मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 37

3
क्रीडाखण्डः · 37

बालचरिते शमीमन्दारमाहात्म्यं नाम सप्तत्रिंशोऽध्यायः

कीर्तिरुवाच

कथं स्तुतिः कृता ताभिस्तां मे वद महामुने ।

मुनिरुवाच ।

श्रूयतां सा स्तुतिः कीर्ते श‍ृणुष्वावहिता च ताम्

॥१॥

ता ऊचुः

नमस्ते सर्वरूपाय सर्वान्तर्यामिणे नमः ।

नमः सर्वकृते तुभ्यं सर्वदात्रे कृपालवे

॥२॥

नमः सर्व विनाशाय नमस्तेऽनन्तशक्तये ।

नमः सर्वप्रबोधाय सर्वपात्रेऽखिलादये

॥३॥

परब्रह्मस्वरूपाय निर्गुणाय नमो नमः ।

चिदानन्दस्वरूपाय वेदानामप्यगोचर

॥४॥

मायाश्रयायामेयाय गुणातीताय ते नमः ।

सत्यायासत्यरूपाय गुणाविक्षोभकारिणे

॥५॥

शरणागतपालाय दैत्यदानवभेदिने ।

नमो नानावताराय विश्वरक्षणतत्पर

॥६॥

अनेकायुधहस्ताय सर्वशत्रुनिबर्हण ।

अनेकवरदात्रे ते भक्तान्ना हितकारक

॥७॥

क उवाच

एवं स्तुत्वा पुनर्नत्वा याचन्ति स्म वरान् बहून् ।

देवानां जलरूपाणां स्वरूपाणि प्रयच्छ भोः

॥८॥

नास्मृतिः सर्वदा ते स्यात्तथा कर्तुमिहार्हसि ।

गणेश उवाच ।

ददामि वाञ्छितं वोऽहमनुष्ठानवशीकृतः

॥९॥

स्तुत्याऽनयाशु सन्तुष्टस्तथाऽस्तु वचनं तु वः ।

सावित्र्या वचनाज्जाता जलभूताःसुराः शुभाः

॥१०॥

तद्वाक्यमन्यथा कर्तुं न हि शक्तः पितामहः ।

निजं स्वरूपं यास्यन्ति स्थित्वांशेन तथाविधान्

॥११॥

स्वाधिकारान् प्रपत्स्यन्ते नान्यथा भाषितं मम ।

शमीपत्रैः पूजयन्तु यूयं देवास्तु मामिह

॥१२॥

येनार्पितं शमीपत्रं भुवनं तेन चार्पितम् ।

सुवर्णशतभाराणां फलं प्राप्तं न संशयः

॥१३॥

क उवाच

एवं ब्रुवति विघ्नेशे स्वरूपधारिणः सुराः ।

स्थिता अंशान्नदीरूपा ददृशुस्ते विनायकम्

॥१४॥

तेऽपि सम्प्रार्थयामासुर्नत्वा स्तुत्वा गजाननम् ।

क्षमापराधं नो देव बुद्धिमोहव्यपाश्रयात्

॥१५॥

त्यक्त्वा ज्येष्ठां भवन्तं च प्रारभामो यजिं च ताम् ।

दृष्टं तु तत्फलं सद्यः प्रसादात् ते पुनर्नवाः

॥१६॥

जाताः स्म परमानन्दं प्राप्ताः स्म कृपया तव ।

एवमुक्त्वा पुपूजूस्ते शमीपत्रैर्विनायकम्

॥१७॥

सोऽपि तान्प्रतिनन्द्याऽथ पिदधे विघ्ननाशनः ।

ततस्ते सुन्दरां मूर्तिं कृत्वा पाषाणतः शुभाम्

॥१८॥

चतुर्भुजां करिकराननां हेरम्बनामतः ।

प्रासादं परमं कृत्वा स्थापयामासुरादरात्

॥१९॥

ऊचुश्च सर्वलोकानामुपकाराय ते सुराः ।

इमं यः पूजयेद्भक्त्या विद्याधीशं सुपत्तने

॥२०॥

तस्य प्रसन्नो भगवान् सर्वान्कामान्प्रदास्यति ।

वन्दनात्स्मरणाद्वापि नमनान्नात्र संशयः

॥२१॥

या तत्रासीन्महामूर्तिर्मन्दारतरुनिर्मिता ।

तां गृहीत्वा ययाविन्द्रः स्वपुरं परमर्द्धिमत्

॥२२॥

सपत्नीकः पूजयते भक्त्येदानीमपि प्रभुः ।

सर्वे देवाः स्वस्वपदे ततो मन्दारवृक्षजाम्

॥२३॥

कृत्वा मूर्तिं गणेशस्य शमीपत्रैरपूजयन् ।

मुदं प्रापुः स्वयोषिद्भिरापुः कामाननुत्तमान्

॥२४॥

ब्रह्मा द्वादशवर्षाणि तपः कृत्वा महत्तरम् ।

कृत्वा प्रसन्नं विघ्नेशं पुनर्यागमकारयत्

॥२५॥

सोऽपि मन्दारजां मूर्तिं पुपूजे परमादरात् ।

विघ्नराजस्य वरदां शमीपत्रैरनेकधा

॥२६॥

स्वर्णपत्रैश्च दूर्वाभिर्मन्दारैः केतकैरपि ।

श्वेतदूर्वाङ्कुरैश्चापि सर्वकामफलप्रदाम्

॥२७॥

गृत्समद उवाच

एवं ते वर्णितो मातर्महिमा लेशतः शुभे ।

मन्दारस्य च शम्याश्च श्रवणात्पापनाशनः

॥२८॥

ततःप्रभृति देवस्य प्रियाऽत्यन्तं शमी शुभा ।

अपूजि स त्वयाऽज्ञानात्तेनासौ पुत्र उत्थितः

॥२९॥

मन्दारस्यापि महिमा मया सम्यङ्निरूपितः ।

इदानीमनुजानीहि गमिष्ये निजमन्दिरम्

॥३०॥

क उवाच

श्रुत्वा च महिमानं सा शमीमन्दारसम्भवम् ।

प्रणिपत्य मुनिं पुत्रजीवनं विससर्ज ह

॥३१॥

श्रुत्वेदमाख्यानवरं गणेशप्रीतिवर्द्धनम् ।

न स सङ्कष्टमाप्नोति सर्वाङ्कामाँल्लभेन्नरः

॥३२॥

यः स्मरेत्प्रातरुत्थाय शमीं मन्दारमेव च ।

गणेशं च सदा भक्त्या निष्पापः स सुखी भवेत्

॥३३॥

इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते शमीमन्दारमाहात्म्यं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥