नगरीनिरोधो नाम द्विषष्टितमोऽध्यायः
क उवाच
रौद्रकेतोस्तु या भार्या शारदाख्या द्विजस्य सा ।
विदर्भ्यामुपविष्टा सा सखीभिः कौतुकान्विता
॥१॥(वृष्यां समुपविष्टा) नरान्तकस्य च शिरोऽकस्मात् ताभिर्ददर्श ह ।
पतितं प्राङ्गणे कर्णकुण्डलाभ्यां विराजितम्
॥२॥नादयत्पत्तनं सर्वं शिखरं पार्वतं यथा ।
श्यामलं हिमसंसृष्टं विशोभं कमलं यथा
॥३॥बिभ्यतो रौद्रकेतुश्च शारदाघात विव्हला ।
सावधानौ ददृशतू रुदतः स्म भृशं तदा
॥४॥लुण्ठतः स्म धरण्यां तौ ताडयन्तौ च वक्षसि ।
मूर्छामवापतुरुभौ मुहूर्तादिव चेतनाम्
॥५॥माता शुशोच तदा हृदि स्थाप्य त तच्छिरः ।
चक्रन्दे विव्हला सा गौर्मृतवत्सा यथा भृशम्
॥६॥शारदोवाच
वीरश्रिया व्याप्ततनू रणायैव समुत्सुकः
॥७॥प्रोक्तवान्न हि किञ्चिन्मामिदानीं गिरमाहर
॥८॥क्व गतः पूर्वकायस्ते शिरसैव समागतः ।
एकाकी कथमायतः क्व ते सैन्यं महत्तरम्
॥९॥क्व ते जलधरा याताश्छत्रचामरधारिणः ।
यं दृष्ट्वा वरकामिन्यो म्लायन्ते विरहाग्निना
॥१०॥स कथं म्लानतां यातो रविरस्तानुगो यथा ।
किं मया ह्यपराद्धं ते पित्रा वा वत्सलेन च
॥११॥किमर्थं वदसे नैव रुददश्रु प्रमार्ज्य नः ।
परार्ध्यास्तरणोपेते मञ्चके स्वापतत्परः
॥१२॥क्वेदानीं परिसुप्तोऽसि खिद्यते मे मनो भृशम् ।
विनाभूतौ त्वया नेशावास्यं सन्दर्शितुं सुत
॥१३॥क उवाच
शारदायाः शुचं श्रुत्वा रौद्रकेतुः शुशोच ह ।
विना वृत्तान्तकथनात् क्व गतोऽसि प्रियात्मज
॥१४॥प्रत्यहं सर्ववृत्तान्तं जातं भाविनमेव च ।
संश्रावयसि स्वस्थानमिदानीं किन्न भाषसे
॥१५॥यदि त्वं सम्मुखे युध्यन् ध्यारापूतो दिवं गतः ।
मामपृच्छ्य च मां त्यक्त्वा कथं त्वं परिजग्मिवान्
॥१६॥कथं त्वया कृता पित्रोः पुत्रता शत्रुतापि च ।
यदा त्वं सेवककरात् खड्गं गृह्णासि स्वं करे
॥१७॥तदा सपर्वतवना सस्वर्गा कम्पते च भूः ।
स केन पातितो मह्यां न जाने कालपर्ययम्
॥१८॥देवं हि बलवल्लोके पौरुषं तु निरर्थकम् ।
भूषणं मम वंशस्य लोकस्य च गतं क्व नु
॥१९॥लोकस्यापि च यः कालः पञ्चास्योऽरिगजस्य यः ।
स कथं त्वं द्विधाभूतो वाताहत इव द्रुमः
॥२०॥प्रतापसविता राजँस्तूलदाहहुताशनः ।
क उवाच ।
एवं नानाविधं शोकं रौद्रकेतुश्च शारदा
॥२१॥कृत्वा मूर्धानमादाय देवान्तकमगच्छताम् ।
भद्रासनात्समुत्थाय त्वरया तो तथाविधौ
॥२२॥दृष्ट्वा कण्ठं समालिङ्ग्य रुरोदावरजं तदा ।
तत्परीवारभूता ये दैत्याः कालयमोपमाः
॥२३॥रुरुदुःसुस्वरं तत्र दृष्ट्वा नारान्तकं शिरः ।
मातुर्हस्ताच्छिरो गृह्य तत्स्वे हृदि निधाय च
॥२४॥चक्रन्द कुररीवासौ भ्रातृस्नेहेन दुःखितः ।
देवान्तक उवाच ।
समं भुक्तं समं पीतं क्रीडितं सुप्तमुत्थितम्
॥२५॥समं तप्तं समं जप्तं क्व गतोऽसि विहाय माम् ।
यस्य ते दर्शनान्मर्त्याः सुरा यान्ति दिशो दश
॥२६॥स कथं निहतः केन दुष्टेन च बलीयसा ।
रसा रसातलं चैव तवैव च निवेदितम्
॥२७॥विहाय मां कथं स्वर्ग गतोऽसि भ्रातृवत्सल ।
यस्य ज्याघोषमाकर्ण्य कम्पते स्म चराचरम्
॥२८॥असङ्ख्याता नृपा यस्य साम्ने द्वारगता बभुः ।
स कथं पितरौ हित्वा गतश्च सुन्दरां त्रियम्
॥२९॥एवं तत्क्रन्दनं श्रुत्वा वीरलोका समाययुः ।
हेतुभिर्वारयामासुर्बलाद्धृत्वा तु तं करैः
॥३०॥जना ऊचुः
न वीराः परिशोचन्ति वीरे युद्धे हते नृप ।
विघ्नन्ति तं बलाद्गत्वा येनासौ निहतो भवेत्
॥३१॥मृत्युस्तु सर्वजन्तूनां सह देहेन जायते ।
सोऽद्य वर्षशतेनापि भविष्यति न संशयः
॥३२॥स्वस्य वान्यस्य वा राजन् तत्र का परिदेवना ।
श्रुत्वा वाक्यं तु लोकानां तदा देवान्तकोऽसुरः
॥३३॥सावधानमना भूत्वा पितरौ प्राह धर्मवित् ।
मा शोचतमहं यामि ग्रसितुं तं निजं रिपुम्
॥३४॥वदतं क्व निवासोऽस्य येन बन्धुर्हतो मम ।
तं हत्वा सुखमेष्यामि बन्धुं यास्यामि वा मृतः
॥३५॥मम भ्रूभङ्गमात्रेण कम्पते भुवनत्रयम् ।
मयि क्षुब्धे तु कस्राता लोकानां पितरौ यतः
॥३६॥क उवाच
श्रुत्वा देवान्तकवचः आश्वस्तौ तावुभौ तदा ।
शोकसागरमग्नौ तावद्धृतौ तेन वाक्यतः
॥३७॥ऊचतः परमं वाक्यं ज्येष्ठपृष्टौ सविस्तरम् ।
काशिराजेति विख्यातो राजापरमधार्मिकः
॥३८॥वैवाहिको महोत्साहस्तद्गृहे समपद्यत ।
आकारिताः सर्वजनाः कश्यपस्यात्मजोऽपि च
॥३९॥स बाल एव बलवान्विनायक इति स्मृतः ।
तेन मार्गे हतो भ्राता धूम्राक्षो मम पुत्रक
॥४०॥तस्य प्रत्याम्नायकृते प्रेषिता वीरसम्मताः ।
धावमाना ययुस्ते च सहस्रार्द्ध निशाचराः
॥४१॥सप्तवर्षेण ते सर्वे नाशिता मुनिसूनुना ।
तेषां प्रत्याम्नायकृते स्वयं यातो नरान्तकः
॥४२॥अनेकशस्त्रसम्पन्नश्चतुरङ्गबलान्वितः ।
एकोऽपि नागतस्तस्मादकस्माद्ददृशे शिरः
॥३४॥शोकं कृत्वा तव पुर आनीतं तच्छिरोऽधुना ।
क उवाच ।
इति तद्वाक्यमाकर्ण्य च कम्पे रक्तलोचनः
॥४४॥देवान्तकश्चोदतिष्ठद् ग्रसन्निव जगत्त्रयम् ।
उवाच गर्वमोहेन पितरं वेगवत्तरम्
॥४५॥कालं हनिष्येऽखिलघ्नं न्युब्जां पृथ्वीं विधाय च ।
करिष्ये क्रोधदृष्टयैव ब्रह्माण्डं भस्मसात्क्षणात्
॥४६॥इत्युक्त्वा क्ष्वेडितं कृत्वा जगतीं कम्पयन्निव ।
देवाधिकारे ये दैत्यास्तान्सर्वान्नाजुहाव च
॥४७॥नत्वा तौ पितरौ वाक्यं प्रोचे देवान्तकस्तदा ।
इदानीं मुनिपुत्रं तमानयिष्यामि सत्वरम्
॥४८॥सहैव तेन दास्यामि मूर्ध्न्यस्य च धनञ्जयम् ।
एवमुक्त्वा बलात्सर्वे उड्डीय सहसा च ते
॥४९॥देवान्तकोऽप्य सङ्ख्याता विहङ्गा इव शीघ्रगाः ।
काशिराजपुरीं प्राप्ये वेष्टयेयुः समन्ततः
॥५०॥कोलाहलो महानासीद् रजसाच्छादिता दिशः ।
न प्रकाशो रवेरासीत्पौराश्च चुक्रुशुर्भृशम्
॥५१॥नरान्तके हते द्वित्रिदिवसा नैव यद्गताः ।
तत्कथं पुनरायातः प्रलयोऽत्र जनापहः
॥५२॥कोऽयं प्रचण्डदेहेन दुष्प्रेक्ष्यो वै समागतः ।
क्षमः कालं कलयितुं भक्षितुं वा जगत्त्रयम्
॥५३॥दैत्यानां परिखा जाताः प्रेषिता दैत्यपुङ्गवाः ।
हतास्तेनाथ ते सर्वे गन्तुं मार्गो न विद्यते
॥५४॥एवं तदस्तु पौरेषु तावद् दूताः समागताः ।
काशिराजं कथयितुं देवान्तकसमागमम्
॥५५॥इति श्रीगणेशपुराणे क्रीडाखण्डे नगरीनिरोधो नाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥