मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 68

3
क्रीडाखण्डः · 68

अस्त्रयुद्धं नामाष्टषष्टितमोऽध्यायः

क उवाच

ततो दैत्यो बाणयुगं मन्त्रयामास सादरम् ।

निद्रास्त्रेण तदा चैकं गन्धर्वांस्त्रेण चापरम्

॥१॥

वामजानुं पुरः स्थाप्य ज्यामाकृष्य ससर्ज तौ ।

तयोः शब्देन सहसा च कम्पे भुवनत्रयम्

॥२॥

एकः सैन्ये निपतितोऽपरो देवसमीपतः ।

ततस्ताला मृदगाँश्च गन्धर्वाम्प्सरसस्तथा

॥३॥

गाननृत्यानि चित्राणि पुरोऽपश्यद् विनायकः ।

पतितानि च शस्त्राणि न बुबोध करात्तदा

॥४॥

मोहितो मञ्जुलरवैः कर्तव्यं नाभ्यपद्यत ।

सैनिकाः सुषुपुः सर्वे निद्रास्त्रेण विमोहिताः

॥५॥

निशामुखे यथा बाला अव्यवस्थं हि शेरते ।

स्त्रियोऽपि चाथ ताः सर्वाः सुषपुर्विगतत्रपाः

॥६॥

देवान्तकोऽपश्यदेवं जहर्ष च जगर्ज च ।

ततः संस्थापयामास गुल्मानि परितो बहु

॥७॥

देवसैन्यस्य महतो बली वीरयुतानि च ।

चक्रे कुण्डं त्रिकोणं च भूमिसाधनपूर्वकम्

॥८॥

असृक्कुम्भान्समानीय शतसङ्ख्यान्प्रयत्नतः ।

स्नात्वा पद्मासनं चक्रे नानाप्रेतेषु सादरम्

॥९॥

दैत्यान्निहत्य शतशो मांसराशिं महत्तरम् ।

चकाराभिचरं दैत्यो वह्निं स्थाप्य यथाविधि

॥१०॥

दिगम्बरो जुहावाथ मांसानि मन्त्रपूर्वकम् ।

सहस्रे तु हुते पश्चाद्बलिं पूर्णाहुतिं च यः

॥११॥

चकार कुण्डमध्ये सोऽपश्यच्छक्तिं क्षुधातुराम् ।

नरमांसानि तस्यै स ददौ पातुं च तान्घटान्

॥१२॥

अतृप्तां तां परिज्ञाय प्रेतानन्यानथार्पयत् ।

ततः सा बहिरायाता व्योमकेशी भयङ्करा

॥१३॥

विशालगर्तनेत्राऽतिकरालवदनाऽरुणा ।

उवाच परमप्रीता नादयन्ती दिशो दश

॥१४॥

तृप्तास्मि रक्तमांसैस्ते न भयं विद्यते क्वचित् ।

तामुवाचाथ दैत्योऽपि पुपूजे भक्तिभावतः

॥१५॥

उपचारैः षोडशभिः प्रणिपातपुरःसरम् ।

ततो दिव्याम्बरधरो नानालङ्कारभूषितः

॥१६॥

देव्या अङ्कं समासाद्य जगर्ज बलवत्तरम् ।

सोड्डीय तेन सहिता नभस्येव स्थिताऽभवत्

॥१७॥

नानाशस्त्रधरा सोऽपि धनुर्बाणधरो बभौ ।

तामुवाच रौद्रकेतुपुत्रः परमहर्षितः

॥१८॥

कश्यपस्यात्मजो बालश्चञ्चलो बहुलं पुरा ।

इदानीमत्र किं तेन कर्तव्यं कुचरेण मे

॥१९॥

इदानीं सर्वसैन्यानि नाशयिष्ये तवाग्रतः ।

एवं ब्रवति दैत्येन्द्र काशिराजोऽश‍ृणोद्वचः

॥२०॥

ततो विनायकं राजा बोधयामास सादरम् ।

काशीराजोवाच ।

भूतभव्यभविष्यज्ञ कथं मायां न बुध्यसे

॥२१॥

गान्धर्वीं दैत्यरचितां कथं सक्तोऽसि तत्र वै ।

देवान्तकेनाभिचरान्निर्मितां राक्षसीमिव

॥२२॥

सा हनिष्यति ते सैन्यं सावधानमना भव ।

क उवाच ।

एवं नृपवचः श्रुत्वा सावधानमना विभुः

॥२३॥

बुद्ध्वा तज्ज्ञानदृष्ट्यैव सर्वं मायामयं तदा ।

शरद्वयं विनिष्कृष्य मन्त्राभ्यां परिमन्त्र्य च

॥२४॥

घण्टास्त्रेण खगास्त्रेण श्रोत्राकर्षणसम्भ्रमात् ।

विनायको मुमोचाऽथ तौ बाणौ वेगवत्तरौ

॥२५॥

गर्जन्तौ घनवद्रुक्मपुङ्खौ मारुतवेगिनौ ।

सहसाच्छादयन्तौ च सहस्रकरमण्डलम्

॥२६॥

घण्टानादः समभवन् महान् सर्वविमोहनः ।

ततो घण्टास्वनान् श्रुत्वा प्रोत्तस्थुः सर्वसैनिकाः

॥२७॥

सिद्धयः सर्ववीराश्च युयुधुः शस्त्रपाणयः ।

अपरस्तस्य सैन्येषु मुक्तो बाणः खगास्त्रतः

॥२८॥

ततः खगाः प्रादुरासन्नानारूपा महौजसः ।

पक्षवातेन तेषां तद्गान्धर्वं लयमागतम्

॥२९॥

अन्धकारं यथा सूर्यसारथेरुदयान्मुने ।

ततस्ते पक्षिणः सर्वे बभक्षुर्दैत्यसैनिकान्

॥३०॥

पक्षाघातहताः केचित् केचिच्चञ्च्वग्रविक्षताः ।

केचिद् भीत्येव पतिता दैत्याःप्राणान् विहाय च

॥३१॥

हाहाकारो महानासीद् दैत्यसैन्येषु सर्वशः ।

ततो देवान्तको रोषात् खड्गास्त्रं प्राहिणोत्तदा

॥३२॥

तस्य ध्वनिं समाकर्ण्य चुक्षुभे सैन्यसागरः ।

दिग्गजाश्च ततः खड्गा असङ्ख्याता विनिःसृताः

॥३३॥

वह्निमन्तश्च सङ्घट्टात् सेनयोरुभयोरपि ।

अग्निदग्धास्तदा दैत्या निपेतुर्धरणीतले

॥३४॥

खगाश्च निहताः केचित् केचिद् दग्धास्तथाग्निना ।

अपरे ययुरन्तर्द्धि दिशश्चाथ चकाशिरे

॥३५॥

असङ्ख्यखड्गप्रभया सेन्नाचक्षुर्महोमुषा ।

खड्गवृष्टया विनिहता देवाः पेतुर्धरातले

॥३६॥

केषाच्चिद् बाहवच्छिन्नाः केषाच्चिन्मस्तकाः कराः ।

जठरे जानुभागे च पृष्ठभागेऽपरा हताः

॥३७॥

निपेतुर्देवपुञ्जेषु मृतेषु च गतासवः ।

अष्टसिद्धिकृताः सर्वाः सेना एवं विनाशिताः

॥३८॥

असृङ्नद्यो दश दिशो याताः प्रेतवहास्तदा ।

विनायकस्ततो दृष्ट्वा दैत्यस्याद्भुतविक्रमम्

॥३९॥

बाणं निष्काश्य सुदृढं वज्रास्त्रेणाभिमन्त्र्य च ।

आक्रन्दनेन महता दैत्यसैन्ये मुमोच तम्

॥४०॥

पर्वताश्च द्रुमास्तस्य शब्देन पतिता भुवि ।

तदस्त्रानलसंयोगाद् दिग्दाहः समजायत

॥४१॥

देदीप्यमानं सहसाच्छादयन् रविमण्डलम् ।

पक्षिणो निहता दग्धास्तेजसा तस्य केचन

॥४२॥

खण्डितं तेन सहसा खड्गास्त्रं तत्सहस्रशः ।

निर्ददाह तदा दैत्यसेनां वज्रैरनेकशः

॥४३॥

सहस्रशो निहन्यन्ते एकया वज्रधारया ।

यतो यतोऽगमद् दैत्यस्तत्र तत्रापतच्च तत्

॥४४॥

चुचूर्ण मस्तकान् पादान् हस्तान् स्कन्धानुरूनपि ।

धरां भित्त्वा गता दैत्यास्तानप्यथ जघान तत्

॥४५॥

एवं सर्वे हता दैत्या वज्रैस्तीक्ष्णैः सहस्रशः ।

ततो देवान्तकं जग्मुस्तानि वज्राणि सर्वशः

॥४६॥

सोऽपि बाणं समादाय मन्त्रयामास यत्नतः ।

रौद्रास्त्रेणाथ संयोज्य धनुषः कर्षणेन तम्

॥४७॥

ससर्ज परसैन्येषु शिवनामाङ्कितं शुभम् ।

नादयन् गगनं सोऽथ दिशश्च विदिशोऽपि च

॥४८॥

वमन्नग्निकणान् दिक्षु प्रलयानलसन्निभः ।

भूलोका देवलोकाश्च भयाद् याता दिशो दश

॥४९॥

विनायकस्य सैन्येषु महाकोलाहलो ह्यभूत् ।

तस्मिन्निपतिते बाणे पुरुषो घोरदर्शनः

॥५०॥

निःसृतो भीषणमुखस्त्रैलोक्यं ग्रासयन्निव ।

जटिलो दीर्घहस्तश्च दीर्घपादो महोदरः

॥५१॥

धराधरो व्योमगोष्ठो गिरिजिव्हो भयानकः ।

वज्रास्त्रं भक्षयामास क्षणात् स पुरुषो महान्

॥५२॥

विनायकं हन्तुकामो ययौ तस्यान्तिकं क्षणात् ।

ततो विनायकः शीघ्रं ब्रह्मास्त्रं समयोजयत्

॥५३॥

मन्त्रेण शतसङ्ख्येन सायके वेगवत्तरे ।

आकर्णकर्षणाद् देवो मुमोच सहसा च तम्

॥५४॥

चकम्पे तस्य शब्देन तारेण भुवनत्रयम् ।

विस्फुलिङ्गैर्दिशो दग्धा न प्राज्ञायत किञ्चन

॥५५॥

ततोऽपि पुरुषो जज्ञे तादृशोऽतिभयानकः ।

तावुभौ युद्धतो व्योम्नि परस्परजयैषिणौ

॥५६॥

नानाविधं मल्लयुद्धं चक्रतुस्तौ महाबलौ ।

क्षणेनान्तर्हितो चोभौ न दृश्यतेऽथ कुत्रचित्

॥५७॥

इति श्रीगणेशपुराणे क्रीडाखण्डे भयानकास्त्रयुद्धं नामाष्टषष्टितमोऽध्यायः ॥ ६८ ॥