मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 132

3
क्रीडाखण्डः · 132

कैलासाभिगमनं नाम द्वात्रिंशोत्तरशततमोऽध्यायः

क उवाच

ततः कदाचिद् दैत्येन्द्र सिन्दूरो मदगर्वितः ।

सभासनगतः प्राह वृथा मे पौरुषं कृतम्

॥१॥

इन्द्राऽदयो न मे युद्धं ददुर्ब्रह्मादयो हरिः ।

राज्ञां तु गणना नैव मृत्यु लोकनिवासिनाम्

॥२॥

कुलीनाया यथा नार्या यौवनं हि पतिं विना ।

तथा मे पौरुषं व्यर्थं योद्धृभिर्हि विनाभवत्

॥३॥

(योद्ध्राऽभवत् खलु) ततोऽन्तरिक्ष वाणीं स शुश्राव परमाद्भुताम् ।

आकाशवाण्युवाच ।

किमर्थं वल्गसे मूढ जातोऽस्ति तव युद्धदः

॥४॥

पार्वत्या उदराद्गर्भो वरेण्यगृहगोऽधुना ।

वर्द्धतेऽनन्तलीलोऽसौ यथेन्दुः शुक्लपक्षगः

॥५॥

क उवाच

श्रुत्वेत्थं सहसा वाणीं मुमूर्च्छ सिन्दुरस्तदा ।

विहर्षश्चिन्तयामास किमिदं केन भाषितम्

॥६॥

यदि दृश्यो भवेन्मह्यं खादेयं तं समस्तकम् ।

कालस्य मे कथं मृत्युः पश्चात्सूर्योदयो यथा

॥७॥

एवमुक्त्वोदतिष्ठत् स गर्जयन् विदिशो दिशः ।

उड्डीय सहसा प्रायात् कैलासं गिरिजालयम्

॥८॥

चूर्णयन् पर्वतान् वृक्षान् पातयन् स्वाग्ङमारुतात् ।

चेलतुः कूर्मशेषौ च चकम्पे च वसुन्धरा

॥९॥

न ददर्श शिवं तत्र पुनः सर्वसहां ययौ ।

बभ्राम वसुधां सर्वां शिवं वेगात् गवेषयन्

॥१०॥

पर्यल्याख्यं महारण्यमाजगामरुषान्वितः ।

ददर्श दूरतो गौरीसहितं शङ्करं तदा

॥११॥

मण्डपं च गणांश्चैव सरांसि चोत्पलानि च ।

ततो जगाम सहसारिष्टं गौर्ये प्रकल्पितम्

॥१२॥

अदृष्ट्वा तत्र बालं स चुकोपाग्निरिव ज्वलन् ।

ततः स तर्कयामास न वाणी नभसो मृषा

॥१३॥

अस्यः सुतो मां हि हन्यान्न जातश्चेद् भविष्यति ।

तस्मादेनां निहन्म्यद्य मूलच्छेदस्ततोभवेत्

॥१४॥

क उवाच

एवं निश्चित्य मनसा ततः शस्त्रमुपाददे ।

यावदुमां हन्ति दुष्टस्तावद् दृष्टः शिशुः पुरः

॥१५॥

चतुर्भुजोऽतिरुचिरो मुकुटाङ्गदभूषितः ।

परशुं कमलं मालां दधद् विस्मयदायकः

॥१६॥

कटौ शेषं गले हारं नूपुरौ चाङ्घ्रियुग्मयोः ।

निवृत्तस्तद्वधात् सद्यस्तां च सुप्ताममन्यत

॥१७॥

दधार बालकं हस्तेऽकाङ्क्षत् क्षेप्तुं महोदधौ ।

एवं निश्चितसङ्कल्पस्ततोऽसौ चकितः पुरा

॥१८॥

ततः स बालो ववृधे हिमाचल इवापरः ।

सिन्दूरोऽपि च कम्पेऽसौ मदाभारातुरः क्षणात्

॥१९॥

श्वासाकुलः पुरो गन्तुं न शशाक स्वशक्तितः ।

ततस्तत्याज तं बालं दैत्यो विव्हलतां गतः

॥२०॥

बाले तु पतिते भूमौ महारावविराविणि ।

चेलुश्च पर्वता नादैश्चकम्पे च वसुन्धरा

॥२१॥

बभ्रुमुर्विहगा व्योम्नि नानारावविराविणः ।

अर्णवाः क्षोभिताः सप्त ब्रह्माण्डमपि पुस्फुटे

॥२२॥

स बालः पतितो रेवाजलान्ते मुनिसन्निधौ ।

तत्र तीर्थमभूच्छ्रेष्ठं गणेशकुण्डमित्युत

॥२३॥

अस्या आजन्मतः पापं नाशमेति स्मृतेः क्षणात् ।

दर्शनाद् दशजन्मीयं स्नानाच्च शतजन्मजम्

॥२४॥

सेवनं मोक्षदं यस्य अनुष्ठानवतां नृणाम् ।

तद्देहरुधिरात् तत्र प्रस्तरा रक्ततां गताः

॥२५॥

त एव नार्मदाः ख्याता गणेशाः पापनाशनाः ।

दर्शनात् पूजनात् सर्वकामदा भक्तिकारिणाम्

॥२६॥

नर्मदामहिला सर्वो वर्णितुं नैव शक्यते ।

ततः स जहृषे दैत्यो रिपुर्मे नाशतां गतः

॥२७॥

तावत् कुण्डात् समुद्भूतो भीषणः पुरुषो महान् ।

जटाभारेण सञ्छन्नो वल्लीछन्नो धरो यथा

॥२८॥

दंष्ट्राकरालवदनो जिव्हाव्यालीसमावृतः ।

दीर्घपाण्यङ्घ्रियुगलः श्वासव्याकुललोचनः

॥२१॥

दृष्ट्वा तथाविधं तं तु क्रोधव्याकुललोचनः ।

उवाच दैत्यः सिन्दुरो न चास्य गणना मम

॥३०॥

एवमुक्त्वा खङ्गहस्तो ययौ हन्तुं तु तं रुषा ।

खड्गेन हन्ति तं यावत् तावत् स ददृशेऽम्बरे

॥३१॥

उवाच दैत्यं रे दैत्य वृथा मां त्यक्तवान् क्षितौ ।

तवान्तकस्तु रे मूढ वर्धितः क्वचिदेव हि

॥३२॥

हनिष्यत्येव नूनं त्वां साधुरक्षणतत्परः ।

अन्तर्दधे ततो भीम एवमुक्त्वा स पूरुषः

॥३३॥

ततो दैत्यो महारोषादुवाच निजसेवकान् ।

ध्रियतां ध्रियतामेष येनोक्तं पौरुषं वचः

॥३४॥

यदा तं क्वाऽपि नापश्यत् तदा स्वस्थानमागमत् ।

द्रक्ष्यामि तं यदा शत्रुं जयिष्य इत्यमन्यत

॥३५॥

एतावच्चरितं तस्य पार्वत्याऽज्ञायि नैव तत् ।

तस्यैव मायामोहेन प्राप्तया मोहमुत्तमम्

॥३६॥

ततः प्रोवाच गिरिशं पार्वती विनयान्विता ।

अत्र पीडा दैत्यकृता प्रारब्धा जगदीश्वर

॥३७॥

कैलासं गन्तुमिच्छामि तवेच्छा चेन्नयस्व माम् ।

एवमाकर्ण्य तद्वाक्यं जहृषे शङ्करोऽपिच

॥३८॥

आरुह्य नन्दिनं सद्यः पार्वत्या सह शङ्करः ।

सप्तकोटिगणाकीर्णः कैलासं प्राप तत्क्षणात्

॥३९॥

प्रविश्य स्वालयं गौरी परमं हर्षमाययौ

॥४०॥

इति श्रीगणेशपुराणे क्रीडाखण्डे कैलासाभिगमनं नाम द्वात्रिंशोत्तरशततमोऽध्यायः ॥ १३२ ॥