बालचरिते दुरासदजयो नाम द्विचत्वारिंशोऽध्यायः
गृत्समद उवाच
ज्ञात्वा पराक्रमं तस्य वक्रतुण्डस्य दैत्यराट् ।
आययौ धैर्यमालम्ब्य योद्धुमस्त्रैर्गजाननम्
॥१॥शिवं स्मृत्वा च मन्त्रं च वह्निदैवतमादरात् ।
अभिमन्त्र्य शरं तेन तत्याज स विनायके
॥२॥अग्निज्वालाभयाद्देवा देवपृष्ठमथागमन् ।
ततो विनायकोऽमुञ्चत् पर्जन्यास्त्रं हि सर्ववित्
॥३॥करिशुण्डामिता धाराः प्रादुरासँस्ततः क्षणात् ।
शान्तोऽभूत् तत्क्षणाद्वह्निस्ततो दैत्यो रुषान्वितः
॥४॥मारुतास्रं शीघ्रजवं वृष्टिवारणमासृजत् ।
च कम्पे धरणी वृक्षा गिरयः पतिता भुवि
॥५॥तदस्त्रेण महामेघाः क्षयं नीताः क्षणार्द्धतः ।
पर्वतास्तं ततो देव आविश्चक्रे मनोर्बलात्
॥६॥सर्वत्र पर्वता जाताः कुण्ठतामगमच्च तत् ।
विलीने मारुतास्त्रे तु रौद्रमस्त्रं ततोऽसृजत्
॥७॥तस्मिन्विमुच्यमाने तु वक्रतुण्डोऽप्यवासृजत् ।
ब्रह्मास्त्रं तन्निवृत्त्यर्थमगात्सैन्यं हि भस्मसात्
॥८॥परस्परमयुद्ध्येतामस्त्रे ते बहुवासरम् ।
तयोः सङ्घट्टनाद् वह्निर्न्यपतद् धरणीतले
॥९॥तेन दग्धान्जनान् ज्ञात्वा केशाभ्यां वारिते शुभे ।
अमात्यानब्रवीदैत्यो ज्ञात्वोत्कृष्टं विनायकम्
॥१०॥तेनाभियुध्यतां सर्वैर्भुक्त्वा यामि पुना रणम् ।
ततोऽमात्याः सर्वसैन्यैर्विनायकमयोधयन्
॥११॥विनायको गतश्चिन्तामेकाकित्वात् ततः क्षणात् ।
षट्पञ्चाशन्मिता मूर्तीश्चकारासौ स्वतेजसा
॥१२॥नानालङ्कारसंयुक्ता नानामालाविभूषिताः ।
सर्वे दिव्याङ्गदाङ्गास्ते सर्वे शशिविभूषणाः
॥१३॥केचिच्चतुर्भुजाः केचित्षड्भुजा दशहस्तकाः ।
सिंहारूढा बर्हिगताः केचिन्मूषकवाहनाः
॥१४॥सर्वे च युयुधुस्तत्र दारयन्तोऽरिसैनिकान् ।
केषाञ्चित्त्रोटिताः पादाः केषाञ्चिन्मस्तका अपि
॥१५॥केषाञ्चिद् बाहवो भिन्ना जानुजङ्घोदराणि च ।
हुङ्कारेणैव गर्जन्तः केचिच्च शरणं ययुः
॥१६॥केचित् पलायनपरा ययुर्जीवनहेतवे ।
केचित्प्रहारं कुर्वन्तो मम्रुः सम्मुखमेव च
॥१७॥ते तु स्वर्गं गता भेजुर्भोगानप्सरसोऽपि च ।
वाजिनश्च रथा नागा वाम्य उष्ट्रान्यनेकशः
॥१८॥नानाशस्त्राहताः पेतु खण्डदेहा गतासवः ।
असृङ्नद्यः प्रादुरासन् केशशैवलशोभिताः
॥१९॥आच्छूरिकासिमत्स्येभनक्रैः खेटककच्छपैः ।
रुण्डाब्जैश्च वसाफेनैर्मेदकर्दमसञ्चयैः
॥२०॥चापशस्त्रैरस्थिबकैश्चर्मपेशीसुदर्दुरैः ।
भल्लकाद्यैः शुशुभिरे मनस्विहृदयप्रियाः
॥२॥भुक्त्वागत्य ददर्शाथ सर्वं तद्रणमण्डलम् ।
सर्वस्मिन्निहते सैन्ये ततो दैत्योऽतिदुःखितः
॥२२॥संस्मार मनसा वाक्यं यदुक्तं शूलपाणिना ।
वरदानस्य समये जयस्ते शक्तिसम्भवात्
॥२३॥अयमेव भवेत्किं नु बालकः शक्तिसम्भवः ।
यदुत्कटं बलं दृष्टमस्मिन् त्रैलोक्यसारभृत्
॥२४॥कालोऽपि नैवं विजयेत् तत्र चान्यस्य का कथा ।
एवं मनसि कृत्वा स एकाकित्वात् पपाल च
॥२५॥वक्रतुण्डो गतश्चिन्तां न हन्तव्यो रिपुः पलन् ।
देवेभ्यो न मृतिश्चास्य यथाऽयं शङ्करोऽब्रवीत्
॥२६॥तस्माद्योगात्समास्थास्ये वैराटं रूपमुत्तमम् ।
ततो वैराटरूपेण स दधार करेण तम्
॥२७॥एकपादेन तस्थौ स काशीं तां रक्षितुं बलात् ।
एक पादं तु दैत्यस्य दधार मस्तके ततः
॥२८॥उवाच दैत्यं रे दैत्य वराच्छैवान्न ते मृतिः ।
अतोऽस्मिन्नगरे तिष्ठ पर्वतेव सुनिश्चलः
॥२९॥द्वारभूतः पुरस्यास्य यतः पूर्वं दृशिस्तव ।
दुष्टानां पीडको नित्यं नित्यं मे सन्निधिस्तव
॥३०॥दैत्योऽपि परया भक्त्या तमेव वरमर्थयत् ।
दैत्य उवाच ।
एवमेव सदा तिष्ठ स्थाप्य पादं मयिस्थिरम्
॥३१॥मुनिरुवाच
तथेति तमुवाचाथ स्थितः काश्यां विनायकः ।
एवं दुरासदं जित्वा चकार पृथिवीं शिवाम्
॥३२॥तस्मिन्कृत्वा पुष्पवृष्टिं प्रणम्य सम्प्रपूज्य च ।
स्वस्वस्थानं गता देवा मुनयः स्वाश्रमानपि
॥३३॥अन्ये ये ये तमर्चन्ति पूर्णकामा भवन्ति ते ।
एवं विनायकस्याथ काश्यां षट्पञ्चमूर्तयः
॥३४॥तुण्डनाख्ये पुरे चापि एकपादविनायकः ।
संहृत्य च विराट् रूपं सर्वकामप्रदः स्थितः
॥३५॥य इदं वरमाख्यानं शृणुयाद् भक्तिमान्नरः ।
सर्वान् कामानवाप्नोति गाणेशं पदमेति च ।
सर्वत्र जयमाप्नोति पुष्टिमारोग्यमेव च
॥३६॥इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते दुरासदजयो नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥