मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 13

3
क्रीडाखण्डः · 13

बालचरितं नाम त्रयोदशोऽध्यायः

दूता ऊचुः

विनायकं रथस्थं तमाज्ञां प्राप्य गता वयम् ।

सर्वैरेव तदा दृष्टः कृतान्तसदृशस्तु सः

॥१॥

सर्वे निशाचराः स्वामिन् मृतास्तद्भीतितोऽनघ ।

वयं तव प्रसादेन जीवन्तस्त्वां समागताः

॥२॥

ईश्वरीय कृपायोगात् सिंहवृन्दाद् गजा इव ।

त्रैलोक्ये तु पुमान् नास्ति यो युध्येत् सह तेन वै

॥३॥

क उवाच

इत्थं निशम्य तद्वाक्यं जगदे स नरान्तकः ।

किं वा वदथ बालिश्यात् क्व बालः क्व नरान्तकः

॥४॥

किं कर्तव्यं पतङ्गेन प्रलयानलसन्निधौ ।

मेरुगिरिः पतेत् किं वा खनता मूषकेन च

॥५॥

ततश्चाज्ञाप दैत्यान् काशिराजपुरीं प्रति ।

लुण्ठनं तत्र कर्तव्यं येन व्यग्रो भवेन्नृपः

॥६॥

तस्मिन् व्यग्रे सोऽपि भवेत् कश्यपस्य सुतोऽपि च ।

नो चेदुभौ निहन्तव्यौ सर्वैः सर्वप्रयत्नतः

॥७॥

ततो ददौ महार्हाणि तेभ्यो रत्नान्यनेकशः ।

वस्त्राणि च विशिष्टानि शस्त्राणि विविधानि च

॥८॥

ते तं तदा नमस्कृत्य ययुः काशीशपत्तनम् ।

परस्परं समूचुस्ते दिक्चक्रं व्याप्य सेनया

॥९॥

तत्र योऽभून् महासेनानीरेवं सोऽदिशत् तदा ।

यस्य दृष्टिगतो दैत्याः स तु तेन निहन्यताम्

॥१०॥

अन्यथा मम दण्ड्यः स तस्याहं प्राणनाशकृत् ।

एवं तेन समादिष्टा दैत्या जग्मुर्दिशोदश

॥११॥

विनायकस्तेन राज्ञा रथस्थेन गतः पुरीम् ।

नानाध्वजपताकाभिश्चित्रितां रङ्गमालया

॥१२॥

वाद्यैन्दुन्दुभिर्निर्घोषैः पूजाद्रव्यैरनेकधा ।

अमात्या नागराश्चैव प्रतिजग्मुर्विनायकम्

॥१३॥

उपचारैः षोडशभिर्भक्त्या सर्वेऽप्यपूजयन् ।

राजानं च ततो जग्मुर्नगरीमन्तराऽखिलः

॥१४॥

तस्मिन् प्रविष्टे प्रासादान् रुरुहुर्योषितोऽखिलाः ।

काश्चिद् द्रष्टुं बहिर्याता व्यस्तालङ्करणाम्बराः

॥१५॥

अनादृतपितृभ्रातृभर्तृमातृ सुहृज्जनाः ।

त्यक्त्वा भोजनपात्रं च भुक्तवन्त पतिं च काः

॥१६॥

एका निरुद्धा सर्वैः सा ध्यात्वा देवं विनायकम् ।

भक्त्या निमील्य नयने जहौ प्राणांस्तदद्भुतम्

॥१७॥

लाजवर्षैः पुष्पवर्षैर्ववर्षुस्तं कुमारिकाः ।

विमानस्था देवगणा ददृशुस्तं महोत्सवम्

॥१८॥

ब्राह्मणाः परमात्मानं पश्यन्ति स्म विनायकम् ।

क्षत्रियास्तं महावीरं पश्यन्ति स्मरणोत्सुकम्

॥१९॥

वैश्यास्तं ददृशुः सर्वे रुद्रं संहारकारकम् ।

शूद्रास्तं हरिरूपेण नृपरूपेण चालुकन्

॥२०॥

यस्य यस्य यथा भावस्तादृशं सोऽभ्यवीक्षत ।

यथा रक्ते सिते पीते स्फटिकस्तादृशाकृतिः

॥२१॥

एक एव पुमान् यद्वत् पिता भ्राता च श्यालकः ।

ततो विनायकोऽपश्यत् पुरमध्ये महासुरौ

॥२२॥

विघटं दन्तुरं रन्तुं समाह्वयत सादरम् ।

तौ दैत्योर्दुष्टमनसौ बालकैः समुपागतौ

॥२३॥

आलिङ्गितुं कृतोद्योगौ तेन ज्ञातौ दुराशयौ ।

आलिङ्ग्य चूर्णयामास पुष्पं हस्तगतं यथा

॥२४॥

त्यक्तौ भूमिगतौ तौ तु रेजतुर्दशयोजनौ ।

काशिराजश्च लोकाश्च दृष्ट्वाऽश्चर्यं तु मेनिरे

॥२५॥

मुमुचुः पुष्पवर्षाणि देवास्तस्मिन् नभोगताः ।

साधु साध्विति शब्दैश्च जयशब्दैश्च केचन

॥२६॥

मुनयश्चैव देवाश्च तुष्टुवुस्तं विनायकम् ।

मायामानुषरूपेण चरन्तं बाललीलया

॥२७॥

शक्रादीनामजेयौ यौ तावनेन हि चूर्णितौ ।

ततो वीथीरतिक्रम्य रथो यातोऽग्रतोऽग्रतः

॥२८॥

ततोऽन्यावसुरौ दृष्टौ हन्तुमेनं समीयतुः ।

पतङ्गविधुलौ नाम्ना वात्यारुपौ महाबलौ

॥२९॥

ततो व्याकुलितो लोको रजसाच्छादितोऽखिलः ।

प्रासादा वृक्षसङ्घाश्च पतिता वसुधातले

॥३०॥

प्रावारनिचया भान्ति गगने पक्षिसन्निभाः ।

केषाच्चिन्मस्तकात् पेतुरुष्णिषाणि दिशो दश

॥३१॥

कोलाहलो महानासीन् न प्राज्ञायत किञ्चन ।

रथोऽपि गगनं गन्तुमुद्यतस्तम्भितोऽमुना

॥३२॥

निःसारमनुजाः पेतुः सद्योजाता इवाननीम् ।

ततोऽतिबलिनौ ज्ञात्वा दधार शिखयोरुभौ

॥३३॥

एकेन मुष्टिना देवो भ्रामयित्वा बलाच्चिरम् ।

तत्याज स धरापृष्ठे व्यसू तौ ददृशे जनः

॥३४॥

तर्कयामास देवोऽयं कश्यपस्य सुतो बली ।

यतोऽनेन हतावेतावसुरौ योजनायतौ

॥३५॥

अस्मिन् वयसि कस्यापि नेदृशं वीक्ष्यते बलम् ।

एतावद्दृष्टसामर्थ्यं काशिराजोऽप्यनन्दत

॥३६॥

अवप्लुत्य रथात् तस्मात् तं ननाम विनायकम् ।

उवाच च महायोगिन् बालस्यापि न ते कृतिः

॥३७॥

ब्रह्मादिज्ञानविषया कुतःस्याच्चर्मचक्षुषः ।

जगदुत्पादकोऽनेकरूपोऽस्यवनहेतवे

॥३८॥

न सङ्ख्या वर्तते स्वामिन्नवतारगता तव

॥३९॥

ततोऽग्रतो रथो यातस्त्वरया नृपतेर्गृहम्

॥४०॥

ततो ददर्श बालोऽसौ दैत्यं पाषाणरूपिणम् ।

ततोऽहनत् परशुना शतधा सोऽभवत् तदा

॥४१॥

तस्माद् विनिःसृतो भीमो दंष्ट्रादशनभासुरः ।

श्मश्रुलो दीर्घकायश्च पुरुषः पिङ्गलो महान्

॥४२॥

ततस्ते बालकाः सर्वे लोकाश्चान्येऽपि दुद्रुवुः ।

तं चापि न्यहनन् मुष्टया स चापि न्यपतद् भुवि

॥४३॥

असंमत जना बालं भगवन्तं धृताकृतिम् ।

ततो राजा हृष्टमना रथादुत्तीर्य बालकम्

॥४४॥

अन्तःप्रवेशयामास स्वयमादाय सत्वरम् ।

रत्नवर्णमये स्वीये आसने चोपवेश्य तम्

॥४५॥

उपचारैः षोडशभिः प्रपूज्य च यथाविधि ।

महार्हवस्त्राभरणैर्दिव्यैश्चैव सुगन्धिभिः

॥४६॥

परमाल्हाद संयुक्तस्तुष्टाव च ननाम च ।

अन्नं च षड्रसं नाना पक्वान्नं व्यञ्जनान्वितम्

॥४७॥

सुहृद्भिर्भोजयामास परमान्नमनेकधा ।

ततो नानाफलान्याशु ददौ तेभ्यो नराधिपः

॥४८॥

ततोऽष्टाङ्गं च ताम्बूलं रत्नकाञ्चनसंयुतम् ।

ततः स्वयं बुभोजाशु शिशुभिः परिवारितः

॥४९॥

ततः प्रस्वापयामास कृतसन्ध्याविधिं च तम् ।

पर्यङ्के रुचिरे दीपवितानपरिशोभिते

॥५०॥

स्वयं तदाज्ञया राजासुष्वाप प्रियया सह ।

अत्याप्तांश्चतुरः स्थाप्य जागराय तदन्तिके

॥५१॥

इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते विघण्टदन्तूरवधोनाम त्रयोदशोऽध्यायः ॥ १३ ॥