बालचरिते नगरीमोक्षणं नाम पञ्चदशोऽध्यायः
क उवाच
अपरस्मिन् दिने राजा लोकैः सह सभां ययौ ।
विनायकेन सहितो मित्रामत्यसमन्वितः
॥१॥तानुवाच ततः सर्वान् बालकस्य गुणान् बहून् ।
गुणवन्तं प्रधानं तं पुरस्कृत्य महाशयम्
॥२॥अहं हि कश्यपं यात आकारयितुमन्तिकम् ।
विवाहस्य च सिद्ध्यर्थं पुत्रस्तेनेहयोजितः
॥३॥प्रस्थितोऽनेन यावच्च तावद्राक्षसमद्भुतम् ।
अरिष्टानां समूहं च न दृष्टं न च वै श्रुतम्
॥४॥आदावनेन निहतो धूम्राक्षो राक्षसाधिपः ।
जघनश्च मनुश्चापि सहस्रार्द्धयुतो हतः
॥५॥यो व्योम नीतवानेनं नगरे दन्तुरो हतः ।
विघण्टो बालरूपश्च विधूलश्च महाबलः
॥६॥पतङ्गश्चैव नगरे वातरूपधरो हतः ।
कूटो नाम हतोऽनेन द्वारि पाषाणरूपधृक्
॥७॥कामक्रोधावपि हतौ खरवेषधरावुभौ ।
गजरूपधरः कुण्डो हतोऽनेन निशाचरः
॥८॥यानि चान्यान्यरिष्टानि नाशयिष्यति बालकः ।
इदानीं निश्चयः कार्यो विवाहस्य द्विजैः सह
॥९॥देवतास्थापनस्यापि हरिद्रामण्डपस्य च ।
विवाहोपस्करार्थं च ज्योतिःशास्त्रविशारदैः
॥१०॥क उवाच
एवमाकर्ण्य तद्वाक्यममात्यावूचतुर्नुपम् ।
अयं बालः पुरे यावद् वर्तते नृपसत्तम्
॥११॥तावद् विवाहो न भवेदिति नो भाति निश्चितम् ।
अस्मिन्स्थिते महोत्पाता भविष्यन्ति दिनेदिने
॥१२॥पक्षे मासे गते राजन् विवाहं कर्तुमर्हसि ।
ओमित्युक्ते नृपेणाऽथ जग्मुः सर्वेनिजालये
॥१३॥राजा विनायकश्चापि भुक्त्वा सुषुपतुः सुखम् ।
ततो निशीथे सम्प्राप्ते सुप्ते सर्वजने मुने
॥१४॥ज्वालामुखो व्याघ्रमुखो दारूणोऽथ त्रयोऽसुराः ।
इच्छन्तोऽपचितिं पूर्वहतानां दैत्यरक्षसाम्
॥१५॥सम्पूर्णां नगरीं दग्धुमाद्य ऐच्छत् तदाऽसुरः ।
दारुणो वायुरूपेण तत्सहायार्थमुद्यतः
॥१६॥व्याघ्रास्यो भक्षितुं तत्र पलायनपरानभूत् ।
एवं ते निश्चयं कृत्वा प्राक्रोशन् सुमहास्वनैः
॥१७॥त्रैलोक्यं कम्पितं सर्वं तदा संशयितं भृशम् ।
प्रलयः परचक्रं वा किमागतमिति ब्रुवन्
॥१८॥व्याघ्रास्यः सुमहाकायः स्थाप्योष्ठं धरणीतले ।
पूर्वं परं च गगने मध्ये जिव्हा नदी इव
॥१९॥उत्सृजन् मुखतो ज्वालाः साम्बरं पत्तनं दहन् ।
यथा हनुमता दग्धा नगरी पुच्छवह्नितः
॥२०॥तथा ददाह नगरीं दुष्टोऽसौ मुखवह्नितः ।
दग्धा वृक्षा लतारामाः प्रासादनिचयास्तदा
॥२१॥कोलाहलो महानासीन्मुखहस्तरवस्तथा ।
हित्वा सर्वाणि कार्याणि विद्रवन्ति जना दिशः
॥२२॥नगराद् बहिरायान्तं व्याघ्रास्यो ग्रसते नरम् ।
तदेव भोजनं तस्य बालकाश्चोपदंशकाः
॥२३॥केचिद् विस्त्रस्तवसना विवस्त्राश्चापरे ययुः ।
स्त्रियः कूर्पासकाः काश्चित् काश्चित् पत्यंशुका ययुः
॥२४॥व्याघ्रास्यं विवरं मत्वा विविशुर्जीवितेच्छया ।
अन्यानाकारयन्त्यस्ता ह्यभक्षयत सोऽसुरः
॥२५॥अकाले प्रलये प्राप्ते काशिराजो विनायकम् ।
सवं विहाय राज्यं स्वं स्त्रीपुत्रादि स्ववस्तु सः
॥२६॥स्कन्धे गृहीत्वा भ्रमते नानास्थाने गृहे गृहे ।
अतिदुःखेन सन्तप्तस्तेजसा चैव शुष्मिणः
॥२७॥कथं मया बाल एष सर्वारिष्टप्रवर्तकः ।
सर्वस्वहारको मौढ्याद् दुर्निमित्तस्य कारणम्
॥२८॥विनैनं किमहं ब्रूयामदित्यै कश्यपाय च ।
निरस्तानि च पूर्वाणि महारिष्टान्यनेन हि
॥२९॥आस्ते तूष्णीमिदानीं किं न जानेऽत्रापि कारणम् ।
एवं शोचन्दुर्गमुच्चै रुरोह सह तेन सः
॥३०॥तत्रापि दहनो वायु सहायः समुपागमत् ।
कुम्भैश्च मृन्मयैः पात्रैः सिषिचुः सेवकास्तदा
॥३१॥तत्पत्न्यो निर्ययुर्हित्वा व्रीडां बालयुता बहिः ।
अवतीर्य ततोराजा विव्हलोऽधः समाययौ
॥३२॥अश्वाश्वतरवीराश्च रथनागपदातयः ।
निर्ययुर्नगरात् सर्वे पौराश्च सहगोधना
॥३३॥विनायकः काशिराजं काशिराजो विनायकम् ।
गवेषयामास तदा वर्तमाने जनक्षये
॥३४॥सर्वेषु लोकेषु गतेषु मध्ये स व्याघ्रतुण्डो न निमील तुण्डम् ।
यावन्न तुण्डे विशति स्म देवो विनायकोऽनन्त गुणो महात्मा
॥३५॥उदये तु रवेर्जाते ददर्शाऽथ विनायकः ।
व्याघ्रास्यं दग्धनगरं जनपूर्णं च तन्मुखम्
॥३६॥वन्हिं च निकटे वीक्ष्य विवेश तन्मुखं बलात् ।
तस्मिन् गते निजास्ये तु न्यमीलयत सोऽसुरः
॥३७॥आस्यं गव्हरसङ्काशं सर्वसंहरणेच्छया ।
दारितुं बालकस्तत्र ववृधेऽतीव तत्क्षणात्
॥३८॥पाटयामास तद्देहं व्याघ्रदेहेन रोदसी ।
अभूच्चटचटाशब्दो वंशानां पाट्यतामिव
॥३९॥ततो द्वेधाऽभवद्दैत्यो गतासुरभवत् क्षणात् ।
तदेकं शकलं तस्य गगने स तु चिक्षिपे
॥४०॥वायुना भ्रमति स्मैतद् दूरे देशे पपात च ।
अर्धेन पतता तेन चूर्णितं गहनं वनम्
॥४१॥अपरं चाभवत् क्रीडागृहं बालमुदावहम् ।
उदतिष्ठंस्ततो लोका अपरानप्य बोधयन्
॥४२॥ततोऽग्निमपिबत् सर्वं पादाघातादचूर्णयत् ।
विदारण महाकायं ज्वालासुरयुतं तदा
॥४३॥एवं निहत्य तान् दुष्टान् योगमायाबलेन सः ।
अजीवयन् मृतान् सर्वान् नगरं च यथा पुरा
॥४४॥अकार्षीच्च जगर्जाशु केसरीव विनायकः ।
सर्वलोकाश्च राजा च ततस्तं तुष्टुवर्मुदा
॥४५॥नमोऽनन्तशक्ते गुणानामधीश नमोऽरिष्टहन्त्रे नमः सृष्टिकर्त्रे ।
नमो विश्वपात्रे नमो विघ्नहन्त्रे नमो ज्ञानदात्रे नमोऽज्ञानहन्त्रे
॥४६॥अकालप्रलयाद् देव वीतिहोत्राज्जगत्पते ।
लीलवतार दैत्योभ्यो रक्षिता लीलया त्वया
॥४७॥कस्य सामर्थ्यमेतावद् वह्नि पातुं महाबलम् ।
भूगोलसदृशास्यं को हन्यादन्यो महासुरम्
॥४८॥मृतानां जीवनं को नु त्वदन्यः कर्तुमुत्सहेत् ।
त्वमेव जननी देव त्वमेव जनकोऽविता
॥४९॥महाभाग्यं जनानां मे येन ते सन्निधिः कृतः ।
एवमुक्त्वाऽऽरुरोहाश्वं सिंहयानं विनायकः
॥५०॥स्वं स्वं वाहनमारूढाः सर्वे वीराः सहस्रशः ।
सुखेन मन्दिरं गत्वा नित्यकर्माऽऽचरन्मुदा
॥५१॥स्वं स्वं च मन्दिरं याताः सर्वे पौरा निरामयाः ।
वाद्यत्सु सर्ववाद्येषु तुष्टुवुर्बन्दिनो नृपम्
॥५२॥काशिराजोऽथ विप्रेभ्यो ददौ दानान्यनेकशः ।
स्वस्ति वाच्य पुपूजाशु देवांस्तं च विनायकम्
॥५३॥उपायनानि देवाय नानालोका ददुस्तदा ।
विनायकोऽपि विप्रेभ्यो ददौ तानि यदृच्छया
॥५४॥अमात्यानां च वीराणामंशुकानि ददौ नृपः ।
विसृज्य सर्वान् भुक्त्वा तौ सुखेन स्वापमीयतुः
॥५५॥य इदं शृणुयाद्भक्त्या नगरीमोक्षणं नरः ।
सर्वान् कामानवाप्नोति नारिष्टैर्बाध्यतै क्वचित्
॥५६॥इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते नगरीमोक्षणं नाम पञ्चदशोऽध्यायः ॥ १५ ॥