विश्वरूपदर्शनं नाम द्विनवतितमोऽध्यायः
क उवाच
ततः कदाचिद् गिरिजा प्रातः स्नात्वा त्वरान्विता ।
सुप्ते बाले चतुर्वर्षे लिङ्गपूजां चकार सा
॥१॥वामहस्ते निधायैव पार्थिवीं मूर्तिमुत्तमाम् ।
स उत्थाय रुदन् स्तन्यं ययाचे हठतत्परः
॥२॥क्षणं तिष्ठ क्षणं तिष्ठेत्येवं माता न्यषेधयत् ।
स रुषाऽपातयन्मूर्तिं तद्धस्ताद्धस्तघाततः
॥३॥तं च सा हस्तघातेन जघान दृढ रोषतः ।
स रुषा पुनरागत्य ददंशाङ्गुलिमुल्बणम्
॥४॥मञ्च मुञ्च मम प्राणा गमिष्यन्तीति साऽब्रवीत् ।
दष्टामङ्गुलिमृत्सृज्य पपाल दूरतोऽर्भकः
॥५॥अस्रवद्रुधिरं तस्या अङ्गुलेर्बहुलं भुवि ।
यथा क्षीरकर्मवृक्षाद् दृढाघातेन पीडितात्
॥६॥ततो यष्टिं समादाय ताडितुं सा सुतं ययौ ।
धावयित्वा दधारैनं ददर्श शिवरूपिणम्
॥७॥पञ्चवक्त्रं दशभुजं त्रिनेत्रं शेषशोभितम् ।
त्रिशूलं डमरूं भस्म रुण्डमालां च बिभ्रतम्
॥८॥वसानं चर्मणी हस्तिव्याघ्रयोः शशिशेखरम् ।
दृष्ट्वेत्थं लज्जिता यष्टिं तत्याजाधोमुखी शिवा
॥९॥पुरो वा मन्दिरं वापि गन्तुं सा नाशकत् तदा ।
तच्चिन्तां स परिज्ञाय बभूवार्भकरूपवान्
॥१०॥क्रीडते मुनिपुत्रेषु मुनिबालस्वरूपवान् ।
अन्वयाद् गिरिजा बालं नापश्यत् तेषु तं सुतम्
॥११॥पप्रच्छ तान् मुनिसुतान् मम बालः कुतो गतः ।
दष्ट्वाङ्गुलीं मदियां तु पपाल चपलोऽर्भकः
॥१२॥त ऊचुर्मुनिपुत्रास्ताभितो यातोऽर्भकस्तव ।
ततो जगाम गिरिजा पुरतः पुरतोऽपि च
॥१३॥विशीर्णकबरीभारा श्रमधर्मसमन्विता ।
इतस्ततो धावमाना स्रस्तवस्त्राञ्चला शिवा ।
तस्याः श्रमं स विज्ञाय ययौ पूर्वस्वरूपवान्
॥१४॥तदन्तिकं दधारैनं हस्ताभ्यां गिरिजा दृढम् ।
स्वीयाञ्चलेन तं बद्ध्वा ययौ हृष्टा स्वमन्दिरम्
॥१५॥उवाच रोषात् सम्यक्त्वं मम हस्ते समागतः ।
अपस्मारातिचपल मारयिष्येऽधुना भृशम्
॥१६॥शम्भवे वा निवेदिष्ये स त्वांवा ताडयिष्यति ।
श्रुत्वेत्थं वचनं मातुर्लुलुण्ठ धरणीतले
॥१७॥निःसृतं बन्धनं ज्ञात्वा पपाल त्वरया पुनः ।
पुनर्धावति सा पृष्ठे दुखिःता भृशविव्हला
॥१८॥एतस्मिन्नन्तरे दुष्टो दानवः कर्दमासुरः ।
द्विजरूपधरो मालां दधानो दक्षिणे करे
॥१९॥कमण्डलुं वारिपूर्णं भस्मोद्धूलितविग्रहः ।
अरुणार्कनिभे वस्त्रे वसानो मायिको भृशम्
॥२०॥स ऊचे वचनं बालं किमर्थं त्वं पलायसे ।
त्वद्भीतेवार्रणं सद्यः करिष्येऽहं न संशयः
॥२१॥नेष्ये त्वां यत्र ते माता न जानीयात् कथञ्चन ।
न च कालभयं तत्र न चान्यद्भयमण्वपि
॥२२॥क उवाच
तमुवाचार्भको भीतस्तथा कुरु यथा मम ।
न पश्येज्जननी तात शरणं त्वामुपागतः
॥२३॥एवं वदति यावत्तु ययौ बालस्वभावतः ।
गिगील तावदेवासौ तं दुष्टः कर्दमासुरः
॥२४॥रम्भाफलस्य पक्वस्य खण्ड कोमलमर्थकम् ।
तत्पादपद्मचिन्हानि भूमौ दृष्ट्वा ययौ शिवा
॥२५॥द्विजं ददर्श पुरतोऽपृच्छत् तं च ततोऽर्भकम् ।
स्वामिन् त्वया मम सुत इतो गच्छन्निरीक्षितः
॥२६॥इमानि पदपद्मानि चिन्हयुक्तानि पश्य भोः ।
इदानीं धावमानः स कुत्र गुप्तोऽभवद् द्विज
॥२७॥ततस्तामब्रवीद् विप्रो दुःखितां तद्धियोगतः ।
द्विज उवाच ।
किं नः प्रयोजनं मातस्तनयेन तवानघे
॥२८॥उदासीनतया मातस्तिष्ठतामीशचेतसाम् ।
तथापि नैव दृष्टस्ते तनयः क्वापि शैलजे
॥२९॥तनयः किं त्वया देवि मदधीनः कृतोऽभवत् ।
क उवाच ।
एवं वदति तस्मिंस्तु दुःखितां वीक्ष्य शैलजाम्
॥३०॥आविरासीन्निर्विकारस्तन्मुखात् स गुणेश्वरः ।
सा प्राह तनयं दृष्ट्वा कथं मिथ्या ब्रवीषि रे
॥३१॥तवैव निकटे पुत्रो दृष्टोऽयं गोपितस्त्वया ।
सन्तः प्राणात्यये प्राप्ते न भाषन्तेऽनृतं क्वचित्
॥३२॥क उवाच
इति तस्या वचः श्रुत्वा स दैत्यो दीर्घदेहवान् ।
व्योमस्पृङमस्तको बालमादाय निर्ययौ ततः
॥३३॥ततः सा पृष्ठतो लग्ना क्रन्दन्ती तनयं शिवा ।
गणेशोऽपि ततो दध्रे तस्माद्दीर्घतरं वपुः
॥३४॥दृष्ट्वा दुःखं जनन्यास्तु प्रशोचन्त्या मुहुर्मुहुः ।
तद्देहं शतधा कृत्वा चुचूर्णाङ्घ्रिविघाततः
॥३५॥पतमानोऽपि तद्देहश्चूर्णयामास शाखिनः ।
जनन्या अग्रतस्तस्थौ संहृत्येवं तु दानवम्
॥३६॥गुणेशो मुनयो देवास्तत्पत्न्योऽथ समागताः ।
ऊचुस्तां पार्वतीं विघ्नाः कियन्तोऽस्य भवन्ति हि
॥३७॥त एव नाशमायान्ति तव पुण्यात् सुरेश्वरि ।
सर्वेस्तैः पूजितं बालं गृहीत्वा स्वकटौ शिवा
॥३८॥गृहं जगाम तैस्ताभिर्हर्षनिर्भरमानसा ।
पुरामरगणान् जित्वा गरुत्मानमृतं यथा
॥३९॥उत्ततार शिवा बालं स्वाङ्गणे कटिदेशतः ।
स तु मूर्च्छाङ्गतो लुण्ठन्धरण्यां च पुनः पुनः
॥४०॥वारं वारं ददौ जृम्भां प्रासार्य मुखपङ्कजम् ।
किं जातमधुनैवास्य धावयित्वा ययौ शिवा
॥४१॥मुखमध्ये ददर्शास्य विश्वं विश्वस्वरूपिणः ।
सप्तद्वीपां वसुमतीं पुरग्रामवनाकरान्
॥४२॥ब्रह्माणं भास्करं शेषं विष्णुं पर्वतसागरान् ।
गन्धर्वान्यक्षरक्षांसि मुनिन् पक्षिगणानपि ।
नदीवापीतडागानि मनूनष्टौ वसूनपि
॥४३॥शशिसूर्यानलोडूनि सचेतनमचेतनम् ।
पातालान्यपि सप्तानि स्वर्गानप्येकविंशतीम्
॥४४॥एवं त्रिभुवनं दृष्ट्वा मुमूर्च्छ गिरिजा तदा ।
निमील्य नयने भ्रान्ता मुहूर्तद्वयमास्थिता
॥४५॥शिवं संस्मार मनसा सावधाना ततोऽभवत् ।
यथा पूर्वस्थितं बालं पश्यति स्म पुरःस्थितम्
॥४६॥ततस्तं परितुष्टाव तत्प्रसादप्रसन्नधीः ।
पार्वत्युवाच ।
परमात्मा त्वमेवासि चराचरगुरुर्भवान्
॥४७॥चिदानन्दघनो नित्यो नित्यानित्यस्वरूपवान् ।
त्वत्कुक्षौ परिदृष्टानि भुवनानि चतुर्दश
॥४८॥देवा यक्षाश्च रक्षांसि सरितो वृक्षसञ्चयाः ।
सर्वं चराचरं दृष्टं मया वक्तुं न शक्यते
॥४९॥भ्रान्ताऽहं पतिता भूमौ सावधाना शिवस्मृतेः ।
जाताऽहं बालरूपेणापश्यं त्वां प्राकृतं शिशुम्
॥५०॥क उवाच
एवं स्तुवत्यां तस्यां तु मायामाविश्वकार सः ।
लालयित्वा कटौ गृह्य स्तनपानं ददौ शिवा
॥५१॥गृहं प्रविष्टा गिरिजा गृहकार्यरताऽभवत् ।
मुनयो मुनिपत्न्यश्च ययुः स्वं स्वं निवेशनन्
॥५२॥इदमाख्यानकं श्रुत्वा सर्वपापैः प्रपुच्यते
॥५३॥इति श्रीगणेशपुराणे क्रीडाखण्डे विश्वरूपदर्शनं नाम द्विनवतितमोऽध्यायः ॥ ९२ ॥