मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 4

3
क्रीडाखण्डः · 4

चतुर्थोऽध्यायः

व्यास उवाच

देवान्तकस्य चरितं श्रुतं भक्त्या तवाननात् ।

इदानीं वद मे ब्रह्मन् नरान्तकविचेष्टितम्

॥१॥

क उवाच

श‍ृणुष्वावहितो ब्रह्मन् सम्यक् सत्यवतीसुत ।

कथयिष्येऽधुना तत्तु दृष्ट्वा ते परमादरम्

॥२॥

नरान्तको महीं गत्वा नानादैत्यगणान्वितः ।

चकार कदनं राज्ञां मारयामास काँश्चन

॥३॥

सर्वे तं शरणं याता दृष्ट्वा राज्ञो हतान् बहून् ।

यद्यत्सैन्यं पश्यति स्म तत् तद् याति दिशो दश

॥४॥

यथा ज्ञानेन चाज्ञानं यथा सूर्योदये तमः ।

एवं भूमण्डलं सर्वं वशे चक्रे नरान्तकः

॥५॥

ये तु तं शरणं यातास्तदीयत्वात्पदे स्थिताः ।

ये हतास्तत्सुतास्तेन स्थापिताः करदाः कृताः

॥६॥

ये तु यद्धोद्यता भूपास्तेऽपि सेवाकृतोऽभवन् ।

तेषां पदेषु दैत्यान् सोऽस्थापयत् स्वस्य सम्मतान्

॥७॥

पालयामास पृथिवीं समुद्रवलयाङ्किताम् ।

आतङ्कभारसन्तप्ता देवदानवकिन्नराः

॥८॥

मुनयोऽयुर्गिरिगुहां यज्ञ स्वाध्यायवर्जिताः ।

वेदत्यागस्य दोषेण मनसा चाभ्यसन् श्रुतीः

॥९॥

आतङ्काक्रान्तमनसो न तपस्यां च चक्रिरे ।

ततो नरान्तको दैत्यान् नागलोकजिगीषया

॥१०॥

प्रास्थापयत् सुबलिनो नानामायाविशारदान् ।

ते तार्क्ष्यरूपाः संयाता बभक्षुरुरगोत्तमान्

॥११॥

असङ्ख्याता भक्षितास्तैस्ततः शेषो ययौ पुरः ।

मुक्ताफलानि रत्नानि सहनागाङ्गनायुतः

॥१२॥

अनेकदिव्यवस्त्राणि प्रगृह्य रुचिराणि सः ।

तानि सर्वाणि दत्त्वैव साम चक्रेऽसुरैः सह

॥१३॥

शासनं परिजग्राह नरान्तकसमीरितम् ।

करभारं वार्षिकं स स्वीचक्रेऽनन्तशीर्षकः

॥१४॥

तथापि दैत्यस्तत्राप्यस्थापयद् दैत्यपुङ्गवम् ।

अनेक दैत्यसहितं सर्वाध्यक्षं रसातले

॥१५॥

आज्ञापयामास च तं तत्रस्थं स नरान्तकः ।

यदैव विकृतिं पश्येरुरगाणां तदैव नः

॥१६॥

दूतमुखात् सूचयस्व हनिष्यामोऽखिलानहीन् ।

इत्थं शिक्षाप्य तं ते तु दैत्याः सर्वे नरान्तकम्

॥१७॥

मृत्युलोके स्थितं याता वृत्तान्तं सर्वमब्रुवन् ।

नरान्तकः सदाऽप्रेषीन् मृत्युपाताललोकजम्

॥१८॥

देवान्तकाय वृत्तान्तं सर्वस्य यमनुष्ठितम् ।

उपायनानि सर्वाणि स्वर्लोके दुर्लभानि च

॥१९॥

देवान्तकोऽथाऽप्रैषीत्तं दुर्लभं यच्च भूतले ।

एवं त्रैलोक्यराज्यं तौ चक्राते परया मुदा

॥२०॥

सोमकान्त उवाच

कथमेतौ हतौ केन रूपेण तद् वदस्व मे ।

केनास्त्रेण च शस्त्रेण ह्यवतारेण केन च

॥२१॥

भृगुरुवाच

एवमेव कृतप्रश्नो व्यासमूचे चतुर्मुखः ।

या कथां परया प्रीत्या तामेव त्वां ब्रवीम्यहम्

॥२२॥

क उवाच

दुर्जयौ वरगर्वौ तौ येन रूपेण घातितौ ।

येनावतारेण मुनें येन शस्त्रेण चास्त्रतः

॥२३॥

सम्प्राप्ता ब्रह्मणा लोका देवाश्च स्वपदे स्थिताः ।

तत्सर्वं कथयिष्यामि सादरं श्रूयतां मुने

॥२४॥

इति श्रीगणेशपुराणे क्रीडाखण्डे भूतलरसातलविजयोनाम चतुर्थोऽध्यायः ॥ ४ ॥

आदित श्लोकानां समष्ट्यङ्काः = ४२३४ + २४ = ४२५८