मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 84

3
क्रीडाखण्डः · 84

बालासुरवधो नाम चतुरशीतितमोऽध्यायः

क उवाच

मासे द्वितीये गौरी तं सायमभ्यज्य बालकम् ।

स्थापयामास दोलायां गायति स्म मुदा बहु

॥१॥

तावदाखू समायातौ मायारूपधरौ सुतम् ।

तौ क्षेमकुशलौ दैत्यौ तद्वधकाङ्क्षिणावुभौ

॥२॥

नखदंष्ट्रायुधौ घोरौ मन्दिराभ्यन्तरं गतौ ।

युध्यन्तौ पालनाभ्याशे स्फुरदङ्गरुहौ खलौ

॥३॥

ययोश्चीत्कारशब्देन श्रुतयो बधिरीकृताः ।

पादाघातेन भूः सर्वा कृष्टक्षेत्रसमा कृता

॥४॥

ततो यष्टिं गृहित्वा सा भीषयामास तावुभौ ।

पलायनपरौ चोभावुपरिष्टाद् गतौ तदा

॥५॥

युध्यन्तौ पतितौ घोरौ बालकोपरि तावुभौ ।

उरःस्थलाभिघातात् स बुबुधे बालकोत्तमः

॥६॥

कृत्वा कर्कशशब्दं तु सा बिभाय तदा शिवा ।

बालभावेन हस्तौ स चालयामास भीतितः

॥७॥

तदाघातादुभौ नष्टजीवितौ पतितावधः ।

वमन्तौ रुधिरं वक्त्राद् दृष्ट्वा भ्रान्ता शिवाऽभवत्

॥८॥

किञ्चिज्जीवितशेषौ तौ बहिर्नीतौ गणैस्तदा ।

मोक्षं जग्मतुराघाताद् गणेशकरसम्भवात्

॥९॥

तद्देहौ पतितौ घोरौ दशयोजनविस्तृतौ ।

कोलाहलो महानासीद् दृष्ट्वा देहौ तथा गतौ

॥१०॥

गणानां च सखीनां च पार्वत्या सुमहाँस्तदा ।

विध्वस्ता आश्रमा वृक्षाः पर्वता भुवनानि च

॥११॥

पतद्भयां तच्छरीराभ्यां निर्जीवाभ्यां महान्त्यपि ।

छित्त्वा छित्त्वा तु तद्देहौ गणा निन्युर्बहिस्तदा

॥१२॥

पार्वती भयवित्रस्ता बालमादाय सत्वरम् ॥

पाययामास स्रेहेन स्तन्यं बालकवत्सला

॥१३॥

ऋषिपत्न्यः समायाता पार्वतीमूचिरेऽनघाः ।

पुण्यं महत् तु ते गौरि येन विघ्नं विनश्यति

॥१४॥

द्विमासिकेन बालेन हतौ दुष्टौ महासुरौ ।

अग्रे त्रिभुवनेऽनेन सदृशो न भविष्यति

॥१५॥

मातः राक्षसभूरत्र यत्नः कार्यः शिशाविह ।

नेष्यन्ति राक्षसा गुप्ता असुरा मायिनः परे

॥१६॥

क उवाच

एवमुक्त्वा गता देव्यो गणास्तां तु समूचिरे ।

अयं तु ते शिवे बालो हनिष्यति दिने दिने

॥१७॥

अस्माभिस्तु कियत्कालं बहिः कार्या हतासुराः ।

ततस्तु मुनयो जग्मू रक्षां चक्रुरथार्भके

॥१८॥

ददौ दानानि तेभ्यः सा विससर्ज प्रणम्य तान् ।

ततस्तृतीये मासे तु स्वस्वकार्यरते जने ।

मध्यान्हे पार्वती बालं गृहीत्वा मञ्चकेऽस्वपत्

॥१९॥

तत्परीचारिकाः सुप्ताः काश्चित्कार्यान्तरे स्थिताः ।

चक्रुः काश्चिद् वारि वार्तामेतस्मिन्नन्तरेऽसुरः

॥२०॥

क्रूराख्यश्चोतुवेषेण विवेश गिरिजालयम् ।

वञ्चयित्वा लोकदृष्टिं श्वेवदुष्टो महाबलः

॥२१॥

स निरीक्ष्य शिवां सुप्तां जहृषे मनसा तदा ।

यावन्निद्राति गिरिजा तावन्नेष्ये शिशुं त्वहम्

॥२२॥

लाघवान्मञ्चकारूढो बालमादाय मस्तके ।

मञ्चकाधः पपाताशु चुक्रोश बालकस्तदा

॥२३॥

ततः प्रबुद्धा गिरिजा बिडालास्यगतं शिशुम् ।

निरीक्ष्य धाव धावेति प्राकोशद् भयविव्हला

॥२४॥

निमील्य नयने मूर्च्छमगाद् दुःखेन भीतितः ।

कण्ठे दशति यावत् स तावद्बालो दधार तम्

॥२५॥

कर्णयोरुभयोर्दोर्भ्यां स्वभावात् पादताडनात् ।

न्यपातयच्छिरोदेशे मञ्चकाधो महासुरम्

॥२६॥

स भिन्नह्दयोऽधावद् बहिर्गत्वा पपात ह ।

महावातेन वृक्षात्तु पक्वं किञ्चित्फलं यथा

॥२७॥

दुर्गन्धं रुधिरं तस्य पतितं धरणीतले ।

आच्छादयन्नासिकां सा गिरिजा शोकविव्हला

॥२८॥

आदाय तस्मै प्रादात्सा स्तनपानं शिशोस्तदा ।

आगता बालशब्देन सर्वास्ताः परिचारिकाः

॥२९॥

स्पृशन्ति स्म तदाङ्गानि प्रत्येकं कौतुकान्विताः ।

अजरामरतामस्य निश्चित्य मनसा तु ताः

॥३०॥

स तु दीर्घ बिडालोऽभूत्तदा द्वादशयोजनम् ।

कियत्यश्चूर्णिताः सख्यः कियत्यः परिचारिकाः

॥३१॥

गणाश्चैव समायाता ओतुं दृष्ट्वा तथाविधम् ।

आश्चर्यं परमं चक्रुर्बालकस्य पराक्रमे

॥३२॥

क्व दैत्यो मायिको दुष्टः क्व बालचरणाहतिः ।

इन्द्रादीनामवध्या ये हन्यन्तेऽनेन लीलया

॥३३॥

इत्यनुज्ञां गृहीत्वा ते गणा याता निजं पदम् ।

केचिच्च बलिनो दैत्यमाकृष्य तत्यजुर्बहिः

॥३४॥

कटिदेशे गृहीत्वैनं साऽविशन्निजमन्दिरम् ।

ततश्चुतर्थे मासे तु मुनिपत्न्यः समागताः

॥३५॥

नानासौभाग्यद्रव्याणि गृहीत्वोत्तरगे रवौ ।

अबालाश्च सबालाश्च पार्वत्या मन्दिरं शुभम्

॥३६॥

तासामासनसत्कारान्ददौ दाक्षायणी तदा ।

नमस्करोति ता नारीः कटौ बालं प्रगृह्य च

॥३७॥

परस्परं समर्च्यन्त्यो हरिद्राकुङ्कुमादिभिः ।

भूमौ संस्थाप्य बालानि गतिमन्त्यगतीनि च

॥३८॥

पार्वतीयस्ततस्तेषु कीडतेस्मापि बालकः ।

तेन सर्वे शुशुभिरे शशिनोडुगणो यथा

॥३९॥

दृष्ट्वा ता मुनिपत्न्यस्तमूचुर्गिरिसुतामिति ।

धन्याऽसि गौरि पुत्रेण शिवदत्तेन भास्वता

॥४०॥

तव बालस्य सान्निध्याद्भासन्ते नोऽपि बालकाः ।

निधिसङ्गेन हेमत्वं लोहेनापि समाप्यते

॥४१॥

एवं कौतुकयुक्तास्ता आनर्चुश्व परस्परम् ।

हरिद्राभिः कुङ्कुमेक्षुखण्डचन्दनगृञ्जकैः

॥४२॥

तिलैर्गुडैस्तालपत्रैर्नानापरिमलैरपि ।

काश्चिदङ्गे हरिद्रां च मुखेषु च लिलिम्पिरे

॥४३॥

एतस्मिन्नन्तरे दैत्यो नाम्ना बालासुरो महान् ।

बालरूपी समवयास्तन्मध्ये क्रीडितुं ययौ

॥४४॥

चिक्रीड पार्वतीयेन युद्ध्यन्निव विनोदतः ।

यथा सिंहेन क्रोष्टा तु महिषो वा गजेन च

॥४५॥

कण्ठेन कण्ठं सङ्घृष्य पेततुर्भुवि दारुणौ ।

मस्तके चरणाभ्यां सोऽहनद् दुष्टो गजाननम्

॥४६॥

कचादानाय हस्ताभ्यां विचकर्ष बलादमुम् ।

स्वयं च गर्जते दुष्टो वृद्धः क्रोष्टा यथा निशि

॥४७॥

दृष्ट्वा तथाविधौ तौ सा गिरिजा प्राहता स्त्रियः ।

कस्यर्षेर्दृढबालोऽयं ताडयित्वा शिशुं मम

॥४८॥

क्रन्दतेऽसौ खर इव प्रहरे प्रहरे खलः ॥

अर्भकाणां स्वभावोऽयमित्युपेक्षितवत्यसौ

॥४९॥

तौ तु भूमिगतौ बालौ लुण्ठतःस्मानुवत्सलौ ।

धृत्वा परस्परं केशानाकर्षन्तौ च सर्वशः

॥५०॥

हसन्तौ हासयन्तौ च बालकांश्च मुनिस्त्रियः ।

जानन्नपि महादैत्यं खेलति स्म विनायकः

॥५१॥

ततो बालासुरो दुष्टो हस्ताभ्यां बलवत्तरम् ।

जीवग्राहं कण्ठदेशे दधार गणनायकम्

॥५२॥

तथा तं सोऽपि जग्राह रुद्धश्वासोऽसुरोऽभवत् ।

विव्हलं दैत्यपुत्रं तं दृष्ट्वा दुश्चित्ततां स्रियः

॥५३॥

ययुश्च चुक्रुशुर्बालो निहतोऽतेन निश्चितम् ।

धावमाना ययुः काश्चिन्नाशकन्मोचितुं हि तौ

॥५४॥

स्त्रियश्व पुरुषाः सर्वे ततस्तामम्बिकां शुभाम् ।

ऊचुर्विमोचयैनं त्वं मनिपुत्रो मरिष्यति

॥५५॥

ततः सा पार्वती बालं मुञ्च मुञ्चेति साऽब्रवीत ।

अस्मिन्मृते शपिष्यन्ति मुनयो नस्तपोन्विताः

॥५६॥

जीवदानात्परं पुण्यं नास्ति ब्रह्माण्डगोलके ।

गमिष्यति महाशक्तिस्तव तेषां तु शापतः

॥५७॥

क उवाच

एवं यावत्प्रार्थयते गिरिजा तावदेव हि ।

नेत्रद्वारेण तत्प्राणा गता बुद्बुदवत्क्षणात्

॥५८॥

ददृशुस्तं ततः सर्वे दशयोजनमायतम् ।

करालवक्त्रं पतितं चूर्णयित्वा महाद्रुमान्

॥५९॥

ततः स्त्रियो ययुर्भीता बालमादाय सत्वराः ।

वृकवृन्दं हि दृष्ट्वैव धेनवोऽजा यथा भयात्

॥६०॥

गिरिजापि स्वकं गृह्य भ्रामयित्वा सुतं मृदम् ।

दत्त्वा स्तनं कारयित्वा शान्तिकं द्विजपुङ्गवैः

॥६१॥

ददौ दानानि तेभ्यः सा जगृहे आशिषो बहु ।

न जाने आसुरीं मायां कियन्तो यान्ति नाशितुम्

॥६२॥

ततस्ते विलयं यान्ति मम बालान्महाखलाः ।

ईश्वरे सानुकूले कः पीडितुं क्षमते जनम्

॥६३॥

क उवाच

एवमाकर्ण्य तद्वाक्यं मुनिपत्न्यो ययुश्च ते ।

गणास्तं दूरतः क्षिप्त्वा स्नात्वा स्वं धाम लेभिरे

॥६४॥

इति श्रीगणेशपुराणे क्रीडाखण्डे बिडालसुरबालासुरवधो नाम चतुरशीतितमोऽध्यायः ॥ ८४ ॥