बालचरिते सिन्दूरनिर्गमो नाम षट्त्रिंशोत्तरशततमोऽध्यायः
क उवाच
एकस्मिन् दिवसे देवो जगाद मुनिसत्तमम् ।
पराशरं महाभाग्यं परदुःखप्रपीडितः
॥१॥गजानन उवाच
सिन्दुरेण तु दुष्टेन पीडितं सकलं जगत् ।
स्वाहास्वधावषट्कारैर्वर्जितं वेदघोषतः
॥२॥स्थानभ्रष्टा देवगणा भ्रष्टा ऋषिगणास्तथा ।
गजाननस्वरूपेण करिष्ये दुष्टनाशनम्
॥३॥साधूनां पालनं चैव भूभारहरणं तथा ।
स्थापनं सर्वदेवानामानन्दं जगतोऽपि च
॥४॥निधेहि मस्तके तात पाणिं मेऽभयदं शुभम् ।
अनुग्रहप्रसादात्ते हनिष्ये दुष्टदानवान्
॥५॥मुनिरुवाच
आश्चर्यं परमं बाल बालभावात्प्रभाषसे ।
बालकः कौतुकाविष्टो याचते चन्द्रमण्डलम्
॥६॥असाध्यं त्रिदशैः सर्वैः कर्म कर्तुं तथेच्छसि ।
यस्य श्वासेन गिरयः पतन्ति शतशो भुवि
॥७॥पादाघातेन यस्याशु कम्पते भुवनत्रयम् ।
कथं त्वं युध्यसे तेन बिसतन्तुशरीरवान्
॥८॥चरित्वा नववर्षाणि पूर्णानि तव साम्प्रतम् ।
ममानुग्रहमात्रेण त्वं चेच्छक्तो भविष्यसि
॥९॥तदाऽयं निहितो हस्तो मस्तकेऽभयदायकः ।
क उवाच ।
ततो हर्षयुतो देवो नमस्कृत्य मुनिं तदा
॥१०॥जननीमपि दुर्गां च श्रीहरि हरमेव च ।
ययौ योद्धुं मूषकं तमारुह्य स गजाननः
॥११॥अङकुशं परशुं पाशं कमलं च चतुर्भुजैः ।
दधानो गर्जनेनाशु कम्पयन् भुवनत्रयम्
॥१२॥प्रज्वलंस्तेजसा स्वेन प्रलयानलसन्निभः ।
क्षणेन प्राप सिन्दूरनगरं स गजाननः
॥१३॥घृसृणेश्वरसान्निध्यात् सिद्धसिन्दूरवाडकम् ।
तत्रस्थः प्रशशासासौ सिन्दूरो भुवनत्रयम्
॥१४॥तदुत्तरे स्थितो देवो जगर्ज गर्जयन्दिशः ।
चुक्षुभुः सागराः सप्त विशीर्णा गिरयोऽपि च
॥१५॥श्रुत्वा निनादं तस्याशु सर्वदैत्याश्चकम्पिरे ।
मुमूर्च्छुर्भीरवः सर्वे केचिन्मृत्युमुपाययुः
॥१६॥सिन्दूरोऽपि मुमूर्च्छाशु क्षणेन प्रकृतिं ययौ ।
उवाच सेवकान् सर्वान्कोऽयं गर्जति दृश्यताम्
॥१७॥मूर्छा प्राप्ता मया कस्माद्यच्छब्देन पुरः कथम् ।
स्थास्यामि तत्पुरः स्थातुं कस्य शक्तिर्भविष्यति
॥१८॥ततस्ते सेवका जग्मुस्तदा बालसमीपतः ।
तद्रूपं ते निरीक्ष्यैव सिंहस्य करिणो यथा
॥१९॥बिभ्युश्चैव चकम्पुश्च केचिद् धैर्यात्तमब्रुवन् ।
कस्य त्वं कुत आयातः किमर्थं तव नाम किम्
॥२०॥सिन्दूरो विश्व संहाररसिकः क्रोधसंयुतः ।
श्रुत्वा ते क्रन्दितं सर्वं कम्पितं च ससिन्दुरः
॥२१॥बालोऽपि बलवान् भासि चतुःपञ्चाब्दिकोऽपि च ।
दृश्यसे सर्वसंहारकारणाय क्षमः क्षणात्
॥२२॥एवमाकर्ण्य तद्वाक्यं प्रोवाच स च तान्विभुः ।
अहं शिवसुतः ख्यातः पराशरगृहे वसन्
॥२३॥दुष्टसंहाररसिको भक्तपालनतत्परः ।
नानावतारकुशलो ब्रह्मादीनामगोचरः
॥२४॥गजाननेति मे नाम युद्धं कर्तुं समागतः ।
स्वामिनं वोऽथ गच्छन्तु तस्मै सर्वं ब्रुवन्तु च
॥२५॥तस्मिन् हते मानसं मे तोषमेष्यति दुर्जये ।
क उवाच ।
ततस्ते निर्ययुः शीघ्रं सिन्दूरं प्राब्रुवन्वचः
॥२६॥दूता ऊचुः
वयं शीघ्रतरं याताः पुरुषं भवदाज्ञया ।
कृतान्तसदृशं तं तु दृष्ट्वा सर्वे च कम्पिता
॥२७॥ततोऽभवत्प्रतापेन तदग्रे प्राब्रुवाम च ।
तस्तेन समाख्यातं निजं सर्वं समासतः
॥२८॥गजानननेति नामास्य शिवपुत्रत्वमेव च ।
दुष्टदैत्यविनाशाय साधूनां पालनाय च
॥२९॥साम्प्रतं तु त्वया सार्द्धं युद्धाय समुपागतः ।
स चतुर्वार्षिको बालो वल्गते बहु विस्तरम्
॥३०॥इदानीं स्वस्वभावेन जहि शत्रुं निजं लघुम् ।
तव तु श्वासमात्रेण दूरे गच्छेदयं शिशुः
॥३१॥यस्य ते दर्शनात् स्वामिंश्चकम्पुः शिवकादयः ।
तस्य ते गणना कास्ति बालकस्याल्पमेधसः
॥३२॥क उवाच
एवं दूतवचः श्रुत्वा सिन्दूरश्चिन्तयातुरः ।
बभूव म्लानतुण्डश्च क्रोधारुणविलोचनः
॥३३॥उद्वमन् नयनाद्वह्निं प्रलयानलसन्निभम् ।
उवाच दूतान्क्रोधेन हर्षेण च समन्वितः
॥३४॥स उवाच
आश्चर्यं परमं दूता भवद्वचसि मेऽभवत् ।
सिंहेन सह योद्धुं वै मशकः कथमेष्यति
॥३५॥चतुर्वर्षेण बालेन योद्धव्यं किं मया सह ।
यूयं ततः कथं भीता न जाने तत्र कारणम्
॥३६॥मयिक्रुद्धे जगन्नश्येत् तत्र का गणनाऽस्य ह ।
जगर्ज गर्जयन् व्योम दिशोऽपि विदिशोऽपि च
॥३७॥धृत्वा शस्त्राणि चास्त्राणि निर्ययौ युद्धलालसः ।
तत ऊचुरमात्यास्तं नमस्कृत्यासुराधिपम्
॥३८॥सत्सु बलेष्वमात्येषु कथं यासि स्वयं रणम् ।
वयं तं हि हनिष्यामः प्रतापात्तव दैत्यप
॥३९॥समयार्थं महत्सैन्यं पाल्यते सोऽयमागतः ।
प्राणांस्त्यक्ष्यामहे सर्वे तव हेतोर्महाप्रभो
॥४०॥अनुजानीहि यास्यामो हन्तुं बालं रिपुं तव ।
सिन्दूर उवाच ।
यामि सर्वे प्रपश्यन्तु पौरुषं मम सैनिकाः
॥४१॥इत्युक्त्वा प्रययो शीघ्रं बालं हन्तुं सुमत्सुकः ।
स प्राप क्षणमात्रेण यत्र बालः स्थितोऽभवत्
॥४२॥इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते सिन्दूरनिर्गमो नाम षट्त्रिंशोत्तरशततमोऽध्यायः ॥ १३६ ॥