गौर्यादितिविवादो नाम षण्णवतितमोऽध्यायः
क उवाच
ततः कदाचिद्गिरिजा प्रसन्नं प्राह शङ्करम् ।
शिवोवाच ।
देवेश सप्तमं वर्षं प्रवृत्तं साम्प्रतं शिशोः
॥१॥क्रियतां व्रतबन्धोऽस्य सुमुहूर्ते महोत्सवात् ।
शिव उवाच ।
सम्यगुक्तं त्वया भद्रे ज्ञात्वा चेतोगतं मम
॥२॥सम्पादयिष्ये साध्वस्य व्रतबन्धं यथाविधि ।
क उवाच ।
इत्युक्ता गिरिजां देवः समाकार्य च गौतमम्
॥३॥विचार्य सुदिने लग्नं सामग्री समपादयत् ।
मण्डपं च सुविस्तीर्णं सर्वान् ऋषिगणान्मुनीन्
॥४॥आकार्य परिपूज्यैतांस्तदाज्ञावशगो हरः ।
यथाविधि चकारास्य व्रतबन्धं मुदा तदा
॥५॥उपायनानि सर्वे ते शिवयोर्बालकस्य च ।
अष्टाशीतिसहस्रेभ्यो नमस्कृत्य हरोऽपि च
॥६॥सम्पूज्य विधिवत् प्रादान्नानोपायनसञ्चयान् ।
त्रिंशस्त्रिकोटिदेवेभ्यो यक्षेभ्योऽपि तथैव च
॥४७॥किन्नरेभ्यश्चारणेभ्यो वाद्यघोष नदत्यपि
॥७॥गायत्सु किन्नरेष्वाशु नर्तकीनां गणेषु च ।
नृत्यत्सु सर्वलोकेषु पश्यत्सु सुमहोत्सवम्
॥८॥उपायनानि दानानि ददौ हर्षात्सदाशिवः ।
देवतास्थापनं कृत्वा भोजयामास चाखिलान्
॥९॥प्रातःकाले बटुं स्नाप्य चौलकर्म समाप्य च ।
चतुर्भिर्ब्राह्मणैः सार्धं तं भोज्य संस्नाप्य वै पुनः
॥१०॥वेदिकायामन्तरा दु धृत्वा पटमनुत्तमम् ।
मुहूर्तं साधयामास मुनिभिर्मन्त्रवादिभिः
॥११॥एतस्मिन्नन्तरे दैत्यौ कृतान्तकालसंज्ञकौ ।
गजरूपधरौ मत्तौ मदोदस्राविणौ दृढौ
॥१२॥तीक्ष्णदन्तौ दीर्घशुण्डौ गगनस्पर्धिपुष्करौ ।
चीत्कारभीषितजनौ सिन्दूरारुणमस्तकौ
॥१३॥कम्पते पादघातेन ययोराशु वसुन्धरा ।
दन्ताघातेन युध्यन्तौ रजसाच्छाद्य रोदसी
॥१४॥सभाद्वारगतं शक्रकीरणं समुपागतौ ।
दन्तप्रहारैस्तद्गण्डं भिन्दन्तौ बलवत्तरम्
॥१५॥स्त्रवद्रक्तः पपातोर्व्यां मूर्छितो गजराट् क्षणात् ।
ऐरावतः पपालाशु मुहूर्तात्प्राप्य चेतनाम्
॥१६॥करिणौ पृष्ठलग्नौ तौ दन्ताघातैर्निजघ्नतुः ।
ततस्तौ मत्तमातङ्गौ सभामध्यं समीयतुः
॥१७॥शुण्डाभ्यां मण्डपं तौ तु ताडयामासतुस्तदा ।
उत्तस्थुः सर्वलोकास्ते श्रुत्वा कोलाहलं तयोः
॥१८॥यतो यतो गच्छतः स्म ततो देवाः पलायिताः ।
मुनयश्च तयोर्भीत्या दशदिक्षु पलायिताः
॥१९॥गणा ऊचुः
शिवं तत्र समाचख्युर्विघ्नमेतदुपस्थितम् ।
सेन्द्रा सभा मुनियुता विध्वस्ता गजभीतितः
॥२०॥ततः पलायिता गौरी सखीभिर्गृहमागता ।
बालस्ततो निरीक्ष्यतौ दन्तिनौ बलवत्तरौ
॥२१॥जगर्ज घनवच्छीघ्रं तयोः शुण्डे दधार ह ।
उभाभ्यामपि हस्ताभ्यां चीत्कारं तौ प्रचक्रतुः
॥२२॥भ्रामयित्वास्फालयत्स एकस्मिन्नपरं गजम् ।
उभौ तौ शतधा जातौ पतितौ धरणीतले
॥२३॥धरा च कम्पे वृक्षाश्च निपेतुश्चूर्णिता भुवि ।
ततः खण्डानि तान्याशू दूरतश्चिक्षिपुर्गणाः
॥२४॥बटुं जग्राह जननी शीघ्रमागत्य स्वे कटौ ।
सर्वे पलायिता देवा मुनयोऽनेन दानवौ
॥२५॥बालेन निहतौ शीघ्रमित्युवाच शिवां सखी ।
ततस्ते मीलिता देवा इन्द्राद्या मुनयोऽपि च
॥२६॥ऊचुर्गुणेशं ते सर्वे स्वामिन् सर्वगुणाकर ।
सर्वप्राणहरौ दैत्यो कापटयाद्गजरूपिणौ
॥२७॥निहतौ लीलया देव मायिनौ बलवत्तरौ ।
इत्युक्त्वा शक्रमुनयो देवाश्च विविशुः सभाम्
॥२८॥उपविष्टेषु सर्वेषु ननृतुश्वाप्सरोगणाः ।
ततो वाद्यान्यवाद्यन्त ब्रह्मारुद्रसमीपगः
॥२९॥दत्त्वा परस्परं प्रैषं बबन्ध मेखलां शिशोः ।
यज्ञोपवीतमजिनं होमं च समिधामपि
॥३०॥कारयामास विधिवत् सावित्रीवाचनं ततः ।
ततो माता ददौ भिक्षामंशुके भूषणानि च
॥३१॥उत्तरीयं च रत्नानि मुक्ताफलयुतानि च ।
लड्डूकान्भक्ष्यखाद्यानि त्रिशूलं शशिनं शिवः
॥३२॥ददौ नाम चकारास्य भालचन्द्र इति स्फुटम् ।
शूलपाणिरिति परं ततश्चक्रं हरिर्ददौ
॥३३॥शोचिष्कशेति नामास्य चक्रे सम्यङमहात्मनः ।
ततः पुरन्दरः पूज्य कण्ठे चिन्तामणिं ददौ
॥३४॥नाम चिन्तामणिरिति चक्रे सर्वार्थदं शुभम् ।
ददौ तदैव कमलमभ्यर्च्य कमलासनः
॥३५॥विधातेति च नामास्य स्थापयामास संसदि ।
ततः सर्वे सुरगणाः समभ्यर्च्य गुणेश्वरम्
॥३६॥नानाविधानि नामानि चक्रुः स्वस्वेच्छया सुराः ।
अदितिः कश्यपश्चाथ तं पुपूजतुरादरात्
॥३७॥दर्शयामास देवोऽपि पूर्वरूपं तयोश्शुभम् ।
भालचन्द्रं दशभुजं मुकुटेन विराजितम्
॥३८॥दिव्याम्बरं दिव्यगन्धं दिव्याभरणभूषितम् ।
सिंहारूढं विराजन्तमुरगोदरबन्धनम्
॥३९॥दृष्ट्वेत्थमदितिर्हृष्टाऽऽलिलिङ्ग स्नेहनिर्भरा ।
रोमाञ्चितशरीरा सा प्रेमगद्गदनिःस्वना
॥४०॥विस्मयं परमं प्राप्ता स्त्रवदश्रुजलाविला ।
परमानन्दमग्नाऽभूत्स्नेहस्नुतपयोधरा
॥४१॥तथैव कश्यपो देहभावं तत्याज तत्क्षणात् ।
ऊचतुस्तौ सुतस्नेहाद् वत्सावां ते वियोगतः
॥४२॥कृशतां गमितौ तेऽद्य दर्शनात्पुष्टतां गतौ ।
नायन्तव सुतेदानीं दीनौ त्वच्चरणे रतौ
॥४३॥गजानन उवाच
प्रतिश्रुतं मया मातर्दास्ये दर्शनमेकदा ।
तदिदानीं मया दत्तं न शोकं कर्तुमर्हसि
॥४४॥सर्वान्तर्यामिणो मे वै वियोगो न कदाचन ।
क उवाच ।
एवं तु वदतोरेव पार्वती समुपागता
॥४५॥उवाच परमप्रीता दृष्ट्वा स्नेहं तयोः शिशौ ।
अदिते देहि मे पुत्रं गृहीतं चिरकालतः
॥४६॥नायं तव सुतः सुभ्रु सम्यक् पश्य शुचिस्मिते ।
साऽपश्यत् पुनरेवैनं स्वस्यैव तनयं विभुम्
॥४७॥अदितिरुवाच
त्वमेव गौरि पश्याशु तनयं मे पुरः स्थितम् ।
साऽपश्यत्पुनरेर्वेनं गुणेशं तनयं स्वकम्
॥४८॥अदितिस्तां ममेत्याह पार्वती तां ममेति च ।
एवं विवदमाने तु प्राहुर्देवाः सुविस्मिताः
॥४९॥अनादिनिधनो देवः सृष्टिस्थित्यन्तकारकः ।
अनन्तरूपोऽनन्तश्रीरनेकशक्तिसंयुतः
॥५०॥कस्या अयं भवेत्पुत्र उभे भ्रान्तेऽस्य मायया ।
ते ऊचतुः ।
यस्या अयं भवेत्पुत्रस्तस्या हस्ते प्रदीयताम्
॥५१॥क उवाच
ततो देवा निरीक्षैनं नानारूपिणमीश्वरम् ।
कश्चिदाह विधाताऽयं कश्चिद्विष्णुं चतुर्भुजम्
॥५२॥कश्चित्रिलोचनं प्राह वरुणं विस्मिताः सुराः ।
ऊचुस्ते निश्चयोऽस्माभिर्विधातुं नैव शक्यते
॥५३॥भवतीभ्यां विवेकेन ग्राह्योऽयं परमः पुमान् ।
ततो गौरी गृहाणाशु तं विभुं तनयं स्वकम्
॥५४॥(ततो गौर्यगृह्णादाशु?) स्तनपानं ददौ स्नेहाददितिर्नीरसाऽभवत् ।
ममचेद्बालकोऽयं स्यात्कथं यायात्परं प्रति
॥५५॥अहं भ्रान्त्याऽभवं सक्ता परस्य तनये वृथा ।
मुनयः कश्यपश्चैनं पुपूजुस्ते गुणेश्वरम्
॥५६॥नमस्कृत्याभ्यनुज्ञाप्य ययुः स्वं स्वं निवेशनम् ।
भवानी च गृहं याता पुत्रमादाय हर्षिता
॥५७॥ततः समागताः सर्वे प्रागमन्निलयान्स्वकान्
॥५८॥इति श्रीगणेशपुराणे क्रीडाखण्डे गौर्यादितिविवादो नाम षण्णवतितमोऽध्यायः ॥ ९६ ॥