बालचरिते चत्वारिंशोऽध्यायः
गृत्समद उवाच
ततः केदारमगमन्सर्वे देवर्षयस्तदा ।
व्यजिज्ञपुः पद्मभवं सशिवं सर्ववित्तमम्
॥१॥प्रणभ्य शिरसा सर्वे वागीन्द्राग्निपुरःसराः ।
देवर्षय ऊचुः ।
पदभ्रष्टा वयं देवाः स्वाचारन्मुनयोऽपि च
॥२॥दुरासदभिया देव स्नानं कर्तुं न च क्षमाः ।
केनास्मै हि वरो दत्तो येनासौ भुवनेश्वरः
॥३॥जातो दुष्टो वधश्चास्य कस्मादेतद् विचिन्त्यताम् ।
येनैव सौख्यं लोकानां तत्कर्तव्यं दयालुभिः
॥४॥क उवाच
इति तद्वचनं श्रुत्वा प्रोवाच चतुराननः ।
उपायं कथयिष्यामि तद्वधाय सुरर्षयः
॥५॥यदा तेन तपस्तप्तं दारुणं बहुवासरम् ।
ददावस्मै वरान्देवो ह्यनन्तानम्बिकापतिः
॥६॥एनं यो घातयेद्देवः स नास्ति भुवनत्रये ।
कदाचिद्देवदेवोऽसौ गुणत्रयविभागकृत्
॥७॥अहं शिवश्च विष्णुश्च त्रेधा जाता यदाज्ञया ।
गुणत्रयविभागात्स गुणेश इति पप्रथे
॥८॥विश्वव्यापी च मायावी विश्वकर्ताऽपहारकः ।
गुणातीतो गुणेशश्च परात्परतरः शिवः
॥९॥बिभृयात्सोऽवतारं चेत्पार्वत्या जठरे विभुः ।
तदैव तस्य नाशः स्यान्नान्यथा सुरसत्तमः ।
स्तुवन्तु सर्वे तस्मात्तं विश्वचिन्ताकरं प्रभुम् ।
आदौ कुरुत तां देवीं प्रसन्नां भववल्लभाम्
॥१०॥तत्तेजःसम्भवो बालो दुरासदवधे भवेत् ।
एवमेव वरस्तेन शङ्करेण कृतोऽस्य ह
॥११॥मुनिरुवाच
एवं वाक्यं ब्रह्ममुखाच्छ्रुत्वा देवा जहर्षिरे ।
तुष्टुवुर्भवकान्तां तां भवानीं भक्तवत्सलाम्
॥१२॥देवर्षय ऊचुः
नमामहे त्वां जगदेकहेतुं परात्परां विश्वविचित्रशक्तिम् ।
अचिन्त्यरूपां त्रिदशैरशेषैरशेषवन्द्यां त्रिगुणां गुणेशाम्
॥१३॥धराधरां त्वां धरणीस्वरूपामाधारभूतां स्थिरजङ्गमानाम् ।
त्रैलोक्यसारां त्रिगुणादिभूतां त्रयीतनुं तां त्रिदशस्वरूपाम्
॥१४॥नमामहे देवि वरप्रदां त्वां विष्णोर्विमोहां पददां सुराणाम् ।
भक्तार्तिहन्त्रीं सकलार्थदात्रीं त्रैलोक्यकर्त्रीं निखिलार्थगोप्त्रीम्
॥१५॥एवं स्तुत्वा तदा देवीं जगाद सुरसत्तमान् ।
वृणुध्वं वाञ्छितं देवाः स्तोत्रेणानेन तोषिता
॥१६॥ददामि सकलान्कामान्भवतां ये मनोगतान् ।
तत ऊचुः सुराः सर्वे वृत्तान्तं ब्रह्मणेरितम्
॥१७॥तत ऊचे च तान्देवी स्तुवन्तु गणनायकम् ।
शुभाशुभस्य यः कर्ता सर्वासिद्धिकरो विभुः
॥१८॥अवाप्तसर्वकामार्थः सर्वस्य जगतः पिता ।
ततस्ते तुष्टुवर्देवं भक्त्या सर्वे विनायकम्
॥१९॥देवर्षय ऊचुः
नताः स्मो विघ्नकर्तारं दयालुं सर्वपालकम् ।
सर्वस्य जगतो हेतुं सर्वव्यापिनमीश्वरम्
॥२०॥अनेकशक्तिसंयुक्तं सर्वकामप्रपूरकम् ।
दीनानुकम्पिनं देवं सर्वज्ञं करुणानिधिम्
॥२१॥स्वेच्छोपात्ताकृतिं नैकावतारनिरतं सदा ।
गुणातीतं गुणक्षोभं चराचरगुरुं विभुम्
॥२२॥एकदन्तं द्विदन्तं च त्रिनेत्रं दशहस्तकम् ।
शुण्डादण्डमुखं विघ्ननाशनं पापहारकम्
॥२३॥भक्तानां वरदं नित्यं सृष्टिस्थित्यन्तकारकम् ।
अनादिमध्यनिधनं भूतादिं भूतवर्धनम्
॥२४॥त्रिलोकेशं सुराधीशं दुष्टदानवमर्दनम् ।
लम्बकर्णं बृहद्भानुं व्यालभूषाधरं शुभम्
॥२५॥एवं स्तुत्वा तु तं देव गणेशं सर्वसिद्धिदम् ।
शुश्रुवुस्ते नभोवाणीं माभूद् वो मानसो ज्वरः
॥२६॥दुरासदं महावीर्यं हनिष्यामि भयङ्करम् ।
इति श्रुत्वा नभोवाणीं पुनः शङ्करमाययुः ।
ध्याननिष्ठं च ते दृष्ट्वा प्रणम्योचुश्च पार्वतीम्
॥२७॥देवा ऊचः ।
न जानीमो नभोवाणीं केनेमामीरितां शुभे ।
हरस्य ध्याननिष्ठात्वात् कथं कुर्मोऽखिलेश्वरि
॥२८॥देव्युवाच
ततो देवा इदानीं यो निश्चयं स मरिष्यति ।
तस्याः क्रोधेन तप्ताया निश्वसन्त्याः पुनःपुनः
॥२९॥आस्यान्नासापुटान्नेत्रान्निःसृतं तेज उत्तमम् ।
ज्वालामालाकुलं दग्धुं ब्रह्माण्डमिव चोद्यतम्
॥३०॥प्रत्याहतदृशः सर्वे ददृशुर्ज्ञानचक्षुषा ।
वैनायकीं महामूर्तिं दशहस्तां तमोनुदाम्
॥३१॥बिभ्रतीं मुकुटं रत्नकोटिसूर्यसमप्रभाम् ।
विद्युत्पभामहारत्नकुण्डले रदनं शुभम्
॥३२॥दिव्याम्बरे च सिन्दूरमायुधानि दशैव च ।
कस्तूरीतिलकं भाले मालां हृदि फलान्विताम्
॥३३॥यत्तेजो व्यानशे विश्वं प्रलयानलसन्निभम् ।
व्यालयज्ञोपवीतं च ज्ञात्वा नेमुः सुरास्तदा
॥३४॥प्रार्थयामासुरथ ते आनन्दघनमीश्वरम् ।
दृष्टोऽतियोगगम्यस्त्वमप्रतर्क्योऽव्ययःस्वराट्
॥३५॥निरामयो निराभासो निर्विकल्पोऽजरोऽमरः ।
सर्वस्वरूपः सर्वेशःस्वप्रकाशो जगन्मयः
॥३६॥अव्यक्तो जगदाधारो ब्रह्मरूपोऽखिलार्थदृक् ।
पुराणपुरुषो ज्ञानमूर्तिर्वाचामगोचरः
॥३७॥वयं धन्या वयं धन्या दृष्ट्वा तं ननृतुः सुराः ।
मुनिरुवाच ।
यथा देवैर्वर्णितोऽसौ तेजोरूपी विनायकः
॥३८॥एवमेव जगन्माता प्रशशंस गजाननम् ।
निर्गुणं यन्निराकारमव्यक्तं सर्वगं परम्
॥३९॥ध्यानगम्यं चिदाभासं सच्चिदानन्दविग्रहम् ।
सर्वव्यापी जगद्धेतुरद्य यावद् विचिन्तितम्
॥४०॥विनायकस्वरूपेण साकारं दृष्टमद्ययत् ।
अवतीर्णं मम गृहे हन्तुं दैत्याननेकशः
॥४१॥जगतामुपकाराय पातुं विश्वं चराचरम् ।
पुपूज पार्वती भक्त्या ददौ सिंहं स्ववाहनम्
॥४२॥वक्रतुण्डेति नामास्य दध्रे सर्वार्थदं नृणाम् ।
दुरासदस्य च वधं प्रार्थयामास तं तदा
॥४३॥देवानां च पदप्राप्तिं निःसपत्नामयाचत्
॥४४॥इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते विनायकावतरणं नाम चत्वारिंशोऽध्यायः ॥ ४० ॥