ब्रह्मार्पणयोगोनाम तृतीयोऽध्यायः ३ चत्वारिंशादधिकशततमोऽध्यायः
श्रीगजानन उवाच
पुरा सर्गादिसमये त्रैगुण्यं त्रितनूरहम् ।
निर्माय चैनमवदं विष्णवे योगमुत्तमम्
॥१॥अर्यम्णे सोऽब्रवीत्सोऽपि मनवे निजसूनवे ।
ततः परम्परायातं विदुरेनं महर्षयः
॥२॥कालेन बहुना चायं नष्टः स्याच्चरमे युगे ।
अश्रद्धयो ह्यविश्वास्यो विगीतव्यश्च भूमिप
॥३॥एनं पुराभवं योगं श्रुतवानसि मन्मुखात् ।
गुह्याद्गुह्यतमं वेदहरस्यं परमं शुभम्
॥४॥वरेण्य उवाच
साम्प्रतं चावतीर्णोऽसि गर्भतस्त्वं गजानन ।
प्रोक्तवान्कथमेतं त्वं विष्णवे योगमुत्तमम्
॥५॥श्रीगजानन उवाच
अनेकानि च ते जन्मान्यतीतानि ममापि च ।
संस्मरे तानि सर्वाणि न स्मृतिस्तव वर्तते
॥६॥मत्त एव महाबाहो जाताविष्णवादयः सुराः ।
मय्येव च लयं यान्ति प्रलयेषु युगे युगे
॥७॥अहमेव परो ब्रह्मा महारुद्रोऽहमेव च ।
अहमेव जगत्सर्वं स्थावरं जङ्गमं च यत्
॥८॥अजोऽव्ययोऽहं भूतात्माऽनादिरीश्वर एव च ।
आस्थाय त्रिगुणां मायां भवामि बहुयोनिषु
॥९॥अधर्मोपचयो धर्मापचयो हि यदा भवेत् ।
साधून्संरक्षितुं दुष्टांस्ताडितु सम्भवाम्यहम्
॥१०॥उच्छिद्याधर्म निचयं धर्मं संस्थापयाम्यहम् ।
हन्मि दुष्टांश्च दैत्यांश्च नानालीलाकरो मुदा
॥११॥वर्णाश्रमान्मुनीन्साधून्पालये बहुरूपधृक् ।
एवं यो वेत्ति सम्भूतीं मम दिव्यां युगे युगे
॥१२॥तत्तत्कर्म च वीर्यं च मम रूपं समासतः ।
त्यक्त्वाहं ममताबुद्धिं न पुनर्भूः स जायते
॥१३॥निरीहा निर्भयारोषा मत्परा मद्यपाश्रयाः ।
विज्ञान तपसा शुद्धा अनेके मामुपागताः
॥१४॥येन येन हि भावेन संसेवन्ते नरोत्तमाः ।
तथा तथा फलं तेभ्यः प्रयच्छाम्यव्ययः स्फुटम्
॥१५॥जनाः स्युरितरे राजन् मम मार्गानुयायिनः ।
तथैव व्यवहारं ते स्वेषु चान्येषु कुर्वते
॥१६॥कुर्वन्ति देवताप्रीतिं वाञ्छन्तं कर्मणां फलम् ।
प्राप्नुवन्तीह ते लोके शीघ्रं सिद्धिं हि कर्मजाम्
॥१७॥चत्वारो हि मया वर्णा रजःसत्त्वतमोंऽशतः ।
कर्मां शतश्च संसृष्टा मृत्युलोके मया नृप
॥१८॥कर्तारमपि मां तेषामकर्तारं विदुर्बुधाः ।
अनादिमीश्वरं नित्यमलिप्तं कर्मजैर्गुणैः
॥१९॥निरीहं योऽभिजानाति कर्म बध्नाति नैव तम् ।
चक्रुः कर्माणि बुद्ध्वैवं पूर्वं पूर्वं मुमुक्षवः
॥२०॥वासनासहितादाद्यात् संसारकारणाद् दृढात् ।
अज्ञानबन्धनाज्जन्तुर्बुद्ध्वायं मुच्यतेऽखिलात्
॥२१॥तदकर्म च कर्मापि कथयाम्यधुना तव ।
यत्र मौनं गता मोहात् ऋषयो बुद्धिशालिनः
॥२२॥तत्त्वं मुमुक्षुणा ज्ञेयं कर्माकर्मविकर्मणाम् ।
त्रिविधानीह कर्माणि सुनिम्नैषां गतिप्रिय
॥२३॥क्रियायामक्रियाज्ञानमक्रियायां क्रियामतिः ।
यस्यस्यात्सहि मर्त्येऽस्मिँल्लोके मुक्तोऽखिलार्थकृत्
॥२४॥कर्माङ्कुरवियोगेन यः कर्माण्यारभेन्नरः ।
तत्त्वदर्शननिर्दग्धक्रियमाहुर्बुधा बुधम्
॥२५॥फलतृष्णां विहाय स्यात् सदा तृप्तो विसाधनः ।
उद्युक्तोऽपि क्रियां कर्तुं किञ्चिन्नैव करोति सः
॥२६॥निरीहो निगृहीतात्मा परित्यक्तपरिग्रहः ।
केवलं वै गृहं कर्माचरन्नायाति पातकम्
॥२७॥अद्वन्द्वोऽमत्सरो भूत्वा सिद्ध्यसिद्ध्योः समश्च यः ।
यथाप्राप्त्येह सन्तुष्टः कुर्वन् कर्म न बध्यते
॥२८॥अखिलैविषयैर्मुक्तो ज्ञानविज्ञानवानपि ।
यज्ञार्थं तस्य सकलं कृतं कर्म विलीयते
॥२९॥अहमग्निर्हविर्होता हुतं यन्मयि चार्पितम् ।
ब्रह्माप्तव्यं च तेनाथ ब्रह्मण्येव यतो रतः
॥३०॥योगिनः केचिदपरे दिष्टं यज्ञं वदन्ति च ॥
ब्रह्माग्निरेव यज्ञो वै इति केचन मेनिरे
॥३१॥संयमाग्नौ परेभूप इन्द्रियाण्युपजुह्वति ॥
खाग्निष्वन्ये तद्विषयान् शब्दादीनुपजुव्हति
॥३२॥प्राणानामिन्द्रियाणां च परे कर्माणि कृत्स्नशः ।
निजात्मरसिरूपेऽग्नौ ज्ञानदीप्ते प्रजुव्हति
॥३३॥द्रव्येण तपसा वापि स्वाध्याये नापि केचन ।
तीव्रव्रतेन यतिनो ज्ञानेनापि यजन्ति माम्
॥३४॥प्राणेऽपानं तथा प्राणमपाने प्रक्षिपन्ति ये ।
रुद्ध्वा गतीश्चोभयोस्ते प्राणायामपरायणाः
॥३५॥जित्वा प्राणान् प्राणगतीरूपजुव्हति तेषु च ।
एवं नाना यज्ञरता यज्ञध्वंसितपातकाः
॥३६॥नित्यं ब्रह्म प्रयान्त्येते यज्ञशिष्टामृताशिनः ।
(यज्ञाशेषामृताशिनः) अयज्ञकारिणो लोकोनायमन्यः कुतो भवेत्
॥३७॥कायिकादित्रिधाभूतान् यज्ञान् वेदे प्रतिष्ठितान् ।
ज्ञात्वा तानखिलान् भूप मोक्ष्यसेऽखिलबन्धनात्
॥३८॥सर्वेषां भूप यज्ञानां ज्ञानयज्ञः परो मतः ।
अखिलं लीयते कर्म ज्ञाने मोक्षस्य साधने
॥३९॥तज्ज्ञेयं पुरुषव्याघ्र प्रश्नेन नतितः सताम् ।
शुश्रूषया वदिष्यन्ति सन्तस्तत्त्वविशारदाः
॥४०॥नानासङ्गान् जनः कुर्वन्नैकं साधुसमागमम् ।
करोति तेन संसारे बन्धनं समुपैति सः
॥४१॥सत्सङ्गाद्गुणसम्भूतिरापदां लय एव च ।
स्वहितं प्राप्यते सर्वैरिहलोके परत्र च
॥४२॥इतरत्सुलभं राजन् सत्सङ्गोऽतीवदुर्लभः ।
यज्ज्ञात्वा न पुनर्बन्धमेति ज्ञेयं ततस्ततः
॥४३॥ततः सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति ।
अतिपापरतो जन्तुस्ततस्तस्मात्प्रमुच्यते
॥४४॥विविधान्यपि कर्माणि ज्ञानाग्निर्दहति क्षणात् ।
प्रसिद्धोऽग्निर्यथा सर्वं भस्मतां नयति क्षणात्
॥४५॥न ज्ञान समतामेति पवित्रमितरन्नृप ।
आत्मन्येवावगच्छन्ति योगात् कालेन योगिनः
॥४६॥भक्तिमानिन्द्रियजयी तत्परो ज्ञानमाप्नुयात् ।
लब्ध्वा तत्परमं मोक्षं स्वल्पकालेन यात्यसौ
॥४७॥भक्तिहीनोऽश्रद्दधानः सर्वत्रसंशयी तु यः ।
तस्य शं नापि विज्ञातमिह लोके न चापरे
॥४८॥आत्मज्ञानरतं ज्ञाननाशिताखिलसंशयम् ।
योगास्ताखिलकर्माणं बध्नन्ति भूप तानि न
॥४९॥ज्ञानखड्गप्रहारेण सम्भूतामज्ञतां बलात् ।
छित्त्वाऽन्तःसंशयं तस्माद् योगयुक्तो भवेन्नरः
॥५०॥ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थ शास्त्रे श्रीमदादि श्रीमन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे ब्रह्मार्पणयोगोनाम तृतीयोऽध्यायः
॥३॥इति श्रीगणेशपुराणे क्रीडाखण्डे ब्रह्मार्पणयोगोनाम चत्वारिंशादधिकशततमोऽध्यायः ॥ १४० ॥