मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 61

3
क्रीडाखण्डः · 61

दैत्यदमनं विराङ्दर्शनं नामैकषष्टित्तमोऽध्यायः

विनायक उवाच

नेदृशो दृष्टपूर्वो मे बलि च वीर्यवत्तरः ।

इदानी पौरुषं पश्य मम बालस्य चेष्टितम्

॥१॥

इत्युक्वा पुनरेवासौ बाणं तूणादकर्षयत् ।

आकर्णं धनुराककृष्य प्राक्षिपत्तं नरान्तकम्

॥२॥

प्रकाशयन्व्योमतलं पातयन्वृक्षसञ्चयम् ।

आन्दोलयन्निव ययौ पुष्पवत् तं नरान्तकम्

॥३॥

स बाणोऽछेदयत्तस्य चरणौ स पपात ह ।

अर्धकाये निपतिते दैत्येऽगर्जद्विनायकः

॥४॥

चरणौ व्योममार्गेण भ्रमन्तौ पतितौ गृहे ।

देवान्तकस्य महति चूर्णयन्तौ बहून्जनान्

॥५॥

अर्द्धकायः स दैत्येन्द्रो मुखं कृत्वा भयानकम् ।

अभ्यधावद्बलेनासौ ग्रसन्निव जगत्त्रयम्

॥६॥

तथैव चरणावस्य मायया सम्बभूवतुः ।

विनायकस्य निकटे बभाषेऽभ्येत्य दैत्यराट्

॥७॥

त्वया यद्दर्शितं मह्यं पौरुषं कायभेदनात् ।

छेत्से तवापि चाङ्गानि पश्य मे पौरुषं तथा

॥८॥

श्रुत्वा वाक्यं पुनस्तस्य जगर्जासौ विनायकः ।

शरवृष्टिं पुना रौद्रां सोऽसृजद् दैत्यपुङ्गवे

॥९॥

सोऽपि तां भक्षयामास सङ्ख्यातीतां महाबलः ।

तत एक महाबाणमभिमन्त्र्य विनायकः

॥१०॥

अग्नितुण्डं रुक्मपुङ्खं गर्जमानं भयानकम् ।

आकर्णज्यामपाकृष्प तत्याज दैत्यमस्तके

॥११॥

स ययौ वायुवेगेन दारयन्निव पर्वतान् ।

संहरन् पक्षिसङ्घातान् पातयन् वृक्षसञ्चयान्

॥१२॥

श्रुत्वा तदीयनिनदं ययुः सेना दिशो दश ।

पपात दैत्यकण्ठे स गिरिसानौ यथा पविः

॥१३॥

तदाघाताच्छिरोऽप्यस्य पक्षीवद् गगनं ययौ ।

न्यपतत् परिकूजत् तत् पितुर्गेहे भयानकम्

॥१४॥

पुनरन्यच्छिरोऽस्याभूदच्छिन्नमिव पूर्वतत् ।

ततः कोपेन दैत्योऽपि चक्रे क्ष्वेडितमुच्चकैः

॥१५॥

बिभ्युः सुराः पक्षिसङ्घाः सर्वे च जनसञ्चयाः ।

शरवृष्टिं पुना रौद्रा चक्रे तस्मिन्विनायके

॥१६॥

स सर्वान् बाणवृष्ट्यैव मध्ये चिच्छेद लाघवात् ।

अहोरात्रमभूद्युद्धं गिरिबाणमयं नवम्

॥१७॥

परिशश्राम देवोऽपि सोऽपि दैत्यो महाबलः ।

चिन्तामवाप महतीं प्रजज्वाल च तेजसा

॥१८॥

ततो जग्राह परशुं ज्वालामालासमाकुलम् ।

तोलयामास बलवांश्चकम्पे धरणी तदा

॥१९॥

विमानगाः सुराः सर्वे युद्धं द्रष्टुमुपागताः ।

चकम्पिरे तदा शेषो बिभाय च रसातले

॥२०॥

अवासृजद् दैत्यपतौ स तस्याशु शिरोऽहरत् ।

पुनरन्यदभूच्चारुशिरोमुकुटकुण्डलम्

॥२१॥

पुतस्तत् पातयामास शिरः क्रुद्धो विनायकः ।

पुनरन्यदभूत्तस्य छिन्ने तस्मिन् पुनःपुनः

॥२२॥

एवं शतसहस्राणि शिरांसि सोऽच्छिनद् विभुः ।

पुनश्च चिन्तयामास मृतौ दैत्यस्य कारणम्

॥२३॥

मोहयामास सहसा मायया तं नरान्तकम् ।

शिवस्य वरदानेन गर्वितं बलवत्तरम्

॥२४॥

नाज्ञासीच्च तदा दैत्योऽपरं चात्मानमेव च ।

क्षणाच्च भासते रात्रिः क्षणाच्च दिनमेव च

॥२५॥

क्षणाच्च भासते स्वर्गं पृथ्वी पातालमेव च ।

जागरश्च सुषुप्तिश्च तुरीया स्वप्न एव च

॥२६॥

विनायकोऽपि देवो वा नारी वा पुरुषोऽपि वा ।

गुह्यको वास्थ सिद्धो वा यक्षो राक्षस एव च

॥२७॥

स्वकीयो वा परो वापि पिता वा जननी तु वा ।

निर्जीवो वा सजीवो वा भ्रमादेवममन्यत

॥२८॥

चिन्तां च परमामाप तर्कयामास चेतसि ।

एवं मे तु वरा दत्ताः शिवेन शूलधारिणा

॥२९॥

अयं च समयः प्राप्तः प्रायो मृत्युर्भविष्यति ।

क उवाच ।

एवं यावच्चिन्तयते पुरस्तावद्ददर्श सः

॥३०॥

विनायकं विराङ्रूपं गगनोर्ध्वगमस्तकम् ।

पातालव्याप्तचरणं दिक्ष्रोत्रं वृक्षरोमकम्

॥३१॥

भ्रमद्ब्रह्माण्डरोमाञ्चं पयोधिश्रमबिन्दुकम् ।

नखाग्रे यस्य देवानां भान्ति त्रिंशस्त्रिकोटयः

॥३१॥

उदरे भान्त्येकदशे भुवनानि चतुर्दश ।

ततो विनायका दैत्यं मर्दयामास तत्क्षणात्

॥३३॥

पादाङ्गुष्ठनखाग्रेण मत्कुणं बालको यथा ।

ततो देवाश्च मुनयो जयशब्दैर्मुहुर्मुहुः

॥३४॥

तुष्टुवुर्मुमुचुः पुष्पवृष्टिं भक्त्या प्रहर्षिताः ।

अन्तर्हिते तु वैराटे रूपेऽगाद्धरणी विभुम्

॥३५॥

नत्वा प्रोवाच देवेश अर्धभारो हृतो मम ।

पूर्णे हृते परा प्रीतिर्मे स्यात्तस्मात्सदा कुरू

॥३६॥

तस्यामन्तहितायां तु काशीराजः पुपूज तम् ।

उवाच च प्रसन्नात्मा विनयावनतो नृपः

॥३७॥

अत्याश्चर्यं विभो दृष्टं मनोवाण्योरगोचरम् ।

अवतीर्णोऽसि भूभारं हर्तुं तच्च कृतं त्वया

॥३८॥

त्रयस्त्रिंशत्कोटिदेवैरवध्योऽयं हतो यतः ।

अतिपुण्येन दृष्टं ते विराङ्रूपं सुरेश्वर

॥३९॥

क उवाच

एवं ब्रुवति राजेन्द्रे पौराः सर्वेऽब्रुवन्स्तदा ।

धन्योऽसि बालभावेन सर्वान्नो भ्रामयस्यहो

॥४०॥

यशः प्रथयितुं सर्वं कृतमेतद् विभो त्वया ।

पुपूजुश्च महाभक्त्या प्रार्थयन्निति तं विभुम्

॥४१॥

भक्तिं ते देहि नो देव स्ववियोगं च मा कुरु ।

ततो राजा च ते लोका ददुर्दानान्यनेकशः

॥४२॥

ब्राह्मणान्प्रार्थयामासुरेवमेव जयोऽस्तु नः ।

उपायनानि च तदा ददू राज्ञे परस्परम्

॥४३॥

इति श्रीगणेशपुराणे क्रीडाखण्डे दैत्यदमनविराङ्रूपदर्शनं नामैकषष्टित्तमोऽध्यायः ॥ ६१ ॥