बालसञ्जीवनं नाम त्रयस्त्रिंशोऽध्यायः
क उवाच
एवं साऽनुदिनं पूज्य तुष्टाव तं विनायकम् ।
एकस्मिन् दिवसे तस्याः सख्यो दूर्वार्थमाययुः
॥१॥शुक्रमासवशान्नापुः क्वापि दूर्वाङ्कुरान् शुभान् ।
शमीपत्राणि भूयांसि गृहित्वा तु तदन्तिकम्
॥२॥आययुः परमश्रान्ता दूर्वाऽभावं न्यवेदयन् ।
शमीपत्रैः पुपूजेनं सर्वोपचारपूर्वकम्
॥३॥दूर्वां विना निराहाराऽतिष्ठत्सा नियमे रता ।
तस्य तुष्टिः परा जाता शमीपत्रैः समर्पितैः
॥४॥अशेत तत्पुरः स्वप्नमपश्यत्सा महाद्भुतम् ।
अब्दान्ते सैव मूर्तिस्तामिमां वाचमुवाच ह
॥५॥वरं ददामि ते सुभ्रु शमीपत्रैः सुतोषितः ।
सा नोवाच यदा किञ्चित् कीर्तिः सा तां पुनर्जगौ
॥६॥मूर्तिरुवाच
वश्यस्ते भविता कान्तो भोगाश्वानेकशः शुभाः ।
त्वद्भक्तिनिरतः पुत्रो भविष्यति महाबलः
॥७॥क्षिप्रप्रसादनेत्येवं कुरु नामास्य सुन्दरम् ।
तुर्येऽब्देऽस्य विषान्मृत्युर्भविष्यति पुनः क्षणात्
॥८॥गृत्समदो द्विजोभेऽत्यं पुनस्तं जीवयिष्यति ।
राज्यकर्ता चिरायुश्च धर्मशीलो भविष्यति
॥९॥इदं स्तोत्रं पठेद्यस्तु मम सन्तोषकारणम् ।
तस्य वश्यो भवेद् राजा किमन्यः प्राकृतो जनः
॥१०॥पुत्रवान् धनसम्पन्नौ वेदवेदाङपारगः ।
बुद्धिश्च वर्धते तस्य मेधावृद्धिर्भवेद् दृढा
॥११॥वाच्छिताँल्लभते सोऽर्थान् त्रिसन्ध्यं यः पठेदिदम् ।
मम भक्तिर्दृढा तस्य मोक्षश्चान्ते भविष्यति
॥१२॥एवं दत्त्वा वरान् स्वप्ने स देवो पिदधे क्षणात् ।
जागृता साश्रुनयना विस्मिता मानसेऽवदत्
॥१३॥दीनानाथेन महती कृपा मयि नियोजिता ।
अनुग्रहो महान्मह्यं यद्दत्तं दर्शनं स्वयम्
॥१४॥विनायकेन देवेन पाविता परमादरात् ।
अद्याहं तेन देवेन सर्वभूतानुकम्पिना
॥१५॥इयमेवपरा सिद्धिरिदमेव तपःफलम् ।
अयमेव परो लाभो यदवोचन्मया सह
॥१६॥क उवाच
ततः प्रभाते स्नाता सा परमानन्दनिर्भरा ।
पुपूज परया भक्त्या गणेशं वरदं शुभम्
॥१७॥समाप्य नियमं मूर्तिं पूर्वस्थाने न्यवेशयत्
॥१८॥पुरोहितं समानीय पूजयामास भक्तितः ।
गणेशं मनसा ध्यात्वा वदन्ती नाममालिकाम्
॥१९॥स्मरन्ती तद्वरान् कीर्तिः समयं च प्रतीक्षती ।
ततः कालेन महता प्रभा सा निष्प्रभाऽभवत्
॥२०॥रक्तपित्तवती जाता प्रारब्धादीश्वरेच्छया ।
करौ पादौ च नासा च तस्याः क्षरति नित्यशः
॥२१॥अतिबीभत्सरूपां तां तत्याज मनसा पतिः ।
न वक्ति नेक्षते ज्ञात्वा प्रयत्नान् निष्फलान्बहून्
॥२२॥ततः कीर्तेर्गृहं यातस्तपसा सुन्दराकृतेः ।
कृपया गणराजस्य स्वयं वश्योऽभवच्च सः
॥२३॥स गृहीत्वा करे तां तु मञ्चकं समुपानयत् ।
चिक्रीड स्वेच्छया कीर्त्या तन्निष्ठस्तत्परायणः
॥२४॥न वियोगं क्षणं तस्याः सहते नृपसत्तमः ।
साऽपि भोगानलङकाराननन्तान् बुभुजे सती
॥२५॥साऽपि गर्भवती जाता कालेन सुषुवे सुतम् ।
शुभे मुहूर्ते राजाऽसौ ददौ दानान्यनेकशः
॥२६॥पुत्रजन्मप्रहृष्टः सन् ब्राह्मणेभ्यो यथार्हतः ।
दिक्षु स्थाप्य द्विजान्पञ्च जातकर्म चकार सः
॥२७॥क्षिप्रप्रसादनेत्येवं नाम चक्रे ततोऽस्य ह ।
तुतोष पुत्रं दृष्ट्वैव नानालङकारसंयुतम्
॥२८॥अतिप्रीतिमती कीर्तिरभवत् पुत्रदर्शनात् ।
प्रभा च दुःखिता पुत्रं सपत्न्या वीक्ष्य सुन्दरम्
॥२९॥एष एव भवेद् राजा ज्येष्ठपुत्रोऽयमित्यत ।
दध्योदनं तु सविषं कीर्तिपुत्राय सा ददौ
॥३०॥स तु विव्हलतां यातो विवृत्तनयनः क्षणात् ।
प्रभैव च महाशब्दं कृत्वाऽरोदीद् भृशातुरा
॥३१॥तस्या शब्दं समाकर्ण्य कीर्तिस्तमगमत् तदा ।
तमुदन्तं सा पतये न्यवेदयत सादरम्
॥३२॥भिषजोऽपि ददुस्तस्मा औषधानि नृपाज्ञया ।
परीक्ष्य विषबाधां ते तस्मै राज्ञे न्यवेदयन्
॥३३॥न गुणाय भवन्ति स्म नानामन्त्रौषधानि च ।
प्रभातु धिक्कृता भर्त्रा निरस्ता दूरतो गृहात्
॥३४॥कीर्तिस्तं बालकं गृह्य सखीभिः काननं ययौ ।
नगराद् योजनं याति तावद् बालो ममार सः
॥३५॥अङ्के कृत्वा तु तं बालं रुरोद शोकविव्हला ।
मूर्छिता पतिता भूमौ लतेव वायुनेरिता
॥३६॥च्युतालङ्करणा ध्वस्तकङ्कणा मस्तकाञ्चला ।
क्षणेन किञ्चिदाश्वस्ता सस्मार द्विरदाननम्
॥३७॥उत्पतेः स्मरती बालचेष्टितं निघ्नती स्वहृत् ।
दैवात् तेनैव मार्गेण प्रययौ मुनिसत्तमः
॥३८॥नाम्ना गृत्समदः साधुः साक्षात्सूर्य इवापरः ।
गणेशभक्तप्रवरस्तपसां परमो निधिः
॥३९॥स तस्थौ करुणाविष्टः सा कीर्तिः प्रणनामतम् ।
उवाच श्वसती सा तं गणनाथप्रसादजः
॥४०॥अयं बालो मम मृतो जीवयैनं तपो बलात् ।
क्षिप्रप्रसादन इति नाम देवाज्ञया कृतम्
॥४१॥सपत्न्या दुष्टभावेन विषमस्मै समर्पितम् ।
ततोऽनेन समप्रापि मुने मरणमीदृशम्
॥४२॥न सतां दर्शनं व्यर्थमिति याचे तपोधन ।
शरणागतसन्त्यागं नेहन्ते साधवो जनाः
॥३३॥इति तस्या वचः श्रुत्वा मुहूर्तं ध्यानतत्परः ।
अभवन्मुनिशार्दूलस्ततो गृत्समदोऽब्रवीत्
॥४४॥शृणु देवि प्रवक्ष्येऽहमुपायं पुत्रजीवने ।
अज्ञानतः शमीपत्रैस्त्वयाऽपूजि विनायकः
॥४५॥तत्पुण्यमस्य हस्ते त्वमर्पयस्व ममाज्ञया ।
तत्प्रसादादाशु सुत उत्थास्यति तवाधुना
॥४६॥सा तु तद्वचनस्यान्ते कीर्तिहर्षसमन्विता ।
ददौ तस्मै शमीपूजासम्भवं पुण्यमुत्कटम्
॥४७॥उत्तस्थौ सुकुमारोऽस्या अमृतेनोक्षितो यथा ।
सा तु हर्षान्मुनेः पादौ ववन्दे शिरसा पुनः
॥४८॥उवाच तं मुनिं ज्ञातं कथं शम्या प्रपूजनम् ।
महिमानं वद मुने शमीपूजनसम्भवम्
॥४९॥येन सञ्जीवितो बालो मुक्तश्च यमकिङ्करैः ।
ज्ञात्वा तं च करिष्यामि नित्यं शम्याः प्रपूजनम्
॥५०॥येन वै बहुधा क्रूरा यमदूता दुरासदाः ।
निरस्ता गणनाथस्य दूतैर्बहु रणाजिरे
॥५१॥जीवयित्वा शिशुं मे ते गता धाम गजाननम् ।
येन पुण्येन बालो मे विषं त्यक्त्वा सुखी पुनः
॥५२॥सञ्जीवन्नुत्थितः शीघ्रं सुप्तोत्थित इवापरः ।
अतोऽहं परिपृच्छामि महिमानं शमीभवम्
॥५३॥क उवाच
इति तद्वचनं श्रुत्वा प्रोचे गृत्समदस्तु ताम् ।
गृत्समद उवाच ।
उच्चारिते नाम्नि यस्याः कोटिपातकनाशनम्
॥५४॥महिमानं हि कस्तस्याः साकल्पेन वदेद् भुवि ।
सङ्क्षेपेण तु वक्ष्यामि महिमानं यथामति
॥५५॥व्रतदानतपोभिश्च नानातीर्थऽनिषेवणैः ।
पञ्चाग्निसाधनैरप्सु निवासैर्हिमकालिकैः
॥५६॥न तत्फलमवाप्नोति यत् स्याच्छम्या प्रपूजने ।
प्रातःकाले त्रिसन्ध्यं वा शमीं नित्यं स्मरेत् तु यः
॥५७॥वन्दयेदर्चयेद् वापि भक्तिभावसमन्वितः ।
ध्यात्वा गजाननं देवं तस्य तुष्टो विनायकः
॥५८॥ददाति वाञ्च्छितानर्थानन्ते मोक्षं न संशयः ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
॥५९॥नारदस्य च संवादं शक्रस्य च महात्मनः
॥६०॥इति श्रीगणेशपुराणे क्रीडाखण्डे बालसञ्जीवनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥