः
॥३०॥श्वासानिलाहताः केचित्केचिद् भीत्यैव मम्रिरे ।
परस्परोपरि तदा वीरा निपतिताः परे
॥३१॥याहि याहीहि वस्त्रातुं चुक्रुशुस्तं नरान्तकम् ।
कराघातेन निहतान्भक्षयत्येष तत्क्षणात्
॥३२॥असङ्ख्यभक्षणादस्य न शान्तो जठरानलः ।
अश्वारोहा गजारोहाः पदाता रथसादिनः
॥३३॥भक्षिता निहता वाहा गजाश्चानेकशो मुने ।
एवं कोलाहलं श्रुत्वा सज्जं कृत्वा धनुर्बलात्
॥३४॥धरण्यां जानुनी स्थाप्य शरानुभयतस्तथा ।
आदाय धनुराकृष्य शरवृष्टिं तदाऽकरोत्
॥३५॥ततोऽन्धकारमभवच्छरवृष्टिकृतं पुनः ।
पक्षिणः पतिता भूमौ राज्ञो भृत्या अनेकशः
॥३६॥स गीलयति पुरुषो बाणान् दैत्यसमीरितान् ।
असङ्ख्याताः शरास्तस्य रोमकूपेषु निर्गताः
॥३७॥स्रवन्तो रुधिरं सर्वे न जानात्यणु वेदनाम् ।
प्रादुश्चक्रे ततोऽस्राणि पौरुषेण नरान्तकः
॥३८॥तान्यस्राण्यगिलत्सर्वाण्यडान्याजगरी यथा ।
कुण्ठितास्त्रः क्षीणशस्त्रो नष्टसायकसञ्चयः
॥३९॥क्षीणशक्तिः पपालासौ दैत्यराजो नरान्तकः ।
स कालपुरुषस्तस्य पृष्ठ एवालगत्तदा
॥४०॥बभ्राम भूतले दैत्योऽपश्यत्पृष्ठे तु तं यदा ।
तदा स्वर्गं जगामाशु भयात् तस्य नरान्तकः
॥४१॥पुनः पृष्ठे च तं दृष्ट्वा पपात धरणीतले ।
तत्रापि तं ददर्शाथ प्राविशद्धरणीतलम्
॥४२॥स कालपुरुषः केशे ततो दध्रे नरान्तकम् ।
बिलं विशन्तमुरगं गरुडोऽतिबलं यथा
॥४३॥ततो नरान्तकं प्राह पुरुषः स बलान्वितः ।
क्व गमिष्यसि दृष्टः सन् ममाग्रे त्वं नरान्तक
॥४४॥ईश्वरस्य वरान्मत्तो वृथा देवर्षिपीडनम् ।
मनुष्याणां च संहारमनन्तानां महाखल
॥४५॥तव संहरणे दुष्टावतीर्णोऽस्ति विनायकः ।
अहङ्कारं च सकलं त्यक्त्वा तं शरणं व्रज
॥४६॥अघानि ते विनश्यन्ति दृष्ट्वा तत्पादपङ्कजम् ।
इत्युक्त्वा तं बलाद् दैत्यमानिनाय नरान्तकम्
॥४७॥विनायकस्य निकटे दैत्यराजं परं ततः ।
उवाचाथ प्रणम्यासौ स्वामिनं तं विनायकम्
॥४८॥भक्षितं सर्वसैन्यं ते आज्ञां प्राप्य महत्तरम् ।
अत्यन्तं क्लेशितोऽनेन धृत्वैनं त्वां समानयम्
॥४९॥मम निद्रास्थलं यच्छ श्रमापनुत्तये विभो ।
सर्वेषां च सुखायास्य मुक्तिं यच्छ विनायक
॥५०॥एवं तद्वाक्यमाकर्ण्य तं विभुः प्रत्यभाषत ।
मम वक्त्रान्तर्गतस्त्वं निद्रां प्राप्नुहि स्वेच्छया
॥५१॥इत्याकर्ण्य महावाक्यं विनायकमुखोद्गतम् ।
तन्मुखं प्रविवेशाथ तद्रूपं समपद्यत
॥५२॥यथा गन्धो धराजातस्तत्रैव परिलीयते ।
तथा विनायकाज्जातस्तत्रैव लयमाप्तवान्
॥५३॥य इदं शृणुयाद्भक्त्या महादाख्यानमुत्तमम् ।
सर्वान् कामानवाप्याथ मुक्तिं च लभते ध्रुवम्
॥५४॥इति श्रीगणेशपुराणे क्रीडाखण्डे नरान्तकनिग्रहो नामाष्टपञ्चाशत्तमोऽध्यायः ॥ ५८ ॥