बालचरिते हाहादिस्तुतिर्नाम नवमोऽध्यायः
क उवाच
अन्यन् ते कथयिष्यामि चरितं बालरूपिणः ।
गजाननस्याघहरं शृणुष्वेकमना मुने
॥१॥एकस्मिन् समये हाहा हूहूस्तुम्बुरुरेव च ।
वीणागानरता वीणास्ता हरिपरायणाः
॥२॥शङ्खचक्रगदापद्मतुलसीदामभूषणाः ।
गोपीचन्दनलिप्ताङ्गाः पीताम्बरधराः शुभाः
॥३॥कैलासं गन्तुकामास्ते कश्यपस्याश्रमं ययुः ।
अतिसम्मानितास्तेन पूजिताश्च यथाविधि
॥४॥उवाच प्रणतस्तान् सोऽनायासेन सतां दृशिः ।
केन पुण्येन सञ्जाता धर्मार्थकाममोक्षदा
॥५॥धन्यं तपो जनिर्मातापितरौ ज्ञानमाश्रमः ।
प्रयोजनं न जानेऽहं चलने तद् वदन्तु मे
॥६॥इति तद्वचनं श्रुत्वा सम्पृष्टास्ते तमब्रुवन् ।
कैलासं गन्तुकामानां जातं त्वद्दर्शनं हि नः
॥७॥दुरितं विलयं यातं जातं च सफलं जनुः ।
अदूरे परमा सिद्धिर्विश्रान्तिः परमा च नः
॥८॥अनुजानीहि गच्छामो गिरीशं द्रष्टुमुत्सुकाः ।
श्रुत्वा वाक्यानि तेषां तु पुनरूचे तपोनिधिः
॥९॥भुक्त्वा व्रजन्तु विश्राम्याप्यभुक्त्वेतो न को गतः ।
मज्जनाय जलं तेभ्यो दत्त्वा पाकमकारयत्
॥१०॥देवार्चनरताः स्नात्वा बभूवुर्मुनिसत्तमाः ।
तेऽपि सम्पूज्य शर्वाणी शर्वं विष्णुं विनायकम्
॥११॥रविं विष्णुमयं ध्याननिष्ठा आसन् मुहूर्ततः ।
तदा विनायको बालो रमित्वा बालकैर्बहिः
॥१२॥आगतोऽन्तर्गृहं तावत् पञ्चमूर्त्तिं ददर्श सः ।
गृहीत्वा बहिरेवाशु चिक्षेपाग्निगृहं ययौ
॥१३॥भस्माङ्गराङ्ग सर्वत्र कृत्वा लीनोऽभवच्च सः ।
विसृज्य ध्यानं नापश्यन् मूर्तीस्ते पुरतः स्थिताः
॥१४॥ततस्ते विस्मिताः सर्वे परस्परमथाब्रुवन् ।
केन दैत्येन नीता नो मूर्तयः कर्महेतवः
॥१५॥गन्धर्वा राक्षसा यक्षा नेतुं मूर्तीः किमागताः ।
किं वा सत्त्वपरीक्षार्थमन्तर्धानं गता इमाः
॥१६॥ततः क्रोधेन महता कश्यपं प्रष्टुमागताः ।
भवद्गृहे कथं ध्याननिष्ठानां मूर्तयो गताः
॥१७॥क्रीडन्ति जातिवैरास्त आश्रमे इतरेतरम् ।
देवा बिभ्यति तत् कस्मादाश्रमे दस्यवःस्थिताः
॥१८॥इति श्रुत्वा वचस्तेषां कश्यपोऽतिरुषान्वितः ।
अभोजिनो विनिश्चित्य मूर्तिप्राप्तिं विना च तान्
॥१९॥ततः शिष्यान् समाकार्य कश्यपो मुनिसत्तमः ।
तानुवाच न मे जन्मावध्यत्र तस्करोऽभवत्
॥२०॥दैवादिदानीं को जातो दस्युस्तत्र वदन्तु मे ।
क्रोधवाक्यं निशम्येत्थमूचुः शिष्या गुरुं प्रति
॥२१॥न वयं तस्कराः स्वामिन्पुत्रस्ते विदितस्तव ।
दोषानुवर्णने दोषा अस्माकं तन्न चक्ष्महे
॥२२॥तेषां ब्राह्मीं समाकर्ण्य यष्टिहस्तो मुनिस्तदा ।
पुत्रमन्वेषयन् यातो वन्ह्यागारे ददर्श तम्
॥२३॥तेषां पुरः समानीतो दृष्टस्तैः शिवसन्निभः ।
उवाच तत्समक्षं तं कश्यपः क्रोधसन्निभः
॥२४॥मूर्तीरानय शीघ्रं त्वं नो चेत्पुत्र मरिष्यसि ।
मया न नीतास्तास्तात प्रत्युवाच स निर्भयः
॥२५॥ब्रवीषि शपथं यं यं तं तमेव करोम्यहम् ।
एवं वदन् पितुर्भीत्या रुरोद भृशमर्भकः
॥२६॥प्रसार्य वदनं भूमौ पतितोभृशविव्हलः ।
जननी च तदा याता तामुवाच ततोऽर्भकः
॥२७॥यदि मे भक्षिता देवास्तर्ह्यास्ये दृश्यतां मम ।
प्रसारिते तदास्ये सा ददर्श विश्वमन्तरा
॥२८॥विस्मिता मूर्छिता भूमौ पतिता भयविव्हला ।
ततस्ते ददृशुस्तत्र गन्धर्वाः कश्यपोऽपि च
॥२९॥कैलासं शङ्करं साङ्गं वैकुण्ठं विष्णुमेव च ।
ब्रह्माणं सत्यलोकं च शक्रं चैवामरावतीम्
॥३०॥सपर्वतवनाकीर्णां धरणीं लोकसंयुताम् ।
सरितः सागरान्यक्षान् रक्षांसि पन्नगानपि
॥३१॥वृक्षान्पक्षिगणांश्चैव भुवनानि चतुर्दश ।
इन्द्रादि सर्वलोकांश्च पातालानि दिशोदश
॥३२॥ततो माता प्रबुद्धा सा स्तनपानं ददौ मुदा ।
ननाम कश्यपस्तं तु दृष्ट्वेत्थं विश्वरूपिणम्
॥३३॥तर्कयामास मनसि साक्षादीश्वर एव यः ।
अवतीर्णो मम गृहें तमहं ताडितुं गतः
॥३४॥ततः स कश्यपः प्राह भुज्यतामिति तान्प्रति ।
नायं बालस्ताडयितुं मया शक्यो महाबलः
॥३५॥भीषयन्तूग्ररूपेण समष्टिव्यष्टिरूपवान् ।
भवतां यदि शक्तिश्चेत्ताड्यतां मूर्त्तिहेतवे
॥३६॥त ऊचुर्न वयं किञ्चिद् भक्षयामस्तवालये ।
अन्नं वा कन्दमूलादि पञ्चायतनमन्तरा
॥३७॥इत्युक्तवन्तो ददृशुर्बालकं पञ्चधाऽपिते ।
शिवाशिवेनविशेभाननरूपं तमेव हि
॥३८॥प्रणेमु स्थिरचित्तास्ते पुपूजुस्तुष्टुवुर्जगुः ।
क्षणं ते ददृशुर्बालं क्षणं पञ्चस्वरूपिणम्
॥३९॥क्षणं महाभीतिकरं क्षणं तं विश्वरूपिणम् ।
ततस्तस्मै निवेद्यान्नं षड्रसं बुभुजुश्च ते
॥४०॥ततस्ते नुनुवुर्भक्त्या बालं तं विश्वरूपिणम्
॥४१॥त्रय ऊचुः
अज्ञानेन विमोहितं जगदिदं संसारचक्रे भ्रमन् नानाभेदधिया स्वरूपविमुखं नानाविधिभ्रामितम् ।
नानापाशनियन्त्रितं निजकृतैः कर्माङ्कुरैर्भ्रंशितं नानारूपमरूपमेकमगुणं हित्वा भवन्तं विभो
॥४२॥अन्ये ते चरणारविन्दनिरता हित्वा फलं याजका आत्मानं स्वपरेषु वर्ष्मसु सदा सञ्चिन्तयन्तोऽमलाः ।
ते ज्ञानेन विधूय सर्वकलुषं दग्ध्वाङ्कुरान्कर्मजान् त्वामेवाशु विशन्ति सर्वसरितो वार्द्धिं यथा मेघजाः
॥४३॥ये केचिद्भजनानुरक्तमनसः सिद्धिं गता भूयसीं ते तत्रैवं निमग्नमानसतया विस्मृत्य पादाम्बुजम् ।
ते कृच्छादुपरहय चोत्तमपदं तस्मात्पतन्तो निजा- दज्ञानान्नविदुर्विषं हि पिबतो हित्वाऽमृतं दुर्लभम्
॥४४॥तस्मान्नो जननं भवेद्यदि शुभं यद्वाऽशुभं त्वत्स्मृति - रास्तां तत्र निरन्तरं शुभकरी भक्तिश्च दुःखनाशिनी ।
एवं चेद् भ्रमतां कदापि हि भवेत् संसारपाथोनिधेः निस्तारो भवतः कृपेक्षणवशात् सर्वात्मने ते नमः
॥४५॥तवावतारान् न हि कोऽपि शक्तो वेत्तुं कथं वा कतिचित् कदेति ।
योगीश मायेश गुणेश भूमन् नमो नमस्ते भगवन् नमस्ते
॥४६॥क उवाच
एवं स्तुत्वा गतास्ते तु कैलासं गिरिशालयम् ।
पञ्चायतनमर्चन्तो विस्मिता बालचेष्टितम्
॥४७॥इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते हाहाहूहूदिस्तुतिर्नाम नवमोऽध्यायः ॥ ९ ॥
आदित श्लोकानां समष्ट्यङ्काः ४४२६ + ४७ = ४४७३