मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 104

3
क्रीडाखण्डः · 104

विश्वरूपदर्शनं नाम चतुरधिकशततमोऽध्यायः

क उवाच

अहं प्रयातस्तं द्रष्टुं गुप्तरूपो द्विजोत्तम ।

अदर्शं तत्र तं देवमुमया सहितं प्रभुम्

॥१॥

स्नात्वासीनं जपन्तं च परं ब्रह्मसनातनम् ।

अहं तमस्तुवं देवं मयूरेश्वरसंज्ञकम्

॥२॥

पुराणपुरुषं देवं नाना क्रीडाकरं मुदा ।

मायाविनं दुर्विभाव्यं मयूरेशं नमाम्यहम्

॥३॥

परात्परं चिदानन्दं निर्विकारं हृदिस्थितम् ।

गुणातीतं गुणमयं मयूरेशं नमाम्यहम्

॥४॥

सृजन्तं पालयन्तं च संहरन्तं निजेच्छया ।

सर्वविघ्नहरन्देवं मयूरेशं नमाम्यहम्

॥५॥

इन्द्रादिदेवतावृन्दैरभिष्टुतमहर्निशम् ।

सदसद्व्यक्तमव्यक्तं मयूरेशं नमाम्यहम्

॥६॥

नानादैत्यनिहन्तारं नानारूपाणि बिभ्रतम् ।

नानायुधधरं भक्त्या मयूरेशं नमाम्यहम्

॥७॥

सर्वशक्तिमयं देवं सर्वरूपधरं विभुम् ।

सर्वविद्या प्रवक्तारं मयूरेशं नमाम्यहम्

॥८॥

पार्वतीनन्दनं शम्भोरानन्दपरिवर्धनम् ।

भक्तानन्दकरं नित्यं मयूरेशं नमाम्यहम्

॥९॥

मुनिध्येयं मुनीनुतं मुनिकामप्रपूरकम् ।

समष्टिव्यष्टिरूपं त्वां मयूरेशं नमाम्यहम्

॥१०॥

सर्वाऽज्ञाननिहन्तारं सर्वज्ञानकरं शुचिम् ।

सत्यज्ञानमयं सत्यं मयूरेशं नमाम्यहम्

॥११॥

अनेककोटिब्रह्मांण्डनायकं जगदीश्वरम् ।

अनन्तविभवं विष्णु मयूरेशं नमाम्यहम्

॥१२॥

त्वद्दर्शनेन पूतोऽहं परमानन्दनिर्भरः ।

आश्चर्यं परमं प्राप्तस्तस्य दैत्यस्य मारणात्

॥१३॥

येन शक्रोऽन्तको देवा लोकपाला जिता बलात् ।

सहस्रशतयोधी योऽसङ्ख्यदेहो रणे हतः

॥१४॥

त्रिधा भूतस्त्रिस्थलेषु पतितः कमलासुरः ।

तं समापूजयमहं सर्वतीर्थजलैः शुभैः

॥१५॥

कमण्डुलगतैरेनोनाशकैरभिषेचयम् ।

दिव्यवस्त्रे दिव्यगन्धं दिव्यपुष्पमयीं शुभाम्

॥१६॥

वनमालामस्य कण्ठे दत्त्वा नाम व्यधामहम् ।

वनमालीति लोकेषु विख्यातं सर्वमङ्गलम्

॥१७॥

पूजाविधिं समाप्यैनं प्रदक्षिणामथो व्यधाम् ।

पादाघातेन मे तत्र न्युब्जतां गमितः क्षणात्

॥१८॥

नानातीर्थजलैर्युक्तः स्थापितो मे कमण्डलुः ।

यतेऽहं तज्जलं भर्तुं ततो मामब्रवीद्विभुः

॥१९॥

मयूरेश उवाच

इदं ब्रह्मकृतं स्तोत्रं सर्वपापप्रणाशनम् ।

सर्वकामप्रदं नॄणां सर्वोपद्रवनाशनम्

॥२०॥

कारागृहगतानां च मोचनं दिनसप्तकात् ।

आधिव्याधिहरं चैव भुक्तिमुक्तिप्रदं विधे

॥२१॥

स्थिरो भव विरिञ्चे त्वं नदीयं सर्वपावनी ।

कमण्डलुभवा नाम्ना ख्याता लोके भविष्यति

॥२२॥

दर्शनाद् वाचिकं पापं स्पर्शनाच्च मनोमयम् ।

स्नानाच्च कायिकं सर्वं नाशयिष्यति निम्नगा

॥२३॥

निरन्तरं सेवनाच्च मोक्षमेषा प्रदास्यति ।

क उवाच ।

एवं दत्ते वरे तेन सस्नुस्तत्र मुनीश्वराः

॥२४॥

सदाराः सपरीवाराः सप्तकोटिगणा अहम् ।

तपस्तेपुस्तदा तत्र मुनयस्ते मया सह

॥२५॥

ततोऽहं मायया तस्य मोहितः प्राब्रुवं बहून् ।

जगत्कर्ता जगद्वन्द्यः शक्रादिसुरपूजितः

॥२६॥

बालमेकादशाब्दं तं कथं प्रणतवानहम् ।

अर्भकैः क्रीडमानं तमाचाररहितं शिशुम्

॥२७॥

धिङ् मे ज्ञानं महत्वं च पैतामहपदं च धिक् ।

इमां सृष्टि विधायाऽहं स्थास्यामि गुप्तरूपधृक्

॥२८॥

अयं चेत्परमात्मा स्यादपरां निर्ममेत् पुनः ।

एवं निश्चित्य मनसा सृष्टिमात्मानमेव च ।

अन्तर्धाय स्थितो यावत्तावद्देवो गजाननः

॥२९॥

न ददर्श सखीन् बालांस्ततस्तेषां गृहानगात् ।

शून्यान्दृष्ट्वा गृहान्सर्वान् खिन्नो वृक्षानलोकयत्

॥३०॥

न ददर्श द्रुमान् जन्तून्पशुपक्षिगणान् यदा ।

तदा स्वर्गं गतो देवो नापश्यत् तत्र तान् सुरान्

॥३१॥

गन्धर्वान् किन्नरान् यक्षान् पितॄन् शशिरवी न च ।

अन्धकारे गाढतमे न प्राज्ञायत किञ्चन

॥३२॥

ततोऽसौ प्रणिधानेन ज्ञात्वा ब्रह्मकृतं च यत् ।

सामर्थ्यं निजमायां च आविश्चक्रेऽखिलात्मकः

॥३३॥

ब्रह्माण्डं निर्ममे देवो मयूरेशः स्वलीलया ।

विश्वं जराजरं तत्र मयूरेशपुरीमपि

॥३४॥

यथापूर्वं पश्यति स्म सर्वं त्रिभुवनं विभुः ।

स्वं च बालैः परिवृतं ब्रह्मांणं च तथाविधम्

॥३५॥

शङ्करं च भवानीं तामनुष्ठानगतान् मुनीन् ।

तपनं शशिनं भानि स्वर्गान्देवगणानपि

॥३६॥

पृथिवीं सर्ववृक्षांश्च समुद्रान् सरितोऽपि च ।

पातालानि मयूरेशो ददर्श पूर्ववद्विभुः

॥३७॥

क उवाच

ततोऽहं स्मृतिमापन्नोऽपश्यन् देवं चिदात्मकम् ।

कलाकाष्ठामुहुर्तादिदिनपक्षस्वरूपिणम्

॥३८॥

दृष्ट्वेत्थं तमहं नत्वा क्षमापयमुदारधीः ।

मासर्तुवर्षकल्पादिचराचरस्वरूपिणम्

॥३९॥

असङ्ख्यब्रह्माण्डयुतरोमाञ्चैरुपशोभितम् ।

देवर्षियक्षगन्धर्वसरित्सागररूपिणम्

॥४०॥

मनुष्यकिन्नरलतावृक्षपन्नगरूपिणम् ।

दृष्ट्वेत्थं तमहं नत्वा क्षमापयमुदारधीः

॥४१॥

पुनः पुनरपश्यं तं मयूरेशं किरीटिनम् ।

कुण्डलाभ्यां नूपुराभ्यामङ्गदाभ्यां विराजितम्

॥४२॥

शेषनाभिं सर्पकण्ठं दिव्यमालाम्बरावृतम् ।

दिव्यसिंहासनगतं सर्वदेवैरभिष्टुतम्

॥४३॥

सिद्धिबुद्धिसमायुक्तं विभूतिभिरुपासितम् ।

चराचरमयं सर्वनमस्यं तत्स्वरूपिणम्

॥४४॥

प्रत्येकं तत्र चात्मानं तद्रूपं स्वं व्यलोकयम् ।

ततस्तं स्तुतवान् नत्वाऽप्रार्थयं च पुनः पुनः

॥४५॥

क्षमापराधं मे देव त्वन्मायागर्वितस्य मे ।

प्रभावं द्रष्टुकामस्य दीनस्य शरणार्थिनः

॥४६॥

क्षणेनानन्तब्रह्माण्डकारिणे ते नमो नमः ।

एवं वदन्तं मां नासापवनात् स्वोदरेऽनयत्

॥४७॥

तत्रापश्यं सर्वलोकं यथा बहिः प्रदृष्टवान् ।

देवं तथाविधं चापि कोटिब्रह्माण्डरोमकम्

॥४८॥

सर्वं चराचरं विश्वं यथा भूमौ यथादिवि ।

एकस्मादण्डतश्चान्यद् ब्रह्माण्डान्तरमाविशम्

॥४९॥

तथैव दृष्टवान् सर्वानेवं नानाण्डमध्यगः ।

अपश्यं विश्वमखिलं स्वात्मानं देवमेव च

॥५०॥

ततःखिन्नोऽब्रुवं देवं नान्तं पश्यामि ते क्वचित् ।

कृपां कुरु मम विभो मायामेतां निवारय

॥५१॥

ततः स करुणाविष्टः सर्वमन्तर्दधे क्षणात् ।

पुनरेव मयूरेशमपश्यं बालकैर्वृतम्

॥५२॥

क्रीडन्तं पूर्ववन्नत्वाऽब्रुवं मायां न तेऽविदम् ।

अपराधसहस्रं मे मातृवत् त्वं क्षमस्व च

॥५३॥

मयूरेशोऽब्रवीन्मां हि मूर्ध्नि हस्तं निवेश्य ह ।

देव उवाच ।

न मे क्रोधो न भिन्ना धीः स्वीयः पर इति भ्रमः

॥५४॥

कस्मादपि भयं मे न न मत्तो भयमण्वपि ।

श्रुत्वेथं वचनं तस्य मयूरेशपुरं शिवम्

॥५५॥

भवानीमपि तत्सूनुमद्राक्षं मुनिबालकैः ।

गृहीत्वाज्ञां स्वकं स्थानमगमं हर्षनिर्भरः

॥५६॥

भवानी बालकैनायान्मन्दिरं स्वं च बालकाः

॥५७॥

इति श्रीगणेशपुराणे क्रीडाखण्डे विश्वरूपदर्शनं नाम चतुरधिकशततमोऽध्यायः ॥ १०४ ॥