मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 48

3
क्रीडाखण्डः · 48

कीर्तेवरप्रदनं नामाष्टचत्वारिंशोऽध्यायः

मुनिरुवाच

त्यक्तं राज्यमिति ज्ञात्वा निजं रूपं समाश्रितः ।

अवसत् सर्वलोकानां ढुण्ढिस्तत्रार्थदायकः

॥१॥

दूतं च प्रेषयामास शीघ्रमागम्यतामिति ।

शङ्कराय महाबुद्धिस्ततः स हर्षनिर्भरः

॥२॥

आरुह्य वृषभं देवो ययौ वाराणसीं पुरीम् ।

दिव्यवादित्रनिर्घोषैः स्वगणैः परिवारितः

॥३॥

जैगीषव्यं निराहारं वल्मीकमिव संस्थितम् ।

अनुगृह्य ययौ ढुण्ढिं प्रणम्य च उवाच तम्

॥४॥

शिव उवाच

त्वमेव विश्वेश्वर विश्वरूप विश्वं सृजस्यत्सि हि पासि देव ।

शुभाशुभं कर्म निरिक्ष्य तस्य ददासि भोगं विविधं गणेश

॥५॥

ब्रह्मापि सृष्टिं कुरुतेङ्गितात्ते तद्रक्षणं चैव हरिस्थताऽहम् ।

संहारकारीह चराचरस्य विभागकृत्यं हि गुणत्रयस्य

॥६॥

तव प्रसादाद्धरिरब्जजोऽपि शिवश्च शक्तो निजकर्मसिद्धयै ।

त्वया विना वेदविधिर्वृथा स्यात् त्वदीयशक्त्या सुरशत्रुनाशः

॥७॥

अनन्तशक्तिः प्रकृतिः पुरा त्वां समर्च्य दुष्टं महिषं जघान ।

यच्छ्वासनिर्धूतनगप्रपातभीतं जगत्कृत्स्नमिदं ररक्ष

॥८॥

त्वमप्रमेयोऽखिललोकसाक्षी त्वमव्ययः कारणकारणं च ।

वेदा विकुण्ठास्त्वयि सर्व एव शेषो धराभृत्तव भक्तितो हि

॥९॥

त्वामेव नत्वा परिपूजयन्तः सन्तो यजन्ते मनसा स्मरन्तः ।

त्वय्येव भक्तिं परिकल्पयन्तो मुक्तिं भजन्ते परिवृत्तिहीनाः

॥१०॥

अनेकरूपाङ्घ्रिविलोचनस्त्वमनेकशीर्षश्रुतिबाहुजिव्हः ।

अनन्तविज्ञानघनो ह्यनेकब्रह्माण्डहेतुः परमप्रकाशः

॥११॥

तव प्रसादादविमुक्तमेतद् दृष्टं चिराद् यत्नवताऽखिलेश ।

मुनिरुवाच ।

एवं स्तुत्वा च संपूज्य प्रार्थयामास शङ्करः

॥१२॥

गतं विरहदुःखं मे प्राप्य वाराणसीं पुरीम् ।

इदानीं सर्वदा रक्ष मद्भक्तांश्च पुरीमिमाम्

॥१३॥

विना प्रसादं ते न स्यात् काशीवासः कदाचन ।

दण्डपाणेर्भैरवस्य तेऽपि यस्य कृपा भवेत्

॥१४॥

तारकं ब्रह्म तस्यान्ते दिशामि च न चान्यथा ।

माघे मासी चतुर्थ्यां यो भौमवारे विधूदये

॥१५॥

अपूपैर्मोदकैरन्यैरुपचारैः प्रपूजयेत् ।

संहृत्य तस्य सङ्कष्टं स्तोत्रपाठेन यो नुयात्

॥१६॥

तस्यापि सकलान् कामान् यच्छ लक्ष्मीमनेकधा ।

य इदं प्रातरुत्थाय त्रिसन्ध्यं वापि भक्तितः

॥१७॥

पठेत्स्तोत्रं सकृद्वापि भुक्तिर्मुक्तिश्च तस्य च ।

अन्वेषयित्वा सर्वार्थान् विदधासि नृणामिह

॥१८॥

अतो ढुण्ढिरिति ख्यातस्त्रिलोक्यां त्वं भविष्यसि ।

ढुण्ढिरित्येव तं नाम मुक्तिदं पापनाशनम्

॥१९॥

स्मरणात्सर्वकार्याणां सिद्धिदं च भविष्यति ।

मुनिरुवाच ।

एवमुक्त्वाऽस्थापयात्स गण्डकीयशिलाकृताम्

॥२०॥

मूर्तिं ढुण्ढेर्महादेवः प्रासादे चारु निर्मिते ।

ततो विवेश भवनं सर्वे देवाः स्वमन्दिरम्

॥२१॥

दिवोदासस्य मुक्तिं स ददौ भक्तस्य शङ्करः ।

गृत्समद उवाच ।

एवं विमोहितस्तेन दिवोदासः स्वमायया

॥२२॥

विष्णुना बौद्धरूपेण तस्यास्य च हितं कृतम् ।

सर्वं ते कथितं देव सामर्थ्यं ढुण्ढिना कृतम्

॥२३॥

एवं प्रभावो देवोऽसौ यद्वरादुत्थितः सुतः ।

क उवाच ।

एवं गृत्समदः प्रोक्त्वा तस्यै ढुण्डिविचेष्टितम्

॥२४॥

गृहीत्वाज्ञां ययौ शीघ्रं निजमाश्रममण्डलम् ।

तदानीमेव सा पुत्रमादाय प्रस्थिता ततः

॥२५॥

ढुण्ढेरायतनं याता नानानारीनरैर्युतम् ।

महोत्सवं प्रकुर्वद्भिर्दृष्ट्वा कीर्तिर्ननाम तम्

॥२६॥

ययौ वाराणसीं पुण्यां मरणान्मुक्तिदायिनीम् ।

माघमासे चतुर्थ्यां सा भौमवारे मुदान्विता

॥२७॥

अनेकस्वर्णपात्रस्थैः पक्वान्नैः पायसादिभिः ।

पूजितं भक्तनिवहैर्नृत्यगीतविशारदैः

॥२८॥

नानालङ्कारसंयुक्तं दिव्यमाल्याम्बरावृतम् ।

नानामणिगणोपेतं नानामुक्ताविभूषितम्

॥२९॥

सुवर्णरत्ननिचयैर्दक्षिणार्थं निवेदितैः ।

न दृश्यते देवमुखमिति चिन्तापराऽभवत्

॥३०॥

मयाऽकिञ्चनयाऽस्मै किं निवेद्यमिति साऽनघ ।

सा दूर्वाशमिमन्दारकुसुमैमार्गसञ्चितैः

॥३१॥

पुपूज परया भक्त्या पुत्रोदयमयाचत ।

शमीमन्दारदूर्वाभिर्यथा तुष्टोऽभवत्तयोः

॥३२॥

न तथा द्रव्यनिचयैर्ढुण्डिराजस्तुतोष ह ।

ततो भक्ता गताः सर्वे स्वस्वमन्दिर मादृताः

॥३३॥

उभौ तौ जननीपुत्रौ सन्निधौ तत्र तस्थतुः ।

तयोर्निराहारतया भक्तिभावेन तोषितः

॥३४॥

आविरासीन्मूर्तिमध्यात् ढुण्डिराजो महोत्कटः ।

ऊचतुर्मुनिना प्रोक्तं यत्स्वरूपं महेशितुः

॥३५॥

तदेतत् पुण्यनिचयैर्दृष्टं साक्षात्सुभास्वरम् ।

सर्वालङ्कारसंयुक्तं मुकुटेन विराजितम्

॥३६॥

दशबाहुधरं चारु नेत्रपङ्कजशोभितम् ।

अनर्घ्यरत्नमुक्तानां बिभ्रद् दाम महत्तरम्

॥३७॥

पीताम्बरयुतं दन्तविराजितमनुत्तमम् ।

दृष्ट्वैवं परमं रूपं मग्नावानन्दसागरे

॥३८॥

विस्मृतौ पूजनं कर्तुं नमस्कारं च तावुभौ ।

उवाच भगवान् देवो वरं वरय सुत्रते

॥३९॥

सुप्रसन्नः प्रदास्यामि यत्ते मनसि वर्तते ।

मुक्ताफलैर्न रत्नैश्च द्रव्यैर्नानाविधैरहम्

॥४०॥

प्रीतो यथा शमीपत्रैर्मन्दारैरपि शोभने ।

क उवाच ।

एवमाकर्ण्य तद्वाक्यं कीर्तिस्तोषमियात्परम्

॥४१॥

देहभावं समासाद्य जगाद द्विरदाननम् ।

किं स्त्रिया वचनं कार्यं सर्वज्ञे सर्वरूपिणि

॥४२॥

आज्ञयाऽथ तथाऽप्यूचे सान्निध्याल्लब्धबोधया ।

कीर्तिरुवाच ।

निष्कलो निरहंकारो निर्गुणोऽसि जगत्प्रभुः

॥४३॥

पूर्णानन्दः परानन्दः पुराणश्च परात्परः ।

दिक्पालरूपी सोमार्कसरित्सागररूपवान्

॥४४॥

त्वमेव पृथिवी वायुराकाशस्तेज एव च ।

जलं तथाऽन्तरिक्षं च गन्धर्वोरगराक्षसाः

॥४५॥

चराचरस्वरूपस्त्वं दीनानाथकृपानिधिः ।

विनायकादिरूपेण व्यक्तिं प्राप्तोऽसि साम्प्रतम्

॥४६॥

अद्य मे नयने धन्ये जन्म भर्ता सुतोऽप्ययम् ।

पितरौ च कुलं शीलं रूपं ज्ञानं तपोऽपि च

॥४७॥

जन्मान्तरीयपुण्येन दृष्टः क्षिप्रप्रसादनः ।

तवैव चाज्ञया देव स्थापिताऽस्य तवाभिधा

॥४८॥

सपत्न्याऽस्य विषं दत्तं मृत उत्थापितः पुनः ।

गत्समदेन मुनिना तव भक्त्यैव विश्वराट्

॥४९॥

शमीपत्रैश्च पूजा ते कथिता तव लब्धये ।

मुनिप्रभावाद् दृष्टोऽसि तापत्रयनिवारणः

॥५०॥

प्रसन्नश्चेद् देहि नाथ भक्तिं मम सुतस्य ते ।

त्रैलोक्येऽपि यशश्चाग्र्यं राज्ये निःसङ्गवृत्तिताम्

॥५१॥

दीर्घायुः सद्गुणग्रामं बलं कीर्तिं सुखं क्षमाम् ।

विजयं सर्वसङ्ग्रामे द्विजे देवे रतिं पराम्

॥५२॥

ढुण्ढिरुवाच

ये ये वरास्त्वया प्रोक्तास्ते ते दत्ता मयाऽनघे ।

सहस्रयज्ञकर्ताऽसौ जीवन्वर्षसहस्रकम्

॥५३॥

शान्तो दान्तो हि मद्भक्तो राज्यं कर्ता सुतस्तव ।

चतुर्भिरप्युपायैः स वशे सर्वं करिष्यति

॥५४॥

मम ध्यानं नामजपः सर्वदाऽस्य भविष्यति ।

अन्ते मम स्मृतिं कृत्वा मत्स्वरूपं प्रपत्स्यते

॥५५॥

क उवाच

एवं तस्यै वरान्दत्त्वा परितुष्टो विनायकः ।

ददौ स्वपरशुं तस्य पर्शुबाहुरिति स्फुटम्

॥५६॥

चक्रे नाम स्वयं देवस्ततश्चान्तर्हितोऽभवत्

॥५७॥

इति श्रीगणेशपुराणे क्रीडाखण्डे कीर्तेवरप्रदानं नामाष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥