मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 75

3
क्रीडाखण्डः · 75

सुरपराजयो नाम पञ्चसप्ततितमोऽध्यायः

क उवाच

बुद्धिमन्तं सुतं ज्ञात्वा सवितुर्वरदर्पितम् ।

राज्यं तस्मै ददौ सर्वं देशकोशबलान्वितम्

॥१॥

पिता वनं ययौ तस्य स्वात्मसाधनलालसः ।

स तु पित्राभिषिक्तः सन् राज्यं कर्तुं मनो दधे

॥२॥

श्रेणीमुख्यान् समाहूय प्रकृतीरधिकारिणः ।

आस्थापयत् स्वाधिकारे मानयित्वांऽशुकादिभिः ।

डिण्डिरवेण स्वाज्ञाया भङ्गदोषमघोषयत्

॥३॥

दिग्जयार्थं ततो वीरानाज्ञापयत सत्वरम् ।

तेजसाऽहेपयत् सूर्यमतिभीषणविग्रहः

॥४॥

वीरा अग्रे प्रयान्ति स्म विकरालारुणाननाः ।

नग्ननानाशस्त्रधरा रजश्छादितभास्कराः

॥५॥

ततो गजाश्चतुर्दन्ता नानावर्णविभूषिताः ।

ययुर्महाश‍ृङ्खलिनः कम्पयन्तो वसुन्धराम्

॥६॥

महामात्रसमारूढाश्चञ्चलाः पर्वता इव ।

नानावर्णध्वजयुता दिग्गजान्भेत्तुमिच्छवः

॥७॥

घण्टाघोषेण महता नादयन्तो दिगन्तरम् ।

अश्वारोहा ययुः पश्चान्नानालङ्करणान्विताः

॥८॥

असङ्ख्यतूणधनुषां शस्त्राणां मण्डलान्विताः ।

सिन्धुदैत्यश्चमूमध्ये रराज हयपृष्ट्गः

॥९॥

मुक्तामालालसत्कण्ठो धनुर्बाणलसत्करः ।

खड्गखेटधरो गच्छंश्चूर्णयन्द्रुमपर्वतान्

॥१०॥

यद् यन्नगरमुद्दिश्य याति दैत्यो महाबलः ।

तस्य तस्याधिपं वीरा धृत्वा निन्युर्निजाधिपम्

॥११॥

स्वकीयं नायकं चिन्हं मुद्रां तत्र न्यवेशयन् ।

ततोऽन्ये शरणं याता दासभावमुपागताः

॥१२॥

करदाँस्तान् स कृत्वैव ररक्ष स्वपदे बलात ।

एवं सर्वान् वशं चक्रे दैत्यकोट्यस्ततोऽन्वयुः

॥१३॥

शुम्भो निशुम्भो वृत्रश्च प्रचण्डः काल एव च ।

कदम्बासुरनामाच शम्बरः कमलासुरः

॥१४॥

कोलासुरोऽब्रवीत् तत्र यथा त्रिपुरदैत्यराट् ।

विजित्य लोकत्रितयमधिकारान् हि नो ददौ

॥१५॥

तथा यच्छाधिकारान्नो जित्वा त्रैलोक्यमोजसा ।

तस्मिन् हते शिवेनाऽद्य दृष्टोऽसि प्रबलोऽसुरः

॥१६॥

न ते पराक्रमतुलां कृतान्तोऽपि लभेत् क्वचित् ।

तवाज्ञां कर्तुमिच्छामस्तव सेवां महाबल

॥१७॥

एवमाकर्ण्य तद्वाक्यं सन्तुष्टः सिन्धुदैत्यराट् ।

ददावश्वान् गजान् तेभ्यो वस्त्राणि भूषणानि च

॥१८॥

सिन्धुरुवाच

प्रबलस्तु तदाऽहं स्यां यदा जेष्येऽमरावतीम् ।

हरविष्णुसत्यलोकान् पातालानि च सप्त च

॥१९॥

क उवाच

साधु साध्विति सर्वेषु ब्रुवत्सु सर्वदैत्यपाः ।

जगर्जुश्च जहृर्षश्च ब्रह्माण्डं पर्यकम्पयन्

॥२०॥

न भूप युद्धात्कण्डूर्नो ह्यशमद् देवयुद्धतः ।

शमं यास्यत्यतो जग्मुः शीघ्रमेवावजन् दिवम्

॥२१॥

रुरुधुस्ते शक्रपुरीं ब्राह्मणा इव वित्तदम् ।

मध्यं विविशुरपरे लुण्ठन्तो रत्नसञ्चयान्

॥२२॥

कोलाहलो महानासीद् देवानां तत्र गर्जताम् ।

ततः सभामध्यगतो हरिर्दूतमुखात् ततः

॥२३॥

शुश्राव दैत्याभिगमं वेष्टितां च निजां पुरीम् ।

शीघ्रमैरावतारूढो वज्रहस्तोऽमरान्वितः

॥२४॥

आययौ तेन दैत्येन योद्धुकामः सुराधिपः ।

केचिदूचुः सुरास्तत्र नायं युद्धक्षमो हरे

॥२५॥

विना रमापतिं चास्य न समो दृश्यते क्वचित् ।

यावद् वदत्सु तेष्वेवं तावद् दैत्यो महाबलः

॥२६॥

शक्रं सुरगणैर्युक्तमविध्यच्छरवृष्टिभिः ।

तावद् देवगणाः केचित्पलायनपरा प्रयुः

॥२७॥

ततोऽधावन् महेन्द्रोऽसौ गर्जमानो रुषान्वितः ।

ग्रसन् देत्यगणान् सर्वान् वज्रोद्यतकरोऽरिहा

॥२८॥

अहनद् दैत्यराजं तं मस्तके वज्रतो दृढम् ।

स मूर्छां महतीं प्रायान् मुहूर्तात् पुनरुत्थितः

॥२९॥

उवाच च हरिं गच्छ स्वक्षयं न क्षयं व्रज ।

मम मुष्टिप्रहारेण कालो मृत्युं गमिष्यति

॥३०॥

तत्र का गणना तेऽस्ति नाश‍ृणोत्तद्धरिर्वचः ।

रोषाविष्टो महादैत्यस्ततो मुष्टिप्रहारतः

॥३१॥

बिभेदैरावतकटं रुधिरौघप्रवर्षितम् ।

तत उड्डीय दैत्यस्तच्चतुर्दन्तानधारयत्

॥३२॥

अपातयद् गजपतिमाश्चर्यं हरिराययौ ।

दधार च हरिं पादेऽपोथयद् यावदेव तम्

॥३३॥

तावत् सूक्ष्मेण वपुषा निर्गतो हस्तमध्यतः ।

ततोऽमरगणैः सार्द्धं शरणन्तं हरिं हरिः

॥३५॥

जगाम वपुषाऽन्येन विसृज्यैरावतं गजम् ।

सिन्धुदैत्यस्तु सेन्द्रेषु देवेषु विद्रुतेषु च

॥३६॥

इन्द्रासनसमारूढो दैत्यवृन्देन वेष्टितः ।

ददौ पदानि देवानां दैत्येभ्यः सकलानि सः

॥३७॥

ततः शुम्भादयो दैत्याः स्थित्तास्तेषु निराकुलाः ।

नमस्यन्तोऽसुरपतिं प्रशंसन्तो बलाधिकम्

॥३८॥

नानावादित्रनिर्घोषैर्नादयन्तस्त्रिविष्टपम्

॥३९॥

इति श्रीगणेशपुराणे क्रीडाखण्डे सुरपराजयो नाम पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥