वरप्रदानं नाम चतुःसप्ततितमोऽध्यायः
क उवाच
त्यक्ते गर्भे तया सिन्धौ बालोऽजनि महाबलः ।
तेजस्वी विकरालास्यो दीर्घभालस्रिलोचनः
॥१॥रक्तकेशजटाभारश्चक्रपाणिस्त्रिशूलभृत् ।
बालशब्देन तस्याथ च कम्पे भुवनत्रयम्
॥२॥आजानुबाहुराकान्तुमियेष विष्टपत्रयम् ।
चुक्षुभे सागरस्तेन यादोभिर्मुनिसत्तम
॥३॥तत्र स्थितस्तु बालोऽसौ समुद्रमुपशोषयत् ।
समुद्र उवाच ।
जीवनाय मम सुतं नेष्य एनं नृपालयम्
॥४॥क उवाच
इत्यानिनाय तं बालं समुद्रो नृपमन्दिरम् ।
तव पत्न्याऽत्याजि गर्भो दुःसहत्वान्ममोदरे
॥५॥दम्पत्योः पुरतः स्थाप्य प्रोच एवं द्विजस्तदा ।
उग्रो बालस्ततो जातोऽखिललोकभयङ्करः
॥६॥यस्य प्रथमशब्देन कम्पितं भुवनत्रयम् ।
नेत्राभ्यां नेक्षितुं शक्योऽत एवैनमुपानयम्
॥७॥इत्युक्त्वा बालकं मुक्त्वाऽन्तर्दधे सागरस्तदा ।
तत एनं कराभ्यां सा कटौ दध्रे नृपाङ्गना
॥८॥स्थापयित्वा ददौ प्रेम्णा स्तनपानं मुदान्विता ।
उभावानन्दयुक्तौ तौ दम्पती पुत्रदर्शनात्
॥९॥यथा चिरं योगनिष्ठो लब्ध्वा ब्रह्मामृतं परम् ।
तत आकारयामास ब्राह्मणान्सुहृदोऽपि च
॥१०॥ज्योतिर्विद्भिर्विचार्यास्य सिन्धुरित्यभिधां शुभाम् ।
राज्ञी चक्रे नृपश्चास्य जातकर्म यथाविधि
॥११॥कृत्वा ददौ ततो दानमनेकं हर्षनिर्भरः ।
अनेकेभ्यो द्विजातिभ्यो वस्त्राणि विविधानि च
॥१२॥दापयामास नगरे पताकाभिरलङ्कृते ।
वाद्यत्सु सर्ववाद्येषु शकरां च गृहे गृहे
॥१३॥गतेषु सर्वलोकेषु रक्ताङ्ग इति नाम च ।
चक्रतुर्दम्पती स्नेहादथामात्यौ समूचतुः
॥१४॥उग्रायास्तनयश्चायमुग्रमुद्राधरोऽपि च ।
अयमुग्रेक्षण इति नाम्ना ख्यातो भविष्यति
॥१५॥विप्रप्रसादन इति पौरा नाम प्रचक्रिरे ।
ततः सर्वे पौरजना उपदा विविधास्तदा
॥१६॥ददुर्नृपाय सोऽप्येतान् दापयामास तत्क्षणात् ।
ववृधे बालकः सोऽथ शुक्लपक्षे यथा शशी
॥१७॥यथाऽग्निर्वायुवेगेन वर्धते क्षणमात्रतः ।
तथा स्वतेजसा बालः प्रवृद्धो गगनं स्पृशन्
॥१८॥क्रीडन्नेव सदा बालो वृक्षान् गृहगतान्बहून् ।
उत्पाट्य पातयामास वामहस्ततलेन ह
॥१९॥अरण्ये क्रीडता तेन पर्वताश्चूर्णिता द्रुमाः ।
उड्डीय चन्द्रहरिणं क्षणं जग्राह कार्हिचित
॥२०॥जलावतारमार्गे तु रुद्धे क्वापि करेणुना ।
मुष्टिघातेन बिभिदे गण्डमस्याः पपात सः
॥२१॥एवं तस्याद्भुतं कर्म दृष्ट्वा लोका विसिस्मिरे ।
जहर्ष जननी चास्य पिता ज्ञात्वाऽतिमानुषम्
॥२२॥एवं प्रवृद्धो बालोऽसौ सिन्धुनामा महाबलः ।
उवाच पितरं यास्ये तपस्तप्तुमहं नृप
॥२३॥अनुष्ठित्या स्वर्गलोकं भूलोकं च रसातलम् ।
आक्रमिष्ये वृथायुर्मे गच्छतीति मतिर्मम
॥२४॥एवमाकर्ण्य तद्वाक्यमूचतुः पितरौ च तम् ।
उत्कर्षं स्वस्य पुत्रस्य नित्यं प्रार्थयते पिता
॥२५॥जननी सर्वदेवेभ्यो व्रतदानादिनापि च ।
एवमाज्ञामवाप्यैव नत्वा तौ स ययौ वनम्
॥२६॥तत्र भ्रमन् ददर्शाथ कासारं जलजैर्युतम् ।
तत्र स्थातुं मनश्चक्रे विविक्तमिति हर्षितः
॥२७॥एकाङ्गुष्ठेन भूमिष्ठ ऊर्ध्वबाहू रविं स्मरन् ।
शुक्रोपदिष्टं तं मन्त्रं जपन् पर्वतनिश्चलः
॥२८॥दक्षिणे जानुनि सदा वामपादं निधाय च ।
अञ्जलिं हृदि विन्यस्य ध्यायन् दिनमणिं तदा
॥२९॥शीतवातातपजलवृष्टीनां सहनो दृढः ।
वायुमात्राशनस्तस्थौ वल्मीकाक्रान्तविग्रहः
॥३०॥अस्थिमात्रावशिष्टोऽपि जपत्येव महामनुम् ।
एवं तस्य व्यतीताय शरदां द्विसहस्रकम्
॥३१॥तस्य सिन्धोः शरीरोत्थास्तेपुर्भासो रविं तदा ।
एवमुग्रं ततो दृष्ट्वा प्रत्यक्षोऽभूद् दिवाकरः
॥३२॥उवाच परमप्रीतोऽनुष्ठानेन तवाधुना ।
वरं वरय चित्तस्थं दास्यामि जीवितावधि
॥३३॥सिन्धुस्तदाकर्ण्य वचो भाषितं भानुना स्वयम् ।
देहभावं गतौऽपश्यत् पुरतो भास्करं प्रभुम्
॥३४॥नत्वा तत्पादकमलं बद्धाञ्जलिपुटोऽब्रवीत् ।
नमस्ते दीननाथाय नमस्ते सर्वसाक्षिणे
॥३५॥नमस्ते त्रिदशेशाय ब्रह्मविष्णुशिवात्मने ।
नमस्ते विश्ववन्द्याय नमस्ते विश्वहेतवे
॥३६॥नमस्ते वृष्टिबीजाय सस्योत्पादनहेतवे ।
परब्रह्मस्वरूपाय सृष्टिस्थित्यन्तहेतवे
॥३७॥गुणातीताय गुरवे गुणक्षोभविधायिने ।
सर्वज्ञाय ज्ञानदात्रे सर्वस्य पतये नमः
॥३८॥धन्यं मे जन्म देवेश वंशो मे जनकोऽपि च ।
जननी च तपश्चापि यज्जातं तव दर्शनम्
॥३९॥वरदश्चेद्दिनेश त्वं देदि मे सर्वतोऽमृतिम् ।
तव प्रसादात् सङ्ग्रामे जयेयं सर्वदेवताः
॥४०॥वर्तमानाद् देवगणान्न मे मृत्युर्भवेदिति ।
एवं तस्य वरान् श्रुत्वा परितुष्टो विभावसुः ।
उवाच निजभक्तं तमनुष्ठानभृशं कृशम्
॥४१॥सूर्य उवाच
न भयं विद्यते देवयोनिभ्यो नृभ्य एव च ।
न तिर्यग्भ्यो न नागेभ्यो न दिवा न निशि क्वचित्
॥४२॥नोषःकाले न सन्ध्यायां मम वाक्याद्भविष्यति ।
मरणं ते नृपसुत गृहाणामृतभाजनम्
॥४३॥इदं यावत्कण्ठगतं तावन्मृत्युर्न ते भवेत् ।
निष्काशयेदिदं यस्ते तस्मान्मृत्युर्भविष्यति
॥४४॥देवो योऽवतरेत्कोऽपि धुन्वन् केशाग्रतो दिवम् ।
यस्याङ्गुष्ठनखाग्रे स्युर्ब्रह्माण्डानां हि कोटयः
॥४५॥स त्वां हनिष्यति विभुरन्यस्मादभयं तव ।
मद्वरस्य प्रसादेन सर्वं तृणमयं तव
॥४६॥त्रैलोक्यराज्यं ते दत्तं नात्र कार्या विचारणा ।
क उवाच ।
एवं नानावरान् दत्त्वाऽन्तर्दधे सविता तदा
॥४७॥सोऽप्यानन्दसमायुक्तो जगाम निजमन्दिरम् ।
जननी च पिता तस्य मूर्ध्न्याघ्रायापतुर्मुदम्
॥४८॥ऊचतुस्तं तदा पुत्रं विरहात्तेऽन्नवर्जितौ ।
चिन्तया कृशतां यातौ पश्य पुत्रदशामिमाम्
॥४९॥तयोः पादौ प्रणम्याह स पुत्रो हर्षनिर्भरः ।
प्रसन्नः सविता मह्यं त्रैलोक्यस्वामितामदात्
॥५०॥साधयिष्ये तद्वरात् तां न चिन्तां कर्तुमर्हथः
॥५१॥इति श्रीगणेशपुराणे क्रीडाखण्डे वरप्रदानं नाम चतुःसप्ततितमोऽध्यायः ॥ ७४ ॥