बालचरिते सप्तदशोऽध्यायः
क उवाच
आगतं राजशार्दूलं पुनः पप्रच्छ सादरम् ।
मेघगम्भीरया वाचा सर्वज्ञोऽपि विनायकः
॥१॥त्वया किमुक्तं तत्राथ तेन वा भाषितं नु किम् ।
वद मे नृप तत्सर्वं श्रुत्वा वक्ष्यामि ते मतिम्
॥२॥नृप उवाच
तस्मै ते कथितं वाक्यं मयाऽपि प्रार्थितं बहु ।
स उवाच मुनिः कस्त्वं कोऽसावपि विनायकः
॥३॥उपास्यरूपं बिभृयात् तदायास्ये तमीक्षितुम् ।
एवं निरात्कृतस्तेन मार्गचिन्तापरः स माम्
॥४॥प्रेषयामास स्वगृहं दत्त्वा मूर्ध्निं करं मम ।
निमीलितदृशं चक्रे क्षणादुन्मील्य लोचने
॥५॥तावद् ददर्श पुरतः स्थितं त्वां स्वगृहे सुर ।
स्मृत्वाऽऽश्रमपदं तस्य हर्षश्चेतसि जायते
॥६॥अहसीदिति श्रुत्वैव वाक्यं तस्य विनायकः ।
विनायक उवाच ।
श्रान्तोऽसि नृपशार्दूल पुनर्गच्छ तमाश्रमम्
॥७॥गजाननेति मन्नाम श्रुत्वायास्यत्यसौ मुनिः ।
एवं वदति तस्मिंस्तु सर्वरूपे विनायके
॥८॥तावद् ददर्श भ्रूशुण्डेरात्मानमाश्रमे स्थितम् ।
पुनर्दृष्ट्वा स नृपतिं हृदि तर्कानथाकरोत्
॥९॥किमर्थं पुनरायातो राजा किं वा वदिष्यति ।
तत ऊचे नमस्कृत्य राजा तं मुनिपुङ्गवम्
॥१०॥आकारयति त्वां विप्र स्वामी तव गजाननः ।
नाममात्रे श्रुते तस्य जहर्ष च मुमूर्छ च
॥११॥रोमाञ्चितशरीरोऽसौ आनन्दाश्रु मुमोच ह ।
यदि पक्षौ भवेतां मे तदोड्डीय गतोऽभवम्
॥१२॥इत्युत्कण्ठतया विप्रः प्रतस्थे भूभुजा सह ।
भ्रूशुण्डौ चलिते पृथ्वी कदाऽप्यचलिते मुनौ
॥१३॥चचाल सम्मुखी भूत्वा कम्पन्ती तमथाब्रवीत् ।
रक्ष मां मुनि शार्दूल न भीर्मत्तो धरे तव
॥१४॥गजाननं निजं नाथं द्रष्टुं यामि त्वरान्वितः ।
इत्युक्त्वा तां पुरो यातुं चलितोऽसौ द्विजोत्तमः
॥१५॥पदे दत्ते तृतीये तु दर्शयामास तां पुरीम् ।
दृष्ट्वा पुरीं नृपो हर्षादुवाच मुनिपुङ्गवम्
॥१६॥त्वत्प्रसादादिदं प्राप्तं पत्तनं वेगवत्तया ।
तपतां जपतां दुर्ज्ञो महिमाभवतां मुने
॥१७॥इत्युक्त्वा शीघ्रमनयत् स्वगृहं तं नृपोत्तमः ।
उपवेश्य भ्रूशुण्डिं तं आसने काञ्चनोत्तरे
॥१८॥अपूजयन् महाभक्त्या पाद्यार्घविष्टरादिभिः ।
ऋषिरुवाच ।
प्रतारितोऽहं नृपते नेक्षे तावद् गजाननम्
॥१९॥तं प्रदर्शय नो चेत्त्वां शप्त्वा यास्ये निजाश्रमम् ।
नृप उवाच ।
क्रीडते बालभावेन बालमध्ये गजाननः
॥२०॥वीरो यथा धूलिलिप्तस्तथैवाऽयं विराजते ।
ददर्श च मुनिस्तं तु शुण्डादण्डविराजितम् ।
कोटिसूर्यप्रतीकाशं द्विभुजं द्विरदाननम्
॥२१॥उवाच नृपतिं क्रोधात् कथमेनं नमाम्यहम् ।
धिक्तं महान्तं यो राजन् नमतेऽसौ लघीयसे
॥२२॥तृणमत्ति कथं सिंहो गजगण्डविदारणः ।
क उवाच ।
श्रुतं तेन मुनेर्वाक्यं तमुवाच ततोऽर्भकः
॥२३॥कौतुकाविष्टचित्तोऽसौ लीलाविग्रहवान् विभुः ।
विनायक उवाच ।
कीदृक् ते स भवेत् स्वामी भ्रूशुण्डे वद साम्प्रतम्
॥२४॥मुनिरुवाच
दिव्याम्बरो दशभुजो मुक्तामालाविभूषितः ।
सिद्धिबुद्धियुतः कर्णकुण्डलाभ्यां विराजितः
॥२५॥शुण्डादण्डमुखो लम्बकर्णः सिन्दूरमण्डितः ।
अहिशोभिमहानाभिः क्वणच्चरणनूपुरः
॥२६॥महामुकुटशोभाढ्यो दशायुधलसत्करः ।
एकदन्तो भालचन्द्रः क्षुद्रघण्टा विराजितः
॥२७॥मयूरवाहनो देववृन्दवन्दितपादुकः ।
क उवाच ।
इति तद्वचनं श्रुत्वा पद्मासनगतः स्वयम्
॥२८॥तादृग्रूपोऽभवद्बालः सृष्टिरक्षापहारकृत् ।
भ्रूशुण्डीस्तं निरीक्ष्यैव स्वयोपास्यं गजाननम्
॥२९॥लुलुण्ठ भूमौ प्रेम्णा स प्रतिपत्तिपराड्ंउखः ।
ननर्त परमानन्दो रोमाञ्चितशरीरवान्
॥३०॥देहभावं प्रपद्याथ प्रणनाम यथाविधि ।
पूजयामास विधिवदुपचारैः पृथक्पृथक्
॥३१॥आलिङ्ग्य दशदोर्दण्डैः परमात्मा जहर्ष ह ।
सगद्गदौ निरीक्षैसौ तौ साश्रू राजा ततोप्यभूत्
॥३२॥ऊचे राजा महापुण्यं फलितं पूर्वजन्मजम् ।
देवभक्तभवं सौख्यं दृष्टमद्य मयाऽद्भुतम्
॥३३॥उभाभ्यां प्रणिपत्याऽथ पुपूज च यथाविधि ।
महासनगतौ तौ तु परस्परमथोचतुः
॥३४॥गजानन उवाच
तव निष्ठामयाऽज्ञायि राज्ञा चापि निवेदिता ।
अत एव धृतो वेषो दशदोर्दण्डमण्डितः
॥३५॥यथा यथा जनोऽन्योऽपि ध्यात्वा मां भजते मुने ।
तथा तथाऽहं रूपाणि करोमि च ददामि च
॥३६॥वाञ्छितं तस्य लोकस्य विश्वासे न भजत्यसौ ।
दुष्टभारभयाक्रान्ता धरित्री सत्यलोकगा
॥३७॥ब्रह्माणं शरणं याता तेनाऽहं प्रतिबोधितः ।
आदित्याश्च वरेणाऽहं जातः कश्यपनन्दनः
॥३८॥भुवो भारं हरिष्यामि शक्रादींश्च निजे पदे ।
स्थापयिष्यामि दैत्यानां नाशं कृत्वाऽप्यनेकधा
॥३९॥तवोत्कटमनुष्ठानं दृष्ट्वाऽहमीदृशोऽभवम् ।
देवान्तकं सह भ्रात्रा हत्वा यामि निजं पदम्
॥४०॥ऋषिरुवाच
दृष्ट्वा तवाङ्घ्रियुगलं सर्वलोकसुखावहम् ।
सर्वक्लेशहरं देववन्द्यं काङ्क्षितदं प्रभो
॥४१॥कृतकृत्यः पवित्रश्च जातोऽह तव दर्शनात् ।
वरं मे देहि विश्वात्मँस्तेन तृप्तो भवाम्यहम्
॥४२॥यदा यदाऽहं ध्यायामि रूपेणानेन विघ्नप ।
तदा तदा मे प्रत्यक्षो भवेथाः करुणानिधे
॥४३॥आशापूरक इत्येवं नाम तें ख्यातिमेतु च ।
गजानन उवाच ।
यदा यदा वाञ्छसे त्वं तदा यास्यामि तेऽन्तिकम्
॥४४॥भक्तिभावादिदं नाम त्वयोक्तं ख्यातिमेष्यति ।
क उवाच ।
एवं वरौ समाकर्ण्य प्रणनाम मुदा मुनिः
॥४५॥प्रणते तु मुनौ तस्मिन् पुनः प्रोचे गजाननः ।
निधाय मस्तके हस्तं शनैस्तस्य द्विजस्य सः
॥४६॥यद् यत् ते वाञ्छितं ब्रह्मन् तत्सर्वं सिद्धिमेष्यति ।
अविस्मृतिश्च भविता मम नित्यं मुने तव
॥४७॥क उवाच
एवमुक्त्वा बालरूपश्चिक्रीड स विनायकः ।
सोऽपि पद्मासनगतो ध्यानमेवान्वपद्यत
॥४८॥आश्चर्यं परमं चक्रुः सर्वलोकास्तदाऽद्भुतम् ।
निरीक्ष्य बालरूपस्य चरितं परमात्मनः
॥४९॥काशिराजोऽवदत्तत्र धन्योऽहं जगतीतले ।
दर्शनं प्राप्तवानस्य ब्रह्मादीनांसुदुर्लभम्
॥५०॥तं च बालं करे धृत्वा निनायान्तगृहं मुदा ।
भोजयामास स्वाद्वन्नं शाययामास पूर्ववत् ।
आज्ञां गृहीत्वा सुष्वाप स्वयं च पूर्ववन्मुने
॥५१॥इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते भ्रुशुण्डिगजाननमेलनं सप्तदशोऽध्यायः ॥ १७ ॥
आदितः श्लोकानां समष्ट्यड्काः ४८२८ + ५१ = ४८७९