मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 78

3
क्रीडाखण्डः · 78

सुरर्धिवरप्रदानं नामाष्टसप्ततितमोऽध्यायः

क उवाच

सर्वे निगृहिता देवाः सिन्धुना प्रभविष्णुना ।

तस्यैव च वधोपायं चिन्तयामासुरुत्सुकाः

॥१॥

हरिरुवाच

सर्वेषां सम्मतं ज्ञात्वा कर्तव्यः कार्यनिश्चयः ।

तस्मात् सर्वे ब्रुवन्त्वद्य मतं यस्य यथा भवेत्

॥२॥

क उवाच

इति शक्रवचः श्रुत्वाऽबुवन् ब्रह्मादयः सुराः ।

ईश्वरः सर्वकर्ताऽस्ति स कल्याणं करिष्यति

॥३॥

स येन तुष्यते देवः स उपायो विधीयताम् ।

स एनं परिभूत्वैव नः पदानि प्रदास्यति

॥४॥

ततो वक्तृप्रधानोऽसौ बृहस्पतिरभाषत ।

स्वल्पया पूजया सद्यः प्रसन्नो जायते विभुः

॥५॥

चराचरगुरुः सद्यः सर्वैः प्रार्थ्योऽसुरान्तकः ।

देवा ऊचुः ।

को देवः प्रार्थनीयस्ते मतो वाचस्पते वद

॥६॥

तस्य तुष्टिं करिष्यामः स्वपदप्राप्तयेऽखिलाः ।

गुरुरुवाच ।

सृजते पाति यो विश्वं हन्ति रूपत्रयात्मकः

॥७॥

अबीजो बीजभूतश्चाशेषवाचामगोचरः ।

नित्यो ब्रह्ममयो ज्योतिः स्वरूपः शास्त्रगोचरः

॥८॥

अनादिमध्यनिधनो निर्गुणो यो निरामयः ।

बहुरूपैकरूपश्च यस्य नामाखिला जनाः

॥९॥

गृहीत्वा सर्वकार्येषु सिद्धिं यान्ति निजेप्सिताम् ।

सङ्कष्टं हरते भक्त्या पूजितः स विनायकः

॥१०॥

आराधयन्तु सर्वे तं स वः सिद्धिं विधास्यति ।

माघस्य कृष्णपक्षोऽयं सम्प्रवृत्तोऽधुना सुराः

॥११॥

चतुर्थी भौमयुक्ताऽस्य प्रिया विघ्नहरस्य ह ।

स एव प्रकटीभूय दास्यते स्वम्पदानि वः

॥१२॥

सिन्धुं स सन्निहत्यैव नात्र कार्या विचारणा ।

यद् यत् कामयते यो यस्तत् तत्सर्वं प्रदास्यति

॥१३॥

देवा ऊचुः

सम्यगुक्तं गुरोवाक्यं येन तृप्तावयं मुने ।

महास्रोतोवहान्नस्त्वं कर्णधारोऽसिसाम्प्रतम्

॥१४॥

कः उवाच

नतस्ते शक्रवरुणकुबेरमधुसूदनाः ।

गुरुभौमशशीनाश्च यमाग्न्यनिलकादयः

॥१५॥

पञ्चामृतं गन्धमाल्यं शमीदूर्वाश्च पल्लवान् ।

फलान्यरण्यजातानि विविधानि च मृत्तिकाः

॥१६॥

अशर्कराः समादाय गण्डकीं तां नदीं ययुः ।

मण्डपं विपुलं कृत्वा भङ्क्त्वा वृक्षाननेकशः

॥१७॥

लताभिः कदलीस्तम्भैः सुच्छायं च सुशीतलम् ।

स्नात्वा नित्यक्रियाः कृत्वा मूर्तींश्चक्रुः सुशोभना

॥१८॥

सिंहारूढा दशभुजा दशायुधविराजिताः ।

वैनायकीः करिकरा नानाभूषाविराजिताः

॥१९॥

सिद्धिबुद्धियुताः पार्श्वे किरीटकुण्डलोज्वलाः ।

पीतवस्त्रपरीधानाः सर्पभूषाविराजिताः ।

तस्मिन्मण्डपमध्ये ताः स्थापयित्वा यथाविधि ।

पुपूजुः परया भक्त्या षोडशैरुपचारकैः

॥२०॥

पञ्चामृतैः शुद्धजलैर्वस्त्रगन्धादिदीपकैः ।

नैवेद्यैर्विविधश्चैव फलैरारार्तिकः शुभैः

॥२१॥

एवं सम्पूज्य ते मन्त्रं जेपुः सवितृतुष्टये ।

अस्तं याते सवितरि सन्ध्यां कृत्वाऽस्तुवन्विभुम्

॥२२॥

सर्वे ऊचुः

दीननाथ दयासिन्धो योगिहृत्पद्मसंस्थित ।

अनादिमध्यरहितस्वरूपाय नमो नमः

॥२३॥

जगद्भास चिदाभास ज्ञानगम्य नमो नमः ।

मुनिमानसविष्टाय नमो दैत्यविघातिने

॥२४॥

त्रिलोकेश गुणातीत गुणक्षोभ नभो नमः ।

त्रैलोक्यपालन विभो विश्वव्यापिन् नमो नमः

॥२५॥

मायातीताय भक्तानां कामपूराय ते नमः ।

सोमसूर्याग्निनेत्राय नमो विश्वम्भराय ते

॥२६॥

अमेयशक्तये तुभ्यं नमस्ते चन्द्रमौलये ।

चन्द्रगौराय शुद्धाय शुद्धज्ञानकृते नमः

॥२७॥

क उवाच

एवं स्तुवत्सु देवेषु तेजोराशिरभूत्पुरः ।

सर्वे हतदृशो देवा विस्मिता अभवँस्तदा

॥२८॥

ततस्तत्कृपया देवः सौम्यतेजा अजायत ।

ततस्ते ददृशुर्दैवं सिंहारूढं विनायकम्

॥२९॥

दशायुधधरं तावद्भुजं दिव्यकिरीटिनम् ।

नानाभूषाभिरामं च मुक्तादामविभूषितम्

॥३०॥

दिव्यगन्धानुलेपाढ्यं व्यालबद्धोदरं विभुम् ।

क्षुद्रघण्टाक्वणत्पादं कस्तूरीतिलकोज्ज्वलम्

॥३१॥

एवं दृष्ट्वा सुरा देवं नमस्कृत्योचिरे तदा ॥

यश्चिन्तितो गुरोर्वाक्यात् स एवायं विनायकः

॥३२॥

स एव दृष्टः साक्षात् तु वाङ्मनोऽगोचरो विभुः ।

जन्म धन्यं दृशिर्धन्या तपोदानं च नः सुराः

॥३३॥

तत ऊचे सुरान् देवस्तृप्तोऽहं भवतां स्तवैः ॥

पूजयाचैव भक्त्या च सङ्कष्टीव्रततोऽपिच

॥३४॥

सङ्कष्टहरमेतच्च स्तोत्रं ख्यातं भविष्यति ।

यः पठेत्प्रयतो नित्यं स मे मान्यो भवेत्सुराः

॥३५॥

तस्य दर्शनतः सर्वे नश्येयुर्यक्षराक्षसाः ।

भोगान्भुनक्ति विविधानन्ते मोक्षपदं लभेत्

॥३६॥

श‍ृण्वन्तु मे पुनर्वाक्यं सिन्धुदैत्येन पीडिताः ।

शरणं मे प्रपन्नाश्च यज्ञवेदाविवर्जिताः

॥३७॥

निरुद्धा गण्डकीदेशे स्वधास्वाहाविवर्जिताः ।

ततो ह्यस्य वधं कर्तुमवतारान्तरं मम

॥३८॥

गिरिजाया गृहे देवा भविष्यामि च साम्प्रतम् ।

मयूरेश्वरनाम्नाऽहं ख्यातिं यास्ये तदा च वः

॥३९॥

पदानामाश्रमाणां च प्राप्तिः सिन्धौ हते मया ।

भविष्यति न सन्देह यतः कृतयुगे सुराः

॥४०॥

सिंहारूढो दशभुजस्तेजोरूपी विनायकः ।

षड्भुजः शशिवर्णश्च त्रेतायां बर्हिवाहनः

॥४१॥

मयूरेश्वरनामा च द्वापरे रक्तवर्णवान् ।

चतुर्बाहुराखुवाहो भूत्वा चाहं गजाननः

॥४२॥

ततः कलियुगे प्राप्ते श्यामवर्णो दृषन्मयः ।

धूमकेतुरिति ख्यातो भविष्यामि सुरा अहम्

॥४३॥

शीघ्रमेव करिष्यामि भवतां वाञ्छितं सुराः ।

क उवाच ।

एवं निवेद्य तान् देवस्तत्रैवाऽन्तर्दधे विभुः

॥४४॥

आनन्दं च सुरा प्रापुः स्वकार्य कृतनिश्चयाः ।

य इदं परमाख्यानं श‍ृणुयाच्छ्रावयेच्च यः

॥४५॥

पठेच्च परया भक्त्या ध्यात्वा देवं विनायकम् ।

सर्वान् कामानवाप्नोति प्रेत्य ब्रह्ममयो भवेत्

॥४६॥

इति श्रीगणेशपुराणे क्रीडाखण्डे सुरर्द्धिवरप्रदानं नामाष्टसप्ततितमोऽध्यायः ॥ ७८ ॥