मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 144

3
क्रीडाखण्डः · 144

``उपासना योगो'' नाम सप्तमोऽध्याय

७ चतुर्थोचत्वारिंशादधिकशततमोऽध्यायः ।

वरेण्य उवाच ।

का शुक्ला गतिरुद्दिष्टा का च कृष्णा गजानन ।

किं ब्रह्मसंसृतिः का मे वक्तुमर्हस्यनुग्रहात्

॥१॥

गजानन उवाच

अग्निर्ज्योतिरहः शुक्लकर्मार्हमयनं गतिः ।

चान्द्रं ज्योतिस्तथा धूमो रात्रिश्च दक्षिणायनम्

॥२॥

कृष्णैते ब्रह्मसंसृत्योरवाप्तेः कारणं गती ।

दृश्यादृश्यमिदं सर्वं ब्रह्मैवेत्यवधारय

॥३॥

क्षरं पञ्चात्मकं विद्धि तदन्तरक्षरं स्मृतम् ।

उभाभ्यां यदतिक्रान्तं शुद्धं विद्धि सनातनम्

॥४॥

अनेकजन्मसम्भूतिः संसृतिः परिकीर्तिता ।

संसृतिः प्राप्नुवन्त्येते ये तु मां गणयन्ति न

॥५॥

ये मां सम्यगुपासन्ते परं ब्रह्म प्रयान्ति ते ।

ध्यानाद्यैरुपचारैर्मां तथा पञ्चामृतादिभिः

॥६॥

स्नानवस्त्राद्यलङ्कारसुगन्धधूपदीपकैः ।

नैवेद्यैः फलताम्बूलैर्दक्षिणाभिश्च योऽर्चयेत्

॥७॥

भक्त्यैकचेतसा चैव तस्येष्टं पूरयाम्यहम् ।

एवं प्रतिदिनं भक्त्या मद्भक्तो मां समर्पयेत्

॥८॥

अथवा मानसीं पूजां कुर्वीत स्थिरचेतसा ।

अथवा फलपत्राद्यैः पुष्पमूलजलादिभिः ।

पूजयेन्मां प्रयत्नेन तत्तदिष्टफलं लभेत्

॥९॥

त्रिविधास्वपि पूजासु श्रेयसी मानसी मता ।

साप्युत्तमा मता पूजाऽनिच्छया या कृता मम्

॥१०॥

ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिश्च यः ।

एकां पूजां प्रकुर्वाणोप्यन्यो वा सिद्धिमृच्छति

॥११॥

मदन्यं देवं यो भक्त्या द्विषन्मामन्यदेवताम् ।

सोऽपि मामेव यजते परं त्वविधितो नृप

॥१२॥

यो ह्यन्यदेवतां मां च द्विषन्नन्यां समर्चयेत् ।

याति कल्पसहस्रं स निरयान्दुःखभाक् सदा

॥१३॥

भूतशुद्धिं विधायादौ प्राणानां स्थापनं तथा ।

आकृष्य चेतसो वृत्तिं ततो न्यासमुपक्रमेत्

॥१४॥

कृत्वान्तर्मातृकान्यासं बहिश्चाथ षडङ्गकम् ।

न्यासं च मूलमन्त्रस्य ततो ध्यात्वा जपेन्मनुम्

॥१५॥

स्थिरचित्तो जपेन्मन्त्रं यथा गुरुमुखोद्गतम् ।

जपं निवेद्य देवाय स्तुत्वा स्तोत्रैरनेकधा

॥१६॥

एवं मां य उपासीत स लभेन्मोक्षमव्ययम् ।

य उपासनया हीनो धिङनरो व्यर्थजन्मभाक्

॥१७॥

यज्ञोऽहमौषधं मन्त्रोऽग्नि राज्यं च हविर्हुतम् ।

ध्यानं ध्येयः स्तुतिः स्तोत्रं नतिर्भक्तिरुपासना

॥१८॥

त्रयी ज्ञेयं पवित्रं च पिताच प्रपितामहः ।

ओङ्कारः पावनः साक्षी प्रभुर्मित्रं गतिर्लयः

॥१९॥

उत्पत्तिः पोषको बीजं शरणं वास एव च ।

असन्मृत्युः सदमृतमात्मा ब्रह्माहमेव च

॥२०॥

दानं होमस्तपो भक्तिर्जपः स्वाध्याय एव च ।

यद्यत्करोति तत्सर्वं स मे मयि निवेदयेत्

॥२१॥

योषितोऽथ दुराचाराः पापास्त्रैवर्णिकास्तथा ।

मदाश्रया विमुच्यन्ते किं मद्भक्त्या द्विजादयः

॥२२॥

न विनश्यति मद्भक्तो ज्ञात्वेमा मद्विभूतयः ।

प्रभवं मे विभूतीश्च न देवा ऋषयो विदुः

॥२३॥

नानाविभूतिभिरहं व्याप्य विश्वं प्रतिष्ठितः ।

यद्यच्छ्रेष्ठतमं लोके सा विभूतिर्निबोध मे

॥२४॥

ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे ``उपासनायोगो'' नाम सप्तमोऽध्याय

॥७॥

इति श्रीगणेशपुराणे क्रीडाखण्डे उपासनायोगोनाम चतुर्थोचत्वारिंशादधिकशततमोऽध्यायः ॥ १४४ ॥