व्यासानुग्रहसिद्धिक्षेत्रवर्णनं नाम पञ्चाशदुत्तरशततमोऽध्यायः
सोमकान्त उवाच
कथं प्रादुरभूद्देवः पुरस्तस्य महात्मनः ।
भृगो तत्सर्वमाख्याहि श्रुत्वा पापक्षयो यतः
॥१॥भृगुरुवाच
यथा तत्पुरतः प्रादुरासीद् देवो गजाननः ।
तत्सर्वं कथयिष्येऽहं सादरं शृणु भूमिप
॥२॥रक्तमाल्याम्बरधरो रक्तगन्धानुलेपनः ।
गजाननोऽब्जनयनः सिन्दूरारुणमस्तकः
॥३॥अनेकसूर्यसङ्काशो दिव्यकुण्डलमण्डितः ।
अङ्गदे मुकुटं बिभ्रत् कङ्कणे शेषमेव च
॥४॥मुनिरित्थं निरीक्ष्यैनं निमील्य नयने पुनः ।
चकम्पे भयसंत्रस्तः स्मृत्वा मन्त्रं मुमूर्च्छ च
॥५॥ततोऽब्रवीन्नागमुखो मा भैस्त्वं मुनिसत्तम ।
यं ध्यायसि दिवारात्रौ सोऽहं त्वां समुपागतः
॥६॥ब्रह्मादीनामगम्यो यो वरं दातुं मुने तव ।
भृगुरुवाच ।
श्रुत्वेत्थं मधुरां वाणीं जहर्ष मुनिपुङ्गवः
॥७॥मूर्द्धानं न्यस्य तत्पादे धन्योऽहं पितरौ तपः ।
धन्योऽहं धरणी वृक्षाः पुनः पुनरवीवदत्
॥८॥यतो दृष्टः सर्वरूपो गुणातीतोऽखिलाश्रयः ।
चिदानन्दघनोऽनन्तोऽखिलकारणकारणम्
॥९॥एवं स्तुत्वा प्रार्थयन् स वरदन्तं गजाननम् ।
मुनिरुवाच ।
निरस्य भ्रान्ति सर्वां मे यच्छ भक्तिं दृढां त्वयि
॥१०॥अष्टादशपुराणानां यथा स्यां करणे क्षमः ।
तवापि स्तवने शक्तिः स्याद्यथा तत्कुरुष्व भोः
॥११॥हृदये वस देवेश प्रसन्नश्चेन्ममानघ ।
गजानन उवाच ।
त्वया यत्प्रार्थितं वत्स सर्वमद्य भविष्यति
॥१२॥सर्वमान्यो व्यासनामा सर्वपावनपावनः ।
अपरोक्षज्ञानवांश्च भविष्यसि गुरोर्गुरुः
॥१३॥नारायणपरः ख्यात्या गुणैः कीर्त्या श्रियापि च ।
अष्टादशपुराणानां कर्ता त्वं हि भविष्यसि
॥१४॥तथैवोपपुराणानां तावतां च मुनीश्वर ।
त्वया पूर्वं दम्भवशान्न कृतं मम पूजनम्
॥१५॥स्मरणं वा ततः स्तम्भो जातो वाण्या महाद्भुतः ।
धातुर्मुखाच्छ्रुतो यस्मान्महिमा तेन मेऽनघ
॥१६॥विलीनं सर्वमधुना प्रविशामि तवोदरम् ।
भृगुरुवाच ।
एवमुक्त्वा प्राविशत् स तन्मुनेरुदरं विभुः
॥१७॥प्रकाशमतुलं लेभे सूर्यकोटिसमं मुनिः ।
दीपयामास ककुभस्ततो मूर्तिं विधाय सः
॥१८॥गजाननस्य महतीं प्रासादेऽस्थापयच्च सः ।
पूजयामास विविधैरुपचारैः पृथक्पृथक्
॥१९॥सिद्धिक्षेत्रमिदं सर्वलोकानां पावनं दृशोः ।
अनुष्ठानवतां मन्त्रनानासिद्धिप्रदं शुभम्
॥२०॥एवमुक्त्वाप्यनुज्ञाप्य व्यासो नारायणस्तदा ।
पुराणं तद्गणेशस्य यच्छ्रुतं ब्रह्मणो मुखात्
॥२१॥प्राह वैशम्पायनाय ततस्तद्भुवि पप्रथे ।
तदेतदखिलं तेऽद्य मयापि कथितं नृप
॥२२॥नानेन सदृशं किञ्चित् पावनं त्रिषु विद्यते ।
लोकेषु परमानन्ददायकं नृपसत्तम
॥२३॥सोमकान्त न चाख्येममिदं दुष्टजने त्वया ।
विनीतेषु च भक्तेषु त्वयाख्येयं प्रयत्नतः
॥२४॥मया निरन्तरमिदं जप्यते स्मर्यतेऽपि च ।
तवापि करुणायोगात् कथितं राजसत्तम
॥२५॥गजाननध्यानपरो नित्यं जपपरोभव
॥२६॥इति श्रीगणेशपुराणे क्रीडाखण्डे व्यासानुग्रहसिद्धिक्षेत्रवर्णनं नाम पञ्चाशदुत्तरशततमोऽध्यायः ॥ १५० ॥