मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 21

3
क्रीडाखण्डः · 21

बालचरिते राक्षसीवधो नामविंशतितमोऽध्यायः

क उवाच

श‍ृणु द्विज महाश्चर्यं कथ्यमानं मया तव ।

विनायकस्य चरितं सर्वपापहरं नृणाम्

॥१॥

अम्भासुरस्य यो मूर्धा स गतो निजमन्दिरम् ।

भ्रमरी या निरैक्षिष्ट सखी सा तां न्यबोधयत्

॥२॥

प्रसुप्तां काञ्चने तल्पे सोत्थायाङ्गणमाययौ ।

पौत्रं शिरो निरीक्षैव मूर्छिता पतिता भुवि

॥३॥

निघ्नती निजवक्षः सा कराभ्यां शोकनिर्भरा ।

निपतद्भूषणा खिन्ना नागामृष्टेव पद्मिनी

॥४॥

विभिन्नवलया छिन्नकूर्पा सा तनुमध्यमा ।

दृश्यादृश्य महद्गात्रा लुण्ठती भुवि विव्हला

॥५॥

निषिध्यमाना सखिभिर्भ्रातृभिः स्वजनैरपि ।

त्रिमुहूर्तैः प्रबुद्धा सा किञ्चिद् वक्तुं प्रचक्रमे

॥६॥

उत्थाय च कराभ्यां तु निजघान पुनः शिरः ।

भ्रमर्युवाच ।

येनेयं पृथिवी सर्व त्रासिता सामरावती

॥७॥

मूर्ध्नां सहस्रं शेषस्य भ्रूकटाक्षेण कम्पितम् ।

येन राज्येऽभिषिक्तौ तौ देवान्तकनरान्तकौ

॥८॥

यस्य श्वेडितमात्रेण रोदसी कम्पिता भृशम् ।

स कथं पतितः कुत्र निहतः केन वा सुतः

॥९॥

यं दृष्ट्वा कम्पितः कालः स कथं निधनं गतः ।

एवमाक्रन्दती दीना विवत्सेव पयस्विनी

॥१०॥

एवं विलपतीं तां तु न्यषेधयत् सखीजनः ।

न दृष्ट्वा सखि केनापि मृतेन सह वै मृतिः

॥११॥

अतिशोकेन शोकोऽन्यः प्राप्यते मूढजन्तुभिः ।

यदि स्नेहेन पुत्रं त्वं शोचसेऽस्य हितं कुरु

॥१२॥

चारान् प्रेषय वृत्तान्तग्रहणायाऽस्य सर्वतः ।

दह्यतां मस्तको मन्त्रैरेवमस्य हितं कुरू

॥१३॥

सुहृदामश्रु पतितं प्रेतस्य तन्मुखे पतेत् ।

दहत्येनं न तत्त्याज्यमित्याहुः परमर्षयः

॥१४॥

एवमाकर्ण्य तद्वाक्यं सोवाच तां सखीं रुषा ।

अयं मूर्ध्ना महाभागे स्थाप्यतां यत्नतः सखि

॥१५॥

आनयिष्येऽदितेः पुत्रमस्तकं सह तेन च ।

दाहयिष्याम्यमुं तस्मात् स्थाप्यतां तैलमध्यगः

॥१६॥

सा राक्षसी राक्षसवर्ययुक्ता समाययौ राजपुरीं निहन्तुम् ।

विनायकं तं निजरूपगोपिनी पतङ्गपत्नीव धनञ्जयान्तिकम्

॥१७॥

आगताऽदितिरूपेण भासयन्ती दिशो दश ।

अति लावण्यनिलया सर्वालङ्कार शोभिनी

॥१८॥

दाडिमी बीजदशना बिम्बोष्ठी तनुमध्यमा ।

विलसत् पद्मनयना मुक्तादामलसत्कुचा

॥१९॥

वीरा मुमुहिरे दृष्ट्वा तादृशीं नृपसद्मगाम् ।

मनसा कामयन्ति स्म यदालिङ्गनचुम्बने

॥२०॥

तर्कयामासुरपरे रम्भा किं नु तिलोत्तमा ।

मेनका वा घृताची वा नागी यक्षी शिवा नु किम्

॥२१॥

उर्वशी वा रती राज्ञी कश्यपस्यादितिर्नु किम् ।

ज्ञात्वा तु राजपत्नी तां प्रणनामादितिं मुदा

॥२२॥

पूजयामास सौभाग्यद्रव्यैर्भूषां शुकादिभिः ।

उवाच च सुचार्वङ्गी प्रेमगद्गदया गिरा

॥२३॥

महाभाग्येन दृष्टासि त्वं देवजननी मया ।

विनायक प्रासादेन क्वाऽन्यथा दर्शनं तव

॥२४॥

राज्ञीमेवं ब्रुवन्ती तु साश्रुकण्ठाऽवदद् वचः ।

अदितिरुवाच ।

मम बालो बहुदिनं स्थापितः कुत्र वर्तते

॥२५॥

अत्युत्कण्ठतया सुभ्रूर्दर्शनार्थमिहागता ।

स्रीणां स्वभावं जानासि मायाव्याकुलचेतसाम्

॥२६॥

शोकसन्तप्तगात्राऽहं तमालिङ्गामि चार्भकम् ।

तत्संसर्गसुशीताङ्गी प्राप्स्ये सन्तोषमुत्तमम्

॥२७॥

इति तद्वचनं श्रुत्वा सादरा सा ससम्भ्रमा ।

गवेषितुं तु तं बालं राज्ञी दूतानचोदयत्

॥२८॥

अन्ये चख्युः काशिराजं कश्यपस्त्रियमागताम् ।

स स्नात्वा गृहमागत्य तां दृष्ट्वा हर्षमाप ह

॥२९॥

तां प्रणम्य महाभवत्या प्रोचे बद्धाञ्जलिर्नृपः ।

मे राज्यं जन्म पितरौ धनं दृष्टिः श्रुतं तपः

॥३०॥

दृष्ट्वा शक्तिर्देवमाता जगज्जननकारिणी ।

न शक्तिर्वर्तते सम्यग् वर्णितुं ते गुणान् मम

॥३१॥

बालो विनायकस्तेऽयं शक्रादधिकविक्रमः ।

अवदानान्यनेकानि कृतानि बहुधाऽसुरैः

॥३२॥

अशक्यानि मया वक्तुं रक्षसां निधनानि च ।

तस्यापि वर्णितुं नास्ति गुणानां शक्तिरल्पिका

॥३३॥

विश्राम्यतां क्षणं मातर्मम भाग्यं महत्तरम् ।

यदनेन हता मायाबलमाश्रित्य दानवाः

॥३४॥

अपरिक्षितेन वपुषा बालस्ते वसते सुखम् ।

त्वं किमर्थमिहायाताऽऽयाता चेत् स्थीयतां क्षणम्

॥३५॥

निवृत्तेऽस्मिन् विवाहे तु प्रापयिष्ये उभावपि ।

सोवाच ।

किमिदं भाषसे राजन् वियोगादस्य मेऽभवत्

॥३६॥

महान्खेदो न च सुखं लेभे क्वापीह किञ्चन ।

क उवाच ।

एवं वदत्यां तस्यां स आगतोऽसौ विनायकः

॥३७॥

प्रेषितो बालकैः सर्वैरागता जननी तव ।

सा लिलिङ्ग ततो बालमश्रुपूर्णा मुदा जगौ

॥३८॥

चिरकालं स्थितोऽस्यत्र मां विहायातिनिष्ठुर ।

त्वद्वियोगेन सन्तप्ताऽऽगता सर्वं विहाय च

॥३९॥

जीविताशां परित्यज्य त्वदर्थे तप आचरम् ।

अतिक्लेशेन लब्धोऽसि तान क्लेशान् वेत्ति चेश्वरः

॥४०॥

विना त्वया क्षणो मेऽतो युगकल्पसमोऽभवत् ।

एवं लाघववाक्याऽसौ दुष्टभावेन भामिनी

॥४१॥

अतिप्रेमबलात् सा तं कटिदेशे दधार ह ।

सोऽपि तच्चेष्टितं ज्ञात्वाऽऽगस्तस्याःपरिचिन्तयन्

॥४२॥

गूढाभिसन्धिस्तां प्रोचे पूर्वं किं मे त्वया हृतम् ।

एवं तस्मिन्ब्रुवत्येव लड्डुकं सा ततो ददौ

॥४३॥

अत्तेऽस्मिन् पुनरन्यं सा महाविषयुतं ददौ ।

अत्तेऽस्मिन् पुनरन्यं स ययाचे लड्डुकं बलात्

॥४४॥

काशिराजश्च पत्नी च प्रार्थयामासतुस्तदा ।

उत्तिष्ठोत्तिष्ठ मातस्त्वं सबाला भोजनं कुरू

॥४५॥

यावदुत्तिष्ठते सा तु तावद् रुद्धाऽर्भकेण सा ।

गिरीन्द्रसारवपुषा सा ततो विव्हलाऽभवत्

॥४६॥

मुञ्च मुञ्चेति तं प्राह माताऽहं तव बालक ।

बहुकालेन दृष्टुं त्वामागता स्नेहपाशतः

॥४७॥

कथं चूर्णयितुं मां त्वमुद्यतोऽसि गिरिर्यथा ।

कराभ्यां नुनुदे सा तं तावन्निद्रां ययौ च सः

॥४८॥

प्रसार्य चरणौ हस्तौ श्वासोच्छ्वासपरायणः ।

इति राजा न्यषेधत्तां विव्हलां भारपीडिताम्

॥४९॥

मा निद्राभङ्गमस्याशु कुरु त्वं जननी सती ।

उद्धर्तुं बालकं केचिच्चक्रुःकरुणया मनः

॥५०॥

उत्थापितुं चालितुं वा सर्वे नाशक्नुवंस्तदा ।

प्रार्थयामासुरपरे बालं राजीवलोचनम्

॥५१॥

अनुक्रोशं कुरू शिशो जननी ते मरिष्यति ।

चालयामास चरणौ हस्तौ साऽथ शिरोधराम्

॥५२॥

किमिदं क्रियते बाल पितरं किं वदिष्यसि ।

एवं वदत्सु लोकेषु सा मृताऽथ निशाचरी

॥५३॥

दशयोजनदेहेन व्यापितं भूतलं तया ।

पलायनपराः केचित् तां दृष्ट्वाऽतिभयानकाम्

॥५४॥

ययुः केचिच्च तां दृष्टुं विचित्रजनवृत्तयः ।

राजा च विस्मितस्तत्र जनः सर्वेविलोक्यताम्

॥५५॥

कथं कपटरूपेयमागता बालघातिनी ।

ऋषिपत्नीस्वरूपेण ज्ञाता न राक्षसीति च

॥५६॥

अत्यद्भूतमं ज्ञानमस्य सामर्थ्यं च विलोकितम् ।

इति ब्रुवाणास्तु नरास्तत्समीपं मुदा ययुः

॥५७॥

बालमुत्थाप्य तस्यास्तु पुष्पभारसमं जगुः ।

अपनेयेति तेऽप्याहुर्दुष्टा दुष्टस्वरूपिणी

॥५८॥

परस्यानिष्टमिच्छेद्यः स एव निधनं व्रजेत् ।

तुष्टुवुः परिपूज्यैनं काशिराजो जना अपि

॥५९॥

ऋषयो लोकपालाश्च भक्त्या देवं विनायकम् ।

नाथस्त्वमसि देवानां मनुष्योरगरक्षसाम्

॥६०॥

यक्षगन्धर्वविप्राणां गजाश्वरथपक्षिणाम् ।

भूतभव्यभविष्यस्य बुद्धीन्द्रियगणस्य च

॥६१॥

हर्षस्य शोकदुःखस्य सुखस्य ज्ञानमोहवोः ।

अर्थस्य कार्यजातस्य लाभहान्योस्तथैव च

॥६२॥

स्वर्गपाताललोकानां पृथिव्या जलधेरपि ।

नक्षत्राणां ग्रहाणां च पिशाचानां च वीरुधाम्

॥६३॥

वृक्षाणां सरितां पुंसां स्त्रीणां बालजनस्य च ।

उत्पत्तिस्थिति संहारकारिणे ते नमो नमः

॥६४॥

पशूनां पतये तुभ्यं तत्त्वज्ञानप्रदायिने ।

नमो विष्णुस्वरूपाय नमस्ते रुद्ररूपिणे

॥६५॥

नमस्ते ब्रह्मरूपाय नमोऽनन्तस्वरूपिणे ।

मोक्षहेतो नमस्तुभ्यं नमो विघ्नहराय ते

॥६६॥

नमोऽभक्तविनाशाय नमो भक्तप्रियाय च ।

अधिदैवाधिभूतात्मन् तापत्रयहराय ते

॥६७॥

सर्वोत्पातविघाताय नमो लीलास्वरूपिणे ।

सर्वान्तर्यामिणे तुभ्यं सर्वाध्यक्षाय ते नमः

॥६८॥

अदित्या जठरोत्पन्न विनायक नमोऽस्तु ते ।

परब्रह्मस्वरूपाय नमः कश्यपसूनवे

॥६९॥

अमेयमायान्वित विक्रमाय मायाविने मायिकमोहनाय ।

अमेयमायाहरणाय मायामहाश्रयायास्तु नमो नमस्ते

॥७०॥

एवं स्तुत्वा तु ते सर्वे ययुः स्वं स्वं गृहं मुदा ।

त्यक्त्वा तां राक्षसीं छित्त्वा खण्डशो दूरतःपुरात्

॥७१॥

य इदं पठते स्तोत्रं त्रिसन्ध्योत्पातनाशनम् ।

न भवन्ति महोत्पाता विघ्ना भूतभयानि च

॥७२॥

त्रिसन्ध्यं यः पठेत् स्तोत्रं सर्वान् कामानवाप्नुयात् ।

विनायकः सदा तस्य रक्षणं कुरतेऽनघ

॥७३॥

इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते राक्षसीवधो नामैकविंशतितमोऽध्यायः ॥ २१ ॥