बालचरिते दिवोदासोपाख्याने पञ्चचत्वारिंशोऽध्यायः
कीर्तिरुवाच
कथं मुने सर्वदेवाः प्रयाता मन्दरं गिरिम् ।
शिवेन च कथं त्यक्ता रम्या वाराणसी पुरी
॥१॥एतन्मे शंस देवर्षे संशयोऽत्र महान्मुने ।
मुनिरुवाच ।
द्वादशाब्दमनावष्टौ नष्टे स्थावरजङ्गमे
॥२॥स्वाहास्वधावषट्कारविहीने च धरातले ।
ब्रह्मवाक्यप्रणुन्नैस्तु देवैः सम्प्रार्थितो हरः
॥३॥महादेव जगन्नाथ करुणालय शङ्कर ।
आधास्य मन्दरगिरिं मरीचिस्तु तपस्यति
॥४॥अब्दानामयुतं देव वरं दातुं प्रयाहि तम् ।
मुनिरुवाच ।
एवं सम्प्रार्थितो देवैर्महेशः करुणालयः
॥५॥सर्वेः सुरगणैः सार्द्धमग्निचन्द्रार्यमादिभिः ।
वरं दातुं स सम्प्राप मरीचि तं महामुनिम्
॥६॥अस्थिमात्रावशिष्टं च ददर्श स सदाशिवः ।
तस्मिन्क्षणे नागतश्वेत् स तु प्राणान् समुत्सृजेत्
॥७॥तदुत्कटेन तपसा प्रीतोऽसौ गिरिजापतिः ।
निजं स्वरूपं दत्त्वा च विमानेन निजं पदम्
॥८॥प्रापयामास सहसा गणैर्वादित्रनिस्वनैः ।
सर्वैर्देवगणैः शम्भुस्तस्थौ गिरिवरे शुभे
॥९॥दिवोदासस्य नापश्यत् किञ्चिद् रन्ध्रं सदाशिवः ।
देवान् सम्प्रेषयामास द्रष्टुं तद् रन्ध्रमादृतः
॥१०॥यो यो देवो याति काशीं तस्य रन्ध्रं न पश्यति ।
स्वनाम्ना परिसंस्थाप्य लिगं तत्रैव तस्थिवान्
॥११॥दिवोदासस्य राज्ये तु सर्वे वर्णाः स्वधर्मिणः ।
आश्रमस्था द्विजाः सर्वे यथोक्ताचारसंयुताः
॥१२॥गुरुशुश्रुषवः शिष्याः स्त्रिय आसन्पतिव्रताः ।
धर्मशीला दानपरा व्रतोपवासतत्पराः
॥१३॥यतयश्च त्रिषवणा व्रतिनो होममौनिनः ।
स्नानं सन्ध्यां जपं होमं स्वाध्यायं देवतार्चनम्
॥१४॥आतिथ्यं वैश्वदेवं च स्वयमेव प्रकुर्वते ।
गृहस्थाः सर्व एवाष्टौ कर्माणि भक्तितोऽनघाः
॥१५॥अतो विवर्धते धर्मो वृष्टिश्चानुत्तमाऽभवत् ।
स्वर्गे देवा मुमुदिरे पितरश्च स्वधाभुजः
॥१६॥न वन्ध्या न च वाऽपुष्पा विधवा वा मृतप्रजा ।
नावृष्टिर्नातिवृष्टिश्च स्वचक्रं न परं तथा
॥१७॥शुकाश्च शलभा नासन् मूषका वा कदाचन ।
एवं च सर्वसस्यानां निष्पत्तिः समपद्यत
॥१८॥विश्वेश्वरं माधवं च ढुण्ढिं भैरवमेव च ।
दण्डपाणिं गुहं गङ्गामदृष्ट्वा वाऽनिमज्ज्य वा
॥१९॥मणिकर्णीं भवानीं वा यो भुङ्क्ते दण्ड्य एव सः ।
इति डिण्डीरवं नित्यमकरोन्नृपसत्तमः
॥२०॥न पापलेशस्तत्रासीदेवं नृपवरे स्थिते ।
विना रन्धं न तद्राज्यं जिघृक्षति सदाशिवः
॥२१॥वाराणसीवियोगेन परितप्तस्ततोऽभवत् ।
प्रेषयामास विघ्नाय ततोऽष्टावपि भैरवान्
॥२२॥उवाच तान् कारयन्तु राज्येऽस्याणुतु किल्बिषम् ।
आदास्ये तत एतस्मात् काशीराज्यं स संशयः
॥२३॥जग्मुस्ते त्वरया भद्रे आज्ञां प्राप्य सदाशिवात् ।
दृष्ट्वा वाराणसीं ते तु विश्रान्ताः स्नानकर्मणा
॥२४॥अदृष्ट्वा तस्य दुरितं काशीवासं प्रचक्रिरे ।
शिवश्चिन्तापरश्चासीदनागच्छत्सु तेषु तत्
॥२५॥ततोऽप्रेषयदादित्यान् रन्ध्रं द्रष्टुं नृपस्य ह ।
तेऽपि तत्पुण्यमालोक्य स्थिताः काश्यां मुदान्विताः
॥२६॥न कार्यं च हरस्यापि न त्याज्येयं पुरीति च ।
ततश्चतुष्षष्टिमिता अप्रेषयत योगिनीः
॥२७॥अणुमात्रमदृष्ट्वैनो दिवोदासस्य ता अपि ।
स्थिता वाराणसीं प्राप्यं यजन्त्यः शिवमव्ययम्
॥२८॥ततः सम्प्रेषयामास दुर्गां दुःखविनाशिनीम् ।
अदृष्ट्वा तदघं साऽपि तस्थौ ग्रामाद्बहिः किल
॥२९॥ध्यानेनातोषयद्देवं सर्वकामैश्च मानवान् ।
दिक्पालानथ शम्भुश्च प्रेषयामास सत्वरम्
॥३०॥गता वाराणसीं ते तु नेक्षेरंस्तदघं लघु ।
स्वस्वनाम्ना प्रतिष्ठाप्य लिङ्गानि न्यवसन्मुदा
॥३१॥ऋषयः प्रेषिताः पश्चादुत्सुकेन शिवेन ह ।
गतास्ते त्वरया हृष्टाः शिवेनापि प्रणोदिताः
॥३२॥गत्वा तीर्थविधिं कृत्वा स्थित्वा वाराणसीमनु ।
आशीर्वादाय गच्छन्तः पश्यन्तस्तस्य चेष्टितम्
॥३३॥भक्त्या तान् पूजयामास सर्वान् स धनवस्त्रकैः ।
नान्वगृह्णन्स्तद्धनं ते नैनोऽपि ददृशुर्लघु
॥३४॥स्वस्वनाम्ना परिस्थाप्य तेपुस्ते परमं तपः ।
ततः सर्वेऽमरास्तेन प्रेषिताः कार्य सिद्धये
॥३५॥तेऽपि नो ददृशस्तस्य दुष्कर्मधर्मचारिणः ।
नायाति कोऽपि काश्यान्तु यो यः सम्प्रेष्यते मया
॥३६॥ततश्चिन्तापरो रुद्रो निश्चयं नाध्यगच्छत ।
मनसा चिन्तयामास कदा द्रक्ष्ये च तां पुरीम्
॥३७॥दिवोदासस्य राज्ये च यदा पापं भविष्यति ।
तदैव प्राप्या काशी च नान्यथा च मया क्वचित्
॥३८॥विना ढुण्ढिं माधवं च सर्वे देवा निरर्थकाः ।
नायान्ति च स्थितास्तत्र काश्यां ध्यानपरायणाः
॥३९॥इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते दिवोदासोपाख्याने शिवचिन्तावर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥