कमलासुरवधोनाम त्र्युत्तरशतत मोऽध्यायः
क उवाच
उत्कर्षं तस्य दैत्यस्य दृष्ट्वा देवस्त्वरान्वितः ।
आययौ पुरतो दैत्यं जघान शरवृष्टिभिः
॥१॥न्यवारयत दैत्योऽपि स्वशरैरतिवेगितैः ।
ततस्तुतोष भगवान्मयूरेशो गुणाग्रणीः
॥२॥दर्शयामास तस्मै स विश्वरूपमनन्तकम् ।
दश दिक्षु मयूरेशं ददर्श कमलासुरः
॥३॥विस्मितश्छाद्य नयने हृदि तं परिदृष्टवान् ।
ततः पलायनपरो यावद्गच्छति दैत्यराट्
॥४॥शिखामाक्रम्य देवोऽपि धृत्वा प्रोवाच तं पुनः ।
तिष्ठ युध्यस्व दैत्येन्द्र स्मर वाक्यानि तानि च
॥५॥पुनर्ददर्श दैत्यस्तमेकमेव पुरः स्थितम् ।
अधावत् सहसा योद्धुं जगर्ज च महाबली
॥६॥दशायुधधरो देवो योधयामास तं तदा ।
बिभेदास्य शरीरं स विघ्नराट् शस्त्रघाततः
॥७॥यत्रास्य न्यपतद् रक्तबिन्दुस्तत्रासुरोऽभवत् ।
तद्रूपस्तद्बलश्चैवमसङ्ख्यातास्तदाऽसुराः
॥८॥नानाशस्त्रैरथास्त्रैस्ते तं जघ्नुः शरवृष्टिभिः ।
ततः परावृतो देवो मयूरेशो रुषा ज्वलन्
॥९॥सार्द्धकोटित्रयमितैः सिद्धिबुद्धी तदा बलैः ।
ईयतुः परमक्रुद्धे ततो युद्धमवर्त्तत
॥१०॥ऊचुतुर्गणराजं ते देहि भक्ष्यं क्षुधापहम् ।
त ऊचे भक्षतं देवो दैत्यासृग्जनितान्बहून्
॥११॥इत्युक्ते ते तदा तेन मयूरेशेन सत्वरमम् ।
बभक्षतुर्भूतगणैस्तान् दैत्यानखिलानपि
॥१२॥देवो जघान खड्गेन तं दैत्यं कमलासुरम् ।
पुनश्च शतशो जाता दैत्यास्तद्रक्तसम्भवाः
॥१३॥बभक्षुस्तानपि ततो पिबन्रक्तं समन्ततः ।
(पिबन्तो रक्तमुल्बणम्) ततः खिन्नो मयूरेशः शूलमुद्यम्य वेगवान्
॥१४॥तत्याज सहसा दैत्ये ययौ स प्रदहद् दिशः ।
चूर्णयन् पर्वतान् व्योम नादयन् भानि पातयन्
॥१५॥वेगेन पतितो दैत्यदेहं भित्वा द्विधाऽकरोत् ।
मस्तकस्तस्य पतितो भीमाया दक्षिणे तटे
॥१६॥कृष्णाया उत्तरे तीरे तस्थौ तत्र गुणेश्वरः ।
सर्वे सन्तुष्टमनसो जयशब्दैस्तमब्रुवन्
॥१७॥जय देव मयूरेश कुरु दुष्टविनाशनम् ।
ततस्तत्राययौ गौरीपतिर्गणपरीवृतः
॥१८॥गौतमाद्यैश्च मुनिभिः पार्वत्या च समायुतः ।
वाद्यत्सु सर्ववाद्येषु पुष्पवृष्टिः पपात खात्
॥१९॥आलिङ्ग्य पार्वती प्रादात् स्तनपानं मुदा तदा ।
मुनयस्तुष्टुवुश्चैनं मयूरेशं सुरेश्वरम्
॥२०॥कमलाकान्तहृदय हृद्दयानन्दवर्धन ।
कमलाकान्तनमित कमलासुरनाशन
॥२१॥कमलासेवितपद जय त्वं कमलाप्रद ।
कमलासनवन्द्येश कमलाकरशीतल
॥२२॥कमलाङ्कसुपादाब्ज कमलाङ्कितसत्कर ।
कमलाबन्धुतिलक भक्तानां कमलाप्रद
॥२३॥कमलासूनुरिपुज कमलासूनुसुन्दर ।
कमलापितृरत्नानां मालया जय शोभित
॥२४॥कमलासुरबाणानां कमलेन निवारक ।
कमलाक्रान्तकमलकोशजित्करपङ्कज
॥२५॥कमलापतिहस्तस्थपद्मकोशनिभेक्षण ।
सर्वहृत्कमलानन्द जय सर्वाघनाशन
॥२६॥कमलाङ्कुशहस्ताब्ज जयविघ्नहराव्यय ।
त्वया विनिहतः पापः शक्रादिभयदो रिपुः
॥२७॥वज्रचक्राद्यभेद्यो यो मुनीनामपि भीतिदः ।
एवं स्तुत्वा पुपूजस्ते गौतमाद्या महर्षयः
॥२८॥दशभिर्दोर्भिरालिङ्ग्य पुपूज गिरिशोऽपि तम् ।
ततस्ते मुनयः प्रोचुर्मयूरेशं च शङ्करम्
॥२९॥अत्रत्वं सर्वदा तिष्ठ सर्वदेवगणैर्युतः ।
पूरयन् भक्तकार्याणि वारयन्विघ्नसञ्चयान
॥३०॥क उवाच
एवं तैः प्रार्थितौ देवौ सर्वदेवगणैर्युतौ ।
पूरयन्तौ भक्तकामान् हरन्तौ विघ्नसञ्चयान्
॥३१॥स्थितौ तत्र मयूरेशशङ्करौ लोकशङ्करौ ।
विश्वकर्मा व्यधात् तत्र मन्दिरं सुन्दरं ततः
॥३२॥असङ्ख्यशिखरद्वारमसङ्ख्याश्चर्यसंयुतम् ।
तत्राभून्नगरं चारु सर्वलोकसमन्वितम्
॥३३॥मयूरेशपुरं तस्य नाम चक्रुर्महर्षयः ।
तपस्तेपुर्मुनिगणा नानाभरणसंश्रिताः
॥३४॥हरोऽपि च तपस्तेपे गिरिजागणसंयुतः ।
तस्य ध्यानं पूजनं च स्मरणं ते व्यधुर्द्विजाः
॥३५॥मयूरेशः पुनर्बालैः क्रीडति स्म यथा पुरा
॥३६॥इति श्रीगणेशपुराणे क्रीडाखण्डे कमलासुरवधोनाम त्र्युत्तरशतत मोऽध्यायः ॥ १०३ ॥