मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 32

3
क्रीडाखण्डः · 32

बालचरिते नाम द्वाविंशोऽध्यायः

क उवाच

श‍ृणुष्वावहितो ब्रह्मन्नितिहासं पुरातनम् ।

प्रियव्रतायाऽकथयत् स्वयमेव गजाननः

॥१॥

गजानन उवाच

शमीपत्रस्य सहिमा श‍ृणुष्वार्य महाफलम् ।

(महिमानं श‍ृणुष्वार्य ! शमीपत्रस्य सत्फलम्) न यज्ञैर्न च दानैश्च व्रतैः कोटिशतैरपि

॥२॥

न जपैः पूजनैर्वापि मम तोषस्तथा भवेत् ।

न पद्मैर्नान्यकुसुमैः शमीपत्रैर्यथा भवेत्

॥३॥

शमीति कीर्तनादेव पापं नश्यति वाचिकम् ।

स्मरणान्मानसं पापं स्पर्शनात् कायजं तथा

॥४॥

नित्यं तत्पूजनाद्ध्यानाद् वन्दनाच्चैव भक्तितः ।

निर्विघ्नकरमायुष्यं ज्ञानं पापक्षयोऽपि च

॥५॥

वाञ्छासिद्धिरचापल्यं जायते नात्र संशयः ।

मुनिरुवाच ।

कोऽसौ प्रियव्रतो राजा किंशीलः कुत्र वाऽभवत्

॥६॥

कथं वै तस्य कथिता गुणाः शम्या महात्मना ।

एनं मे संशयं ब्रह्मन् कृपया नुद सुव्रत

॥७॥

क उवाच

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।

शङ्करस्य च संवादं पार्वत्या सह पुत्रक

॥८॥

पार्वत्युवाच

कथं शमी प्रिया देव सर्वज्ञ जगदीश्वर ।

गजाननस्य मे शंस यदि ते मय्यनुग्रहः

॥९॥

शङ्कर उवाच

श‍ृणु प्रिये प्रवक्ष्यामि कथामेकां शुचिस्मिते ।

यथा प्रिया गणेशस्य शमीति ज्ञास्यते तथा

॥१०॥

प्रियव्रतो नाम राजा पूर्वमासीन्महामतिः ।

सत्यवान् धर्मसम्पन्नो धर्मात्मा शंसितव्रतः

॥११॥

तेजस्वी च वदान्यश्च वेदशास्त्रार्थतत्त्ववित् ।

सर्वलक्षणसम्पन्नश्चतुरङ्गबलाधिकः

॥१२॥

पालयामास पृथिवीं प्रजाः पुत्रानिवौरसान् ।

कीर्तिश्च प्रथम भार्या प्रभा तस्यापराऽभवत्

॥१३॥

धूर्तश्च कुशलस्तस्य प्रकृती सम्बभूवतुः ।

कुशलौ नीतिशास्त्रेषु षडाननपराक्रमौ

॥१४॥

बुद्धया पराक्रमेणापि रसा सर्वा वशीकृता ।

स तु राजा वंश नीतः प्रभया तस्य भार्यया

॥१५॥

क्रीडतेऽहर्निशं सोऽथ नानालङ्कारशोभया ।

यौवनाक्रान्तवपुषा रम्भादिभ्योऽतिरम्यया

॥१६॥

क्षणमात्रं न सहते वियोगं स तया सह ।

धिक्करोति सदा जेष्ठां तद्वचो न श‍ृणोत्यपि

॥१७॥

रुषा निरीक्षेत तां स तन्मृतिं चिन्तयत्यपि ।

स्वयं न भाषते किञ्चिन्नगृह्णाति तयाऽर्पितम्

॥१८॥

ततस्तस्याऽभवत्पुत्रः प्रभायां पतिसन्निभः ।

जातकर्म च राजाऽस्य कृत्वा धर्ममनेकधा

॥१९॥

नाम चास्याकरोत्पद्मनाभिरित्थं द्विजेरितम् ।

शुक्लपक्षे यथा चन्द्रो ववृधे सोऽपि बालकः

॥२०॥

बुद्धिमान्कुशलो युद्धे पितृतोऽप्यधिकोऽभवत् ।

पञ्चमे व्रतबन्धं च चकाराऽस्य नृपस्तदा

॥२१॥

प्रियवतो महाबुद्धिर्मद्राणामधिपो बली ।

पाञ्चालराजकन्यां स भार्यां तस्याप्यमेलयत्

॥२२॥

अतिवैभवयुक्तौ तौ विवाहं चक्रतुस्तयोः ।

कदाचिदस्य सा पत्नी ज्येष्ठा दासीत्वमापिता

॥२३॥

पादसंवाहनं कर्तुमागता भर्तृसन्निधिम् ।

निपपात महीपृष्ठे सपत्न्या चरणाहता

॥२४॥

दुःखिता रुदती ह्रीणा जगाम निजमन्दिरम् ।

कमहं शरणं यायां को मे दुःख व्यपोहयेत्

॥२५॥

सपत्न्याऽमानिताया मे त्राता स्याद्धरिरव्ययः ।

स्मृतमात्रस्तु यस्राता द्रौपद्या करुणानिधिः

॥२६॥

यां नैव मनुते भर्ता न कोऽपि मनुतेऽपि ताम् ।

अतो न जीवितेनार्थः शोषयिष्ये कलेवरम्

॥२७॥

पिबे हालाहालं वापि पते वापीं जलान्विताम् ।

न मनो निश्चयं याति तस्या विव्हलचेतसा

॥२८॥

एतस्मिन्नत्तरे दैवाद् देवलो ब्राह्मणोत्तमः ।

पुरोहितः समायातः स जगाद गजाननीम्

॥२९॥

उपासनां क्लेशहन्त्रीं सर्वकामफलप्रदाम् ।

सा तदैव प्रपद्याशु मूर्तिं मन्दारनिर्मिताम्

॥३०॥

गजाननस्य सम्पूज्य स्नात्वा शुद्धदिने तु सा ।

उपविष्टा पूजयितुं परमेण समाधिना

॥३१॥

त्यक्त्वा हरं हरिं चाम्बां तेजोयुक्तं परं रविम् ।

सर्वैः सम्पूज्यते देवदेव आदौ गजाननः

॥३२॥

विचार्यमाणे पञ्चानां भेदो नैवोपलभ्यते ।

यो भेदेनेक्षते चैतान् स याति नरकान् नरः

॥३३॥

एक एव परानन्दपूर्णोऽसौ परमेश्वरः ।

स्वेच्छया पञ्चधा जातो लोकानुग्रहकारणात् ।

एक एव पुमान् यद्वत् पुत्रमातुलनामभिः

॥३४॥

सा सम्यक् षोडशभिस्तमुपचारैः पुपूज ह ।

दूर्वापुष्पैर्दक्षिणाभिर्नमस्कारैरनेकधा

॥३५॥

कृत्वा करपुटं सा तु तुष्टाव जगदीश्वरम् ।

कीर्तिरुवाच ।

त्वमेव जगदाधारस्त्वमेव सर्वकारणम्

॥३६॥

त्वमेव ब्रह्मा विष्णुश्च बृहद् भानुस्त्वमेव हि ।

चन्द्रो यमो वैश्रवणो वरुणो वायुरेव च

॥३७॥

त्वमेव सागरा नद्यो लताकुसुमसंहतिः ।

सुखं दुखं तयोर्हेतुस्त्वं नाशस्त्वं विमोचकः

॥३८॥

इष्टविघ्नकरो नित्यं महाविघ्नकरो विराट् ।

त्वमेव पुत्रलक्ष्मीदस्त्वमेव सर्वकामधुक्

॥३९॥

त्वमेव विश्वयोनिश्च त्वमेव विश्वहारकः ।

त्वमेव प्रकृतिस्त्वं वै पुरुषो निर्गुणो महान्

॥४०॥

त्वमेव शशिरूपेण सर्वमाप्यायसे जगत् ।

त्वमेव भूतभव्यं च भाविभावात्मकः स्वराट्

॥४१॥

शरण्यः सर्वभूतानां शत्रूणां तापनः परः ।

कर्मकाण्डपरो यज्वा ज्ञानकाण्डपरः शुचिः

॥४२॥

सर्ववेत्ता सर्वविधिः सर्वसाक्षी च सर्वगः ।

सर्वव्यापी सर्वविष्णुः सर्वसत्यमयः प्रभुः

॥४३॥

सर्वमायामयः सर्वमन्त्रतन्त्रविधानवित्

॥४४॥

इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते कीर्तिस्तवनं नाम द्वाविंशोऽध्यायः ॥ ३२ ॥