मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 26

3
क्रीडाखण्डः · 26

भीमराक्षसमोक्षणं नाम षड्विंशति तमोऽध्यायः

मुनिरुवाच

किं कर्म कृतवान् व्याधः कथं पत्रं समर्पितम् ।

किं नामा स कथं प्राप्तः सालोक्यं तद्वदस्व मे

॥१॥

क उवाच

विदर्भदेशे नगर मदिषाख्यं बभूव ह ।

विख्यातं त्रिषु लोकेषु कुबेरनगरोपमम्

॥२॥

भीमो नामाभवद् व्याधो नगरे मांसविक्रयी ।

परेषां दोषकथने दोषो यद्यपि वर्तते

॥३॥

प्रश्ने कृते तु वक्तव्यो याथातथ्यान्न मत्सरात् ।

स भीमो दोषबहुलो बाणकोदण्डवान् वने

॥४॥

शरपूर्णेषुधी खड्गी चापं बिभ्रच्च शस्त्रिकाम् ।

अवधीत् प्राणिनो नित्यं कुटुम्बभरणे रतः

॥५॥

पथिकान् ब्राह्मणांश्चापि निर्दयो निर्जने वने ।

कदाचिन्नगरे तस्मिन् समारब्धो महोत्सवः

॥६॥

प्रातरेव वनं यातो बहुमांसजिघृक्षया ।

विक्रयेच्छुर्द्रव्यलुब्धो कुटुम्बस्यापि पोषकः

॥७॥

जघान मृगयूथाँस्तान्मांसभारयुतः पुरम् ।

यावत्प्रविशते तावदागतो राक्षसो महान्

॥८॥

मनुष्यगन्धहृष्टोऽसौ ययौ तस्यान्तिकं क्षणात् ।

पिङ्गाक्षो नामतः पिङ्गनेत्रःसर्वभयङ्करः

॥९॥

मनुष्यश्वापदाशी स दुष्पूर इव हव्यभुक् ।

च कम्पे स च तं दृष्ट्वा व्याधो भूमावथाऽपतत्

॥१०॥

पतितानि च शस्त्राणि नेत्रेऽप्याच्छादिते बलात् ।

उन्मील्य नयनेऽपश्यच्छमीवृक्षं समीपतः

॥११॥

आरुरोह च भीमस्तं राक्षसोऽपि समारुहत् ।

तावच्चिक्षेप शाखांस तत्त्पत्रं वायुनेरितम्

॥१२॥

पपात गणनाथस्य वामनस्थापितस्य ह ।

मस्तके तेन तुष्टोऽसावुभाभ्यां पूजितः स्फुटम्

॥१३॥

वामनाय वरान् दातुं स्फुटो योभूद् गजाननः ।

बलिं विजेतुकामाय कश्यपस्यात्मजाय सः

॥१४॥

अत्यन्तं तुष्यते देवो दूर्वया च शमीदलैः ।

रत्नकाञ्चनसंयुक्ता दिव्यवस्त्रसमन्विता

॥१५॥

दुर्वाङ्कुरं विना पूजा निष्फला जायते नृणाम् ।

शमीपत्रेण वा सा स्यात् सफला नान्यथा क्वचित्

॥१६॥

यज्ञदानव्रतैरन्यैस्तपोभिर्नियमैरपि ।

तथा न प्रीयते देवः काञ्चनै रत्नसञ्चयैः

॥१७॥

दूर्वाभिश्च शमीपत्रैर्यथा सुप्रीयते विभुः ।

तयोस्तुष्टो देवदेवोऽप्रेषयद् यानमुत्तमम्

॥१८॥

स्वरूपधारिभिर्युक्तं किङ्करैर्निजलोकतः ।

तेषां निरीक्षणान्नष्टाः पापपर्वत राशयः

॥१९॥

कृपया च गणेशस्य तयो राक्षसभीमयोः ।

यथाग्निकणसम्पर्कान्नश्यन्ते तृणपर्वताः

॥२०॥

त्यक्त्वा देहौ दिव्यदेहौ गृहीत्वा यानमास्थितौ ।

दूतैः सम्पूजितौ नानावतस्त्रभूषाविलेपनैः

॥२१॥

नानावादित्रनिर्घोषैः स्त्रीगन्धर्वैयुतं महत् ।

नीतौ तौ देवनिकटे नेमतुस्तौ विनायकम्

॥२२॥

अशेषपापनिर्मुक्तो प्रापतुस्तौ सरुपताम् ।

आकल्पं स्थापितौ तेन गणेशेन निजस्थले

॥२३॥

एवं भावप्रियो देवः प्रीयते भक्तिभावतः ।

तथैव मुष्टिमात्रान्नात् सन्तुष्टोऽभूद् द्विजस्य सः ।

शुक्लस्य प्रददौ दिव्यमलकासदृशं गृहम्

॥२४॥

तस्माद् दूर्वा शमीपत्रैर्विना पूजा वृथा भवेत् ।

न महत्या दाम्भिकया पूजया प्रीयते तथा

॥२५॥

यथा भावेन कृतया स्वल्पयाऽसौ गजाननः

॥२६॥

इति श्रीगणेशपुराणे क्रीडाखण्डे भीमराक्षसमोक्षणं नाम षड्विंशतितमोऽध्यायः ॥ २६ ॥