मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 133

3
क्रीडाखण्डः · 133

पराशरदर्शनं नाम त्रयस्त्रिंशोत्तरशततमोऽध्यायः

व्यास उवाच

पुष्पिकानिकटे त्यक्तो वरेण्यस्य गृहे स किम् ।

चकार तन्ममाचक्ष्व कार्यं विस्तरतोऽब्जज

॥१॥

क उवाच

सम्यक् पृष्टं त्वया वत्स हृदयानन्दकारकम् ।

कथयिष्ये विधानेन तत्सर्वं पापनाशनम्

॥२॥

तस्यां निशायां व्युष्टायां ददर्श पुष्पिका सुतम् ।

चतुर्बाहुं रक्तवर्णं गजवक्त्रमलङ्कृतम्

॥३॥

कस्तूरीतिलकं मुक्तामालया सुविराजितम् ।

पीतवस्त्रपरीधानं चारुचन्दनचर्चितम्

॥४॥

देदीप्यमानं वपुषा नानालङ्कारसंयुतम् ।

ततः सा पुष्पिका दृष्ट्वा बालकं तु तथाविधम्

॥५॥

विस्मिता दुःखिता चापि भयभीताऽभवत्तदा ।

घ्नती वक्षो बहिर्याता पाणिभ्यां शोककर्शिता

॥६॥

तदाक्रन्दितमाकर्ण्य मीलिताः परिचारिकाः ।

ताभिरत्यद्भुतं दृष्ट्वा बालकं तं तथाविधम्

॥७॥

नृपोऽपि ज्ञातवृत्तान्तः सगणोऽभिययौ गृहे ।

ततस्तेऽपि भयोद्विग्ना दृष्ट्वा बालं तथाविधम्

॥८॥

अधीराः पपलुस्तस्य केचिन्मूर्छामुपाययुः ।

केचिच्च नृपतिं प्राहुर्न जातो न भविष्यति

॥९॥

न दृष्टो न श्रुतः क्वापि बाल एतादृशो नृणाम् ।

नैवायं स्थापनीयस्ते वंशच्छेदकरो गृहे

॥१०॥

एवमाकर्ण्य सर्वेषां वाक्यं मेने स भूपतिः ।

दूतानुवाच बालोऽयं त्यज्यतां गहने वने

॥११॥

ततो दूता गता मध्ये गृहीत्वा बालकं तु तत् ।

गहनं काननं दृष्ट्वा वायुस्पर्शविवर्जितम्

॥१२॥

तीरे तु सरसस्तत्र क्षिप्त्वा ते पर्णसञ्चयैः ।

आच्छाद्य प्रययुः शीघ्रं वरेण्यं नृपतिं पुनः

॥१३॥

सभामध्ये नृपं दृष्ट्वा नमस्कृत्वाऽब्रुवंस्तदा ।

आज्ञया तव राजेन्द्र सिंहव्याघ्रनिषेविते

॥१४॥

त्यक्त्वा बालं समायाता भक्षितः स्याद् वनेचरैः ।

क उवाच ।

यावच्च भक्षितुं याता जम्बुकास्तावदेव तम्

॥१५॥

पराशरो मुनिवरो ददर्श करुणानिधिः ।

चतुर्भुजं गजास्यं तं कोटिसूर्यनिभं शिशुम्

॥१६॥

नानालङ्कारसंयुक्तं दिव्याम्बरविभूषितम् ।

सर्पवेष्टितसन्नाभिं चिन्तामणिविभूषितम्

॥१७॥

मुमोह मायसा तस्म सर्वज्ञाननिधिर्मुनिः ।

शुशोच किमिदं विघ्नं मम नाशाय निर्मितम्

॥१८॥

इन्द्रेण मे तपोनाशं काङ्क्षता स्वार्थसाधनम् ।

अकारि न मया किञ्चिद् दुष्कृतं पापभीरुणा

॥१९॥

दीननाथं चन्द्रचूड रक्ष मां महतो भयात् ।

एवं शोचन्तमालोक्य गजास्यः करुणायुतः

॥२०॥

निराकरोन्मोहजालं तं ततोऽलक्षयत्पुरः ।

तमेव परमात्मानं परब्रह्मस्वरूपिणम्

॥२१॥

भक्तानां रक्षणं कर्तुम्मीदृशं वेषमास्थितम् ।

धन्यं मेऽद्य जनुर्मातापितरौ च तपो महत्

॥२२॥

निरस्तौ जन्ममृत्यू मे प्राप्तं वाञ्छितमुत्तमम् ।

केनायं हतभाग्येन बालस्त्यक्तो वनान्तरे

॥२३॥

क उवाच

एवमुक्त्वा मुनिः सोऽथ निन्ये बालं स्वमाश्रमम् ।

वत्सलाऽस्य ततः पत्नी दृष्ट्वा बालं तथाविधम्

॥२४॥

आनीतं स्वामिना ज्ञात्वा ननन्द स्नेहनिर्भरा ।

हृदये विनिवेश्यैनं प्राह प्राणपतिं तदा

॥२५॥

बहुकालकृतं स्वामिंस्तपस्ते फलितं गुरु ।

यस्य स्वरूपं न ब्रह्मा न हरो न श्रियः पतिः

॥२६॥

मुनयो न विदुः साक्षाद् दर्शनं जातमद्य नौ ।

यः कर्त्ता रक्षिता हन्ता सर्वस्य जगतः प्रभुः

॥२७॥

अवतीर्णो भुवो भारं हर्तुं नानावतारकृत् ।

महद्भाग्यं हि नौ स्वामिन्ननायासेन विश्वभृत्

॥२८॥

अक्षिगोचरतां यातो मवोवाचामगोचरः ।

क उवाच ।

तस्य बालस्य स्पर्शेन स्तनौ पीनपयोधरौ

॥२९॥

जातौ पपौ ततो बालः सा चानन्दमवाप ह ।

ततः शुश्राव राजाऽसौ वरेण्यो बालकं तु तम्

॥३०॥

पराशरेण मुनिना पालितं दिव्यचक्षुषा ।

वाद्यघोषेण महता शर्करां च गृहे गृहे

॥३१॥

दापयामास हर्षेण ब्राह्मणान् सहृदोऽपि च ।

तोषयामास वस्त्राद्यैः काञ्चनै रत्नसञ्चयैः

॥३२॥

गावः कामदुघा जाताः शुष्कवाप्यो जलान्विताः ।

आश्रमे तु मुनेस्तस्य शुष्कवृक्षाः फलान्विताः

॥३३॥

य इदं श‍ृणुयान्मर्त्यः पुत्रवान्धनवान्भवेत्

॥३४॥

इति श्रीगणेशपुराणे क्रीडाखण्डे पराशरदर्शनं नाम त्रयस्त्रिंशोत्तरशततमोऽध्यायः ॥ १३३ ॥