मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 147

3
क्रीडाखण्डः · 147

``उपदेशयोगो'' नाम दशमोऽध्यायः

१० सप्तचत्वारिंशादधिकशततमोऽध्यायः ।

श्रीगजानन उवाच ।

दैव्यासुरी राक्षसी च प्रकृतिस्त्रिविधा नृणाम् ।

तासां फलानि चिन्हानि सङ्क्षेपात्तेऽधुना ब्रुवे

॥१॥

आद्या संसाधयेन्मुक्तिं द्वे परे बन्धनं नृप ।

चिन्हं ब्रवीमि चाद्यायास्तन्मे निगदतः श‍ृणु

॥२॥

अपैशून्यं दयाऽक्रोधश्चापल्यं धृतिरार्जवम् ।

तेजोऽभयहिंसा च क्षमा शौचममानिता

॥३॥

इत्यादिचिन्हमाद्याया आसुर्याः श‍ृणु साम्प्रतम् ।

अतिवादोऽभिमानश्च दर्पोऽज्ञानं सकोपता

॥४॥

आसुर्या एवमाद्यानि चिन्हानि प्रकृतेर्नृप ।

निष्ठुरत्वं मदो मोहोऽहङ्कारो गर्व एव च

॥५॥

द्वेषो हिंसा दया क्रोध औद्धत्यं दुर्विनीतता ।

आभिचारिककर्तृत्वं क्रूरकर्मरतिस्तथा

॥६॥

अविश्वासः सतां वाक्येऽशुचित्वं कर्महीनता ।

निन्दकत्वं च वेदानां भक्तानामसुरद्विषाम्

॥७॥

मुनिश्रोत्रियविप्राणां तथा स्मृतिपुराणयोः ।

पाखण्डवाक्ये विश्वासः सङ्गतिर्मलिनात्मनाम्

॥८॥

सदम्भकर्मकर्तृत्वं स्पृहा च परवस्तुषु ।

अनेककामनावत्त्वं सर्वदाऽनृतभाषणम्

॥९॥

परोत्कर्षासहिष्णुत्वं परकृत्यपराहतिः ।

इत्याद्या बहवश्चान्ये राक्षस्याः प्रकृतेर्गुणाः

॥१०॥

पृथिव्या स्वर्गलोके च परिवृत्य वसन्ति ते ।

मद्भक्तिरहिता लोका राक्षसीं प्रकृतिं श्रिताः

॥११॥

तामसीं ये श्रिता राजन् यान्ति ते रौरवं ध्रुवम् ।

अनिर्वाच्यं च ते दुःखं भुञ्जते तत्र संस्थिताः

॥१२॥

दैवान्निःसृत्य नरकाज्जायन्ते भुवि कुब्जकाः ।

जात्यन्धाः पङ्गवो दीनाहीनजातिषु ते नृप

॥१३॥

पुनः पापसमाचारा मय्यभक्ताः पतन्ति ते ।

उत्पतन्ति हि मद्भक्ता यां काञ्चिद् योनिमाश्रिताः

॥१४॥

लभन्ते स्वर्गतिं यज्ञैरन्यैर्धर्मैश्च भूमिप ।

सुलभा सा सकामानां मयि भक्तिः सुदुर्लभा

॥१५॥

विमूढा मोहजालेन बद्धाः स्वेन च कर्मणा ।

अहं हर्ता अहं कर्ता अहं भोक्तेति वादिनः

॥१६॥

अहमेवेश्वरःशास्ता अहं वेत्ता अहं सुखी ।

एतादृशी मतिर्नॄणामधःपातयतीह तान्

॥१७॥

तस्मादेतत् समुत्सृज्य दैवीं प्रकृतिमाश्रय ।

भक्तिं कुरु मदीयां त्वमनिशं दृढचेतसा

॥१८॥

सापि भक्तिस्त्रिधा राजन् सात्त्विकी राजसीतरा ।

यद्देवान् भजते भक्त्या सात्त्विकी सा मता शुभा

॥१९॥

राजसी सा तु विज्ञेया भक्तिर्जन्ममृतिप्रदा ।

यद्यक्षांश्चैव रक्षांसि यजन्ते सर्वभावतः

॥२०॥

वेदेनाविहितं क्रूरं साहङ्कारं सदम्भकम् ।

भजन्ते प्रेतभूतादीन् कर्म कुर्वन्ति कामुकम्

॥२१॥

शोषयन्तो निजं देहमन्तस्थं मां दृढाग्रहाः ।

तामस्येतादृशी भक्तिर्नृणां सा निरयप्रदा

॥२२॥

कामो लोभस्तथा क्रोधो दम्भश्चत्वार इत्यमि ।

महाद्वाराणि वीचीनां तस्मादेतांस्तु वर्जयेत्

॥२३॥

ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादि श्रीन्महागाणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे ``उपदेशयोगो'' नाम दशमोऽध्यायः

॥१०॥

इति श्रीगणेशपुराणे क्रीडाखण्डे उपदेशयोगोनाम सप्तचत्वारिंशादधिकशततमोऽध्यायः ॥ १४७ ॥