मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 109

3
क्रीडाखण्डः · 109

राक्षसवधो नाम नवाधिकशततमोऽध्यायः

कदाचित्पार्वती प्राह सुखासीनं महेश्वरम् ।

गतानि तु महादेव वर्षाणि दशपञ्च च

॥१॥

विवाहश्चिन्त्यतामस्य मयूरेशस्य साम्प्रतम् ।

सुशीला सुमुखी बाला मृगाक्षी हंसगामिनी

॥२॥

पिकवाक् सुनसा तन्वी वधूः क्वापि विचार्यताम् ।

मन्मथातुलदेहस्य सर्वाङ्गसुन्दरस्य ह

॥३॥

क उवाच

इति तद्वचनं श्रुत्वा साधु साध्वित्यभाषत ।

सोऽचिन्तयच्छुभां कन्यां मनसा नापकुत्रचित्

॥४॥

ततश्चिन्तां परां प्राप तावन्नारद आगतः ।

सम्पूज्य चोपवेश्यैनमासने शम्मुरब्रवीत्

॥५॥

शम्भुरुवाच

आल्हादं परमं प्राप्तस्तवागमनतो मुने ।

चिरागतोऽसि च मुने दिनं स्थातुं त्वमर्हसि

॥६॥

अतिसुन्दरकायस्य तनयस्य ममानघ ।

गवेषय वधूं विप्र यतस्त्रैलोक्यगो भवान्

॥७॥

क उवाच

तथैव पार्वती प्राह वधूं शीघ्रं विचारय ।

नारद उवाच ।

न स्थातुं शक्यते स्वामिन् कर्मणा द्विमुहूर्तकम्

॥८॥

एतदर्थमहं प्राप्तो ब्रह्मणा प्रेषितः शिव ।

तव पुत्रप्रभावश्च लावण्यं वय एव च

॥९॥

ज्ञातं धात्रा सिद्धिबुद्धी तस्मै दातुमभीप्सता ।

अनसूया शची चापि तयो रूपेण लज्जिते

॥१०॥

संज्ञाऽभूद्दण्डकारण्ये शिलाऽहल्यापि सा ह्यभूत् ।

जालन्धरस्य या पत्नी वृन्दा माधवमोहिनी

॥११॥

सापि वृक्षत्वमापन्ना यद्रूपदर्शनाद् हर ।

अन्ये नानावरा गौरि नागता ब्रह्मणो हृदि

॥१२॥

नैतादृशं क्वापि देवि सौन्दर्यं शौर्यमेव च ।

तयोर्योगेन च तव सुतः शोभामवाप्नुयात्

॥१३॥

रत्नकाञ्चनयोर्यद्वद्यथा मुक्ताप्रवालयोः ।

क उवाच ।

एवं नारदवाक्येन स तुतोष हरः शिवा

॥१४॥

शिव उवाच

सम्यगुक्तं मुने वाक्यं वाञ्छितार्थकरं शुभम् ।

क उवाच ।

शिवोऽपि तत्क्षणादेव वृषारूढः समाह्वयत्

॥१५॥

इन्द्रादीदेवनिचयान्गौतमादीन्मुनीनपि ।

अर्धाङ्गे पार्वतीं गृह्य ययौ हर्षसमन्वितः

॥१६॥

शिखण्डिनं समारुह्य मयूरेशः पुरो ययौ ।

नारदस्तु तपोयोगादन्तरिक्षचरो ययौ

॥१७॥

सप्तकोटिगणाः क्रीडां कुर्वन्तोऽभिययुस्तदा ।

नानायुधधरा हर्षाद् गर्जयन्तो दिशोदश

॥१८॥

वाद्यत्सु सर्ववाद्येषु रजसाच्छादिते रवौ ।

अष्टाशीतिसहस्राणि मुनयोऽपि ययुर्मुदा

॥१९॥

गण्डकीनगरं सर्वं गन्तुकामा व्यलोकयन् ।

गुल्मं मार्गे रक्षसां ते सप्तकोटि गणान्वितम्

॥२०॥

नभस्पर्शिमुखानां च सर्वदा कालधिक्कृताम् ।

निशाचराः शुश्रुवुस्ते सेनायास्तु रवं दृढम्

॥२१॥

सुप्तोत्थिताश्च सन्नद्धा ययू रणविधित्सया ।

राक्षसा ऊचुः ।

कस्य यूयं कुतो याथ कृत आगमनं च वः

॥२२॥

न विज्ञाय पुरे गन्तुं दास्यामः स्वामिनश्च नः ।

मयूरेश उवाच ।

स्वतन्त्रा अन्तका दैत्यरक्षसां साधुपालकाः

॥२३॥

अत्तो यच्छन्तु नो मार्गं नो चेन्नाशं व्रजिष्यथ ।

क उवाच ।

एतस्मिन्नन्तरे प्राप्तो विकृतो हेमनामकः

॥२४॥

असुरोऽथाब्रवीद् देवमेकाकी प्रहितः पुरा ।

इदानीं राक्षसैः सार्द्धमादास्ये जीवितं तव

॥२५॥

उवाच राक्षसान् सोऽथ नानादैत्या हता बलात् ।

अहं च विकृतोऽनेन यतोऽहं हन्यते जवात्

॥२६॥

क उवाच

इति तद्वचनं श्रुत्वा चुक्रोध स मयूरराट् ।

मुनिपुत्रान्समाज्ञाप्य युध्यध्वं मे ह्यनुग्रहात्

॥२७॥

कुशानुद्यम्य ते हर्षात् युद्धं कर्तुं समुद्यताः ।

उवाच पृष्ठतो देवो घ्नन्तु बालाः कुशैरिमान्

॥२८॥

मन्त्रितास्ते कुशास्तेषां मस्तकानच्छिनन् बहून् ।

तेषां शस्त्राणि कुण्ठानि जातानि तदनुग्रहात्

॥२९॥

जायन्ते तावदेते तान् कुशैर्जघ्नुस्तु राक्षसान् ।

खण्डशस्ते निपेतुर्वै छिन्नबाहूरुजानवः

॥३०॥

व्यस्मयन्त च रक्षांसि तृणैर्मृत्युं व्रजन्ति किम् ।

एवं सर्वे हता बालैरखिला राक्षसास्तदा

॥३१॥

जगर्जुस्ते मयूरेशं प्रापुर्नत्वाऽप्यपूजयन् ।

बाला ऊचुः ।

आज्ञया निहताः सर्वे राक्षसास्त्वत्प्रसादः ।

पनराज्ञां नः प्रयच्छ करिष्यामो गुणेश्वर

॥३२॥

आश्चर्यं परमं जग्मुर्मुनयो ये समागताः ।

दृष्ट्वा बालैर्हतान्त्सर्वान् राक्षसान्कुशसञ्चयैः

॥३३॥

पार्वती वृषभात् तस्मादवरुह्यालिलिङ्ग तम् ।

शिवोऽपि प्राब्रवीद्देवं दृष्टस्तेऽद्य पराक्रमः

॥३४॥

तव शस्त्रहताः पूर्वं निहता बालकैः कुशैः ।

ब्रह्मादीनामगम्यस्ते प्रभावो गिरिजासुत

॥३५॥

न ज्ञायते मया वापि किं किमग्रे करिष्यसि

॥३६॥

इति श्रीगणेशपुराणे क्रीडाखण्डे राक्षसवधो नाम नवाधिकशततमोऽध्यायः ॥ १०९ ॥