पितृसिन्धुसंवादो नाम विंशत्यधिकशततमोऽध्यायः
क उवाच
हतशिष्टाः केऽपि वीराः स्रवद्रक्ताः सुदुःखिता ।
सिन्धुं सभागतं चेत्थं भीत भीता अथाब्रुवन्
॥१॥वीरा ऊचः ।
धनुर्धर निबोधेदमतिदुःखकरं वचः ।
धर्माधर्मौ तव सुतौ कृत्वा युद्धं महत्तरम्
॥२॥निन्यतुर्देवसेनां तौ हत्वा हत्वा यमक्षयम् ।
ततः कोऽपि महावीरो मुखैः षड्भिर्विराजितः
॥३॥सोऽपि ताभ्यां रणे घोरे पातितो धरणीतले ।
पुनस्तेन धृतौ वीरौ शिखायां तावुभावपि
॥४॥भ्रामयित्वा बहुतरं पातितौ तौ धरातले ।
शतधा शीर्णदेहौ तौ गतौ तौ स्वर्गमुत्तमम्
॥५॥क उवाच
एवमाकर्ण्य तद्वाक्यं न्यपतद्दैत्यपुङ्गवः ।
शोकसागरमग्नोऽभूद् वज्राहत इवाचलः
॥६॥धावमानैः सुहृद्वर्गैः स आशूत्थापितो बलात् ।
मुहूर्तात्प्रकृतिं यातः शुशोच बहुदुःखितः
॥७॥सिन्धुरुवाच
शक्रादयो लोकपाला जिता याभ्यां रणे पुरा ।
तौ हतौ नु कथं वीरौ षडास्येन महाबलौ
॥८॥विहाय मृत्युलोके मां कथं स्वर्गं गतावुभौ ।
सुरसेनानिहन्तारौ कृतान्तस्यान्तकावुभौ
॥९॥नानेष्ये शत्रुमूर्द्धानं तदाऽऽस्यं दर्शये न च ।
गमनावसरे प्रोक्तं तत्सत्यं किं कृतं त्वया
॥१०॥अथ दुर्गासखीभिस्तु वृत्तान्तोऽन्तः पुरे तदा ।
कथितो विस्तरेणैव रुदतीभिः सुदुःखतः
॥११॥सख्युवाच
भर्त्ता रोदिति ते सुभ्रु धर्माधमौं मृताविति ।
साथ पर्यङ्कसुगता न्यपतत् पृथिवीतले
॥१२॥रम्भेव वातनिहता कोमलारुणपल्लवा ।
सखीदुष्टवचोभिः सा बाणैरिव हृदि क्षता ।
विस्रस्तकेशाभरणा साप्यरोदीत्तदा भृशम्
॥१३॥विस्रस्तवस्त्रा विकसत् बिल्वचारूपयोधरा ।
अश्रुश्यामलगण्डा सा शोकानलहतप्रभा
॥१४॥जघ्ने मुखं सा पाणिभ्यां दन्तासृक्सिक्तभूतला ।
निरस्तदेहभावा सा का विकला विगतत्रपा
॥१५॥सभाङ्गणगताऽलुण्ठद्धठकृद् बालको यथा ।
सर्वे ततः सभ्यवरा रुरुदुर्दुःखकर्षिताः
॥१६॥प्रस्रवन्नेत्रसलिलाःप्राब्रवीत् तान् सभासदः ।
राज्ञी उवाच ।
कथं सर्वेषु वीरेषु जीवत्सु तौ सुतौ मम
॥१७॥प्रेषितौ रणभूमिं तौ मामपृष्ट्वा तु कोमलौ ।
मयाशीश्चेन्नियुक्ता स्यान्न तयोर्मरणं भवेत्
॥१८॥न हि मे वचनं धाता मिथ्या कर्तुं समीहते ।
याभ्यां जिता देवगणास्तौ कथं निधनं गतौ
॥१९॥क्व द्रक्ष्याम्यहमेतौ यौ जिग्यतुर्मदनं रुचा ।
बुद्धीना यौ सरस्वन्तौ तौ मां त्यक्त्वा कथं गतौ
॥२०॥तयोः शोकाग्निना दग्धा मरिष्याम्यहमद्य वै ।
इत्युक्त्वा न्यपतद् भूमौ निघ्नती हृदये मुहुः
॥२१॥ततः सख्यो नागराश्च बोधयामासुरञ्जसा ।
न मातः कोऽपि शोकेन यो मृतः पुनरागतः
॥२२॥मृत्युलोके चिरं स्थाता नेक्षितो न श्रुतोऽपि च ।
विहाय हनुमन्तं च कृपं शारद्वतं बलिम्
॥२३॥व्यासं परशुरामं च बिभीषणमथापि च ।
द्रौणिं नान्यश्चिरं स्थायी न भूतो न भविष्यति
॥२४॥ब्रह्मादीनां भवेन्मृत्युः का तत्र गणनात्मनः ।
रोदनं तेन कर्तव्यं न स्यान्मृत्युः कदाऽस्य चेत्
॥२५॥क्षीणे ऋणानुबन्धे च स्त्री पुत्रः पशुरेव च ।
न तिष्ठति ध्रुवं तत्र कृतः शोको वृथा भवेत्
॥२६॥यथा काष्ठं काष्ठगतं पुरेणैव वियुज्यते ।
तद्वज्जन्तुर्वियोगं च योगं च प्राप्नुतेवशः
॥२७॥नानापक्षिगणा रात्रावेकवृक्षागता यथा ।
प्रातर्दशदिशो यान्ति तत्र किं परिवेदनम् ।
क उवाच ।
एवं प्रबोधिता दुर्गा सिन्धुश्च जन एव च
॥२८॥हठाच्छोकं निगृह्यासावासने संविवेश ह ।
उपहासं करिष्यन्ति सपत्ना रुदतामिति
॥२९॥दुर्गां धृत्वा बलाल्लोका निन्युरन्तःपुरं हि ताम् ।
निश्वसन्ती पपातासौ पर्यङ्के शोककर्षिता
॥३०॥स सिन्धुः क्रोधसंयुक्तो जग्राह शस्त्रसञ्चयम् ।
पुत्रयोनिष्कृतिं कर्तुं हयारूढो ययौ रणम्
॥३१॥याते तस्मिन्महासैन्यं चतुरङ्ग रणोत्सुकम् ।
उड्डीयोड्डीय धावन्तो ययुः पूर्वं पदातयः
॥३२॥नानावर्णा एकरूपा नानाशस्त्रास्रपाणयः ।
ततो वारणसङ्घाता नानाधातुविचित्रिताः
॥३३॥घण्टाभरणशोभाढ्या दानोदकप्रवर्षिणः ।
चीत्कारभीषितपरा महारावभयङ्कराः
॥३४॥ततोऽश्वा प्रागमन् सादियुक्ता वायुजवा रणम् ।
खुराघाताद् विस्फुलिङ्गान् पातयन्तो धरातले
॥३५॥शुशुभुः सादिनस्तत्र खेटकुन्तासिपाणयः ।
चन्दनागरुलिप्ताङ्गा नानामालाविभूषिताः
॥३६॥तनुत्राणभृतः सर्वे कङ्कटभ्राजिमस्तकाः ।
ग्रसन्त इव चाकाशं नादयन्तो दिशो दश
॥३७॥रथास्ततोऽगमन्नानामहावीरैरधिष्ठिताः ।
नानाशस्त्रास्त्रसम्पूर्णा धनुस्तूणीरसंयुताः
॥३८॥तन्मध्ये शुशुभे सिन्धुर्महामुकुटकुण्डलः ।
नानाशस्त्रधनुः पाणिस्तूणीरकृतभूषणः
॥३९॥वीरकङ्कणशोभाढ्यः कटिसूत्राङ्गदप्रभः ।
क्रोधसंरक्तनयनो लोकत्रयबुभुक्षया
॥४०॥वाद्यस्तु सर्ववाद्येषु बन्दिषु च स्तुवत्सु च ।
यावद्याति महावेगात् तावद् दूतस्तमब्रवीत्
॥४१॥पिता ते याति दैत्येश तं प्रतीक्षस्व सुव्रत ।
परावृत्येक्षते यावत् तावदश्वगतं सुतम्
॥४२॥अपश्यदभ्याशगतं नमश्चक्रे स चापि तम् ।
ददौ पिता तत्र सुतं दुर्गं कृत्वा चमूचरैः
॥४३॥उपदेशं च कृतवान् सुखायामुत्र चेह च ।
चक्रपाणिरुवाच ।
गर्वेण वर्तसे पुत्र श्रिया मत्तो न बुध्यसे
॥४४॥अथज्ञाने महावृद्धाः प्रष्टव्या भूतिमिच्छता ।
अग्रे शुभेच्छया पूर्वमशुभं न समाचरेत्
॥४५॥अल्पेन कर्मणा नाशं पुण्यमेत्य शुभेन ह ।
अणुरग्निर्दहेत् सर्वं पुण्यं दोषस्तथा सुत
॥४६॥न लाभो दृश्यते पुत्र बद्धेषु तेषु ते क्वचित् ।
स एव पुत्रो यो मातृपितृवाक्यकरोऽनिशम्
॥४७॥तस्य चोल्लङ्घने पुण्यं नाशमेति च जायते ।
दोषजालं मोहजालं नानानिरयदं सुत
॥४८॥अतः शृणु हितं वाक्यं मोचयाशु सुरान् सुत ।
मुक्तेषु तु भवेन्मित्रं मयूरेशोऽखिलार्थदः
॥४९॥न चेह द्वेषतः कश्चित् सुखं प्राप्तो धरातले ।
विनाशं प्रापिता देवैर्हिरण्याक्षादयोऽसुराः
॥५०॥क उवाच
इति पितृवचः श्रुत्वा चुकोपातितरां सुतः ।
धिक्कृत्य पितरं प्राह मम भ्रान्तिरभूत्पुरा
॥५१॥चतुरस्त्वं पिता मे वै ज्ञानं सम्यक् प्रकाशितम् ।
भाषसे मूढवत् तात कृत्वां श्यामं मुखं व्रज
॥५२॥येन मे निहता सेना परार्धगणितापितः ।
तेनेदानीं कथं साम कर्त्तव्यमयशस्करम्
॥५३॥कुशाक्षमाला धरणं राजधर्मेहि नेष्यते ॥
तस्माद् दया नरेन्द्रेण न कार्या शत्रुसञ्चये
॥५४॥निर्दयत्वमरावेव स्मृतं नीत्याऽऽमये यथा ।
एवमुक्त्वा नमस्कृत्य पितरं सिन्धुदैत्यराट्
॥५५॥परावृत्य बलात्तं स ययौ योद्धं रणोत्सुकः
॥५६॥इति श्रीगणेशपुराणे क्रीडाखण्डे पितृसिन्धुसंवादो नाम विंशत्यधिकशततमोऽध्यायः ॥ १२० ॥