विनायकार्भावोनाम षष्ठोऽध्यायः
भृगुरुवाच
अथ सा मेदिनी दुष्टदैत्यभारप्रपीडिता ।
वेषान्तरं समस्थाय जगाम कमलासनम्
॥१॥दीना हस्ताञ्जलिं बद्धवा जगाद पद्मसम्भवम् ।
भूमिरुवाच ।
जाताऽहं मलिना दीना हीना यज्ञव्रतादिभिः
॥२॥स्थानभ्रष्टास्तथा देवाः सेन्द्राः सर्षिगणा विधे ।
अतिभाराऽतिसन्तप्ता कं त्वाऽहं शरणं गता
॥३॥येनोपायेन दुष्टानां नाशः स्यात् तद्विधीयताम् ।
नो चेद् रसातलं यास्ये सपर्वतजनाकुला
॥४॥भृगुरुवाच
इति वाक्यं धरित्र्याः स श्रुत्वा कस्तामथाब्रवीत् ।
अहं सर्वे लोकपाला इन्द्राद्या देवतागणाः
॥५॥ऋषयोऽपि स्वधास्वाहारहिता दुःखिताभृशम् ।
भ्रष्टस्थाना भ्रष्टमन्त्रा भ्रष्टाचारा यथालये
॥६॥सर्वे वयं प्रार्थयामो देवदेवं विनायकम् ।
ब्रह्मरूपं निराकारं जगत्कारणकारणम्
॥७॥यदा साकारतां यायाल्लोकानां दैवयोगतः ।
तदा शं सर्वलोकानां स्यात् तवापि वसुन्धरे
॥८॥भृगुरुवाच
इत्युक्त्वा तुष्टुवुर्देवं ब्रह्माद्यर्षिगणा मुदा ।
निराकारं च साकारं बद्धाञ्जलिपुटास्तदा
॥९॥नमो नमस्तेऽखिल लोकनाथ नमो नमस्तेऽखिल लोकधामन् ।
नमो नमस्तेऽखिललोककारिन् नमो नमस्तेऽखिललोकहारिन्
॥१०॥नमो नमस्ते सुरशत्रुनाश नमो नमस्ते हृतभक्तपोष ।
नमो नमस्ते निजभक्तिपोष नमो नमस्ते लघुभक्तितोष
॥११॥निराकृते नित्यनिरस्तमाय परात्परब्रह्ममयस्वरूप ।
क्षराक्षरातीत गुणैर्विहीन दीनानुकम्पिन् भगवन् नमस्ते
॥१२॥निरामयायाखिलकामपूर ।
निरञ्जनायाखिलदैत्यदारिन् ।
नित्याय सत्याय परोपकारिन् समाय सर्वत्र नमो नमस्ते
॥१३॥एवं स्तुत्वा पुनः प्रोचुर्देवदेवं विनायकम् ।
ते सर्वे मुनयो देवा विव्हला भृशदुःखिताः
॥१४॥हाहाभूतं जगत्सर्वं स्वधास्वाहाविवर्जितम् ।
वयं मेरुगुहां याता आरण्याः पशवो यथा
॥१५॥अतोऽमुं त्वं महादैत्यं जहि विश्वम्भराऽधुना ।
एवं स्तुवत्स्तु सर्वेषु प्राहं वाणी नभोगता
॥१६॥कश्यपस्य गृहे देवोऽवतिरिष्यति साम्प्रतम ।
करिष्यत्यद्भुतं कर्म पदानि वः प्रदास्यति
॥१७॥दुष्टानां निधनं चैव साधूनां पालनं तथा ।
भृगुरुवाच ।
एवमाकर्ण्य तां वाचं ब्रह्मा प्रोवाच मेदिनीम्
॥१८॥क उवाच
स्वस्था भव धरे देवि नभोवाणीविनिश्चयात् ।
देवाः सर्वे मृत्युलोकेऽवतरिष्यन्ति त्वत्कृते ।
हरिष्यति महाभारमवतीर्णो विनायकः
॥१९॥भृगुरुवाच
इत्युक्त्वा सा तदा तेन ब्रह्मणा हृष्टमानसा ।
स्वस्थानमगमत् साऽथ स्वस्थचित्ता धरा तदा
॥२०॥ततो बहुतिथे कालेऽदितिः सा गर्भमादधे ।
तेजोऽतिववृधे तस्या दिने दिने यथा शशी
॥२१॥सम्पूर्णे नवमे मासे सुषुवे पुत्रमुत्तमम् ।
ब्रह्मवाक्यादभूत्ख्यातो नाम्ना कश्यपनन्दनः
॥२२॥दशभुजो बहुबलः कर्णकुण्डलमण्डितः ।
कस्तुरी विलसद्भालो मुकुटभ्राजिमस्तकः
॥२३॥सिद्धिबुद्धियुतः कण्ठे रत्नमालाविभूषितः ।
चिन्तामणिलसद्वक्षा जपापुष्पारुणाधरः
॥२४॥उन्नसो भृकुटीचारूललाटो दन्तदीप्तिमान् ।
देहकान्त्या हततमा दिव्याम्बरयुतः शुभः
॥२५॥एतादृशं निरीक्ष्यैनं बालं तत्पितरौ तदा ।
तत्तेजसा हतदृशौ किञ्चिद् द्रष्टुं न शेकतुः
॥२६॥बलादुन्मील्य नयने दृष्ट्वा तद्रूपमुत्तमम् ।
ननन्दतुरुभौ पश्चाद् बालस्ताविदमब्रवीत्
॥२७॥बाल उवाच
मातस्त्वया यतः पूर्वं सहस्रपरिवत्सरम् ।
येन रूपेण सन्ध्यातस्तनयत्वेन याचितः
॥२८॥तदा नानावरान् दत्वा पुत्रत्वं ते गतोऽधुना ।
सोऽहं भूभारहरणं विधास्ये सेवनं द्वयोः
॥२९॥ब्रह्मादीनां पदप्राप्तिर्दुष्टदैत्यविनाशनम् ।
भृगुरुवाच ।
इत्थमाकर्ण्य तद्वाक्यं सानन्दाश्रू बभूवतुः
॥३०॥चक्रवाकौ यथा वीक्ष्य नभसीव दिवाकरम् ।
ऊचतुस्तं तदा पुण्यमद्भुतं नौ समुद्यतम्
॥३१॥येन नौ पुत्रतां यातः परमात्मा विनायकः ।
धन्यं कुलं नौ पितरौ जनुषी ज्ञानमेव च
॥३२॥यतश्चराचरगुरुः सर्वसाक्षी निराकृतिः ।
नित्यानन्दमयः सत्यः पुत्रत्वमगमच्छुभम्
॥३३॥यस्मिंश्चराचरं प्रोतं सूत्रे मणिगणा इव ।
यः सर्वगः सर्ववेत्ता स एव त्वं न संशयः
॥३४॥इदं रूपं परं दिव्यमुपसंहर साम्प्रतम् ।
प्राकृतं रूपमास्थाय क्रीडस्व कुहको यथा
॥३५॥यदा यद्रूपकृत्यं ते तदा तत्त्वं विधास्यसि ।
इत्थमाकर्ण्य तद्वाक्यं पिदधे रूपमात्मनः
॥३६॥द्विभुजः प्राकृतो बालो रुरोद धरणीतले ।
रसातलं च गगनं नादयन्विदिशो दिशः
॥३७॥तच्छब्द श्रवणाद् बन्ध्या जाता गर्भवती द्रुमाः ।
नीरसा सरसाः शक्रो जहृषे देवतागणैः
॥३८॥भयं बभूव दैत्यान्ना ववृधे धरणी तदा ।
चकार जातकर्माऽस्य कश्यपो ब्राह्मणैः सह
॥३९॥प्राशयित्वा मधु घृतं पस्पर्श मन्त्रतश्च तम् ।
अपाययत् स्तनौ बालं मन्त्रपाठपुरःसरम्
॥४०॥छित्वा नालं तु सङ्क्षाल्य बालं प्रास्वापयच्च सा ।
ददौ दानान्यनेकानि ब्राह्मणेभ्यो मुनिस्तदा
॥४१॥अदापयत् प्रतिगृहं सप्तमे दिवसेऽदितिः ।
इक्षुसारं पञ्चमे तु वायनानि महामुदा
॥४२॥महोत्कटेति नामास्य चक्र एकादशे पिता ।
बालोऽपि ववृधे शीघ्रं शुक्लपक्षे यथा शशी
॥४३॥सर्वेभ्य उत्कटो यस्मान् महोत्कट इति स्मृतः
॥४४॥इति श्रीगणेशपुराणे क्रीडाखण्डे विनायकाविर्भावोनाम षष्ठोऽध्यायः ॥ ६ ॥
आदित श्लोकानां समष्ट्यङ्काः ४३०७ + ४४ = ४३५१