त्र्यशीतितमोऽध्यायः
क उवाच
शुक्लचन्द्र इव ब्रह्मन् ववृधे स दिने दिने ।
ततो हिमालयः प्रायाच्छुत्वा गौरीसुतं शुभम्
॥१॥अलङ्कारान् समादाय मूल्यरत्नसमन्वितान् ।
अजिरे तं निरीक्ष्यैव धावयित्वा ययौ सुता
॥२॥आलिलिङ्ग मुदा गौरी बहुकालागतं च तम् ।
आनन्दाश्रूणि साऽमुञ्चत्सोऽपि सा तं ततोऽवदत्
॥३॥गौर्युवाच
कथं निष्ठुरतां यातो वृत्तान्तं मम कर्हिचित् ।
न गृह्णासि न वा स्वीयं प्रेषयस्यपि निर्दय
॥४॥हिमवानुवाच
सत्यं वदसि गौरि त्वं कण्ठे प्राणा मम स्थिताः ।
अतस्त्वद्दर्शनाकाङ्क्षी प्राप्तोऽहं हरवल्लभे
॥५॥वत्से धेनुमनो यद्वत्तद्वत्त्वयि मनो मम ।
क उवाच ।
एवमाकर्ण्य तद्वाक्यं सा ददावासनं शुभम्
॥६॥उपविष्टोब्रवीद्वाक्यं पुनर्गिरिवरः सुताम् ।
श्रुतो नारदवाक्येन पुत्रस्ते परमाद्भुतः
॥७॥ततस्तं द्रष्टुमायातः सर्वविघ्नहरं शुभम् ।
क उवाच ।
पार्वती बालमादाय पितुरङ्के न्यवेशयत्
॥८॥सोऽलङ्कारैरलङकृत्य महिमानं ततोऽबवीत् ।
स उवाच ।
अयं बालो महामायः करिष्यति महीमिमाम्
॥९॥निष्कण्टकां यथा चन्द्रः शीतला स्वकरैरिमाम् ।
अयं देवगणान् सर्वान्स्वस्थाने स्थापयिष्यति
॥१०॥करिष्यत्यङ्घ्रिसेवां ते शिशोरस्य मुनीश्वराः ।
एतस्य सर्वरूपाणि स्थावराणि चराणि च
॥११॥अयमेव सदा ध्येयो ब्रह्मादीनां सहस्रदृक् ।
सहस्राङ्घ्रिः सर्वजगत्कारणानां च कारणम्
॥१२॥सहस्रास्योऽनन्तमूर्तिः समष्टिव्यष्टिरूपवान् ।
त्रैलोक्ये नेदृशो बालो दृष्टः क्वापि शुभाङ्गवान्
॥१३॥अहं तन्मयतां यातो दृष्ट्वा तत्पादपङ्कजम् ।
यथाऽम्भसि पयः क्षिप्तं याति तन्मयतां क्षणात्
॥१४॥अस्य यत्नं कुरु शुभे निधिरेष पुरातनः ।
क उवाच ।
मस्तके मुकुटं चास्य स्वाङ्गदे भुजयोरपि
॥१५॥पङ्कजं हृदि श्रुत्योश्च कुण्डले रत्नभूषिते ।
कटिसूत्रं कटौ चाङ्घ्योर्महार्हाः क्षुद्रघण्टिकाः
॥१६॥एवं दत्त्वा भूषणानि नाम चक्रे शुभं गिरिः ।
हेरम्बेति महाविघ्नहरं भक्ताभयप्रदम्
॥१७॥ततो भुक्त्वा गृहीत्वाज्ञां ययौ स्वस्थानमद्रिराट्र ।
एकस्मिन्दिवसे बालश्चिक्रीड निजमन्दिरे
॥१८॥गृध्रासुरो गृध्ररूपी महाबलपराक्रमः ।
पक्षवातेन यस्याद्रिचयश्चूर्णत्वमीयिवान्
॥१९॥गण्डशैलाश्च वृक्षाश्च पादाघातेन तस्य च ।
सपक्षच्छायया बालमाच्छाद्य खेऽभ्रमत्तदा
॥२०॥नयनानि च सर्वेषां पक्षाघातरजःकणैः ।
आच्छादयन्महाशब्दैः श्रोत्रे बधिरतामिये
॥२१॥ततश्चञ्च्वा तु तं बालं गृहीत्वा गृध्रपुङ्गवः ।
व्योममार्गं गतो दूरं गरुडो भुजगं यथा
॥२२॥बभ्राम गगने दुष्टोऽजानन् बालपराक्रमम् ।
ततोऽपश्यद् गिरिसुता बालः कुत्र कुतो गतः
॥२३॥नापश्यच्चत्वरे तं तु ततः शोकाकुलाऽभवत् ।
केन नीतो मम सुतो दुष्टेन च दुरात्मना
॥२४॥उपविष्टा ततोऽपश्यद् व्योम्नि गृध्रमुखे सुतम् ।
मूर्च्छिता पतिता भूमौ धाव धावेति चाब्रवीत्
॥२५॥मम प्राणा गमिष्यन्ति विना पुत्रं सुरेश्वर ।
कथं ममोपरि व्योम पतितं शङ्करः कथम्
॥२६॥नैष्ठुर्यं परमं प्राप्तो मय्येव जगदीश्वरः ।
द्वादशाब्दं तपस्तप्तं निराहारतया मया
॥२७॥करुणाब्धिः स्वप्रकाशोऽवतीर्णोऽभून्ममालयम् ।
स गतो निधिरूपो मेऽभाग्यायाः पापसञ्चयात्
॥२८॥गते बाले गतं सर्वं सुखमात्यन्तिकं मम ।
क उवाच ।
एवं तस्यां तु शोचन्त्यां शुशुचुस्तत्सखीजनाः
॥२९॥ततस्ते तत्समाधानं चक्रुर्ज्ञानेन युक्तिभिः ।
अनादिनिधने बाले न शोकं कर्तुमर्हसि
॥३०॥स्वप्रकाशेऽवतीर्णे ते बव्हनुष्ठानयोगतः ।
कुत्र वा मृन्मयी मूर्तिश्चेतनामगमद् वद
॥३१॥स्थिरा भव क्षणेन त्वं द्रक्ष्यसे स्वसुतं शुभे ।
अन्तकस्यान्तको बालः पुनरेष्यति निष्ठया
॥३२॥सखीजने वदत्येवं तावद् बालः स्वमुष्टिना ।
दधार चन्चु बलवान् यथा श्वासो न निर्ययौ
॥३३॥श्वासरोधाद् गतासुः स गृध्रस्तेन समन्वितः ।
निपपात महीपृष्ठे वज्राहत इवाचलः
॥३४॥पतमानो गृध्रदेहो दशयोजन विस्तृतः ।
चूर्णयामास गेहानि तच्चित्रमभवद् भृशम्
॥३५॥चैत्यवृक्षेषु भग्नेषु ययुः पक्षिगणा दिशः ।
ततो दृष्ट्वा तु तं बालमवदत् स सखीगणः
॥३६॥अयमक्षतदेहस्तु पतितो गिरिजासुतः ।
क उवाच ।
श्रुत्वेत्थं वचनं तस्य त्वरिता बालमाददे
॥३७॥गौरी निधाय हृदये परमानन्दमाप च ।
आश्चर्यं परमं प्राप्य ददौ दानान्यनेकशः
॥३८॥गतमस्य महारिष्टमग्रे न स्यादिति द्विजाः ।
नमस्कृत्य द्विजान् प्रायान्मन्दिराभ्यन्तरं शिवा
॥३९॥दशयोजनविस्तारः क्वासुरो बलवत्तरः ।
क्व बालः कोमलतनुर्लघुरूपो जघान तम्
॥४०॥एतावतो बलमिदमग्रे किं वा करिष्यति ।
इत्युवाच सखीं गौरी स्तनपानं ददौ मुदा
॥४१॥अयं लघुर्न मन्तव्यो यथा वह्निकणो दहेत् ।
महान्तं काष्ठनिचयं तथाऽनेन हतोऽसुरः
॥४२॥ततस्तद्देहखण्डानि गणा दूरे निचिक्षिपुः ।
शृणुयादिदमाख्यानं सोऽसुरैर्नाभिभूयते
॥४३॥इति श्रीगणेशपुराणे क्रीडाखण्डे गृध्रासुरवधो नाम त्र्यशीतितमोऽध्यायः ॥ ८३ ॥