बालचरिते शुक्लवर प्रदानं नाम त्रयोविंशतितमोऽध्यायः
क उवाच
स बालो बालमध्ये तु चिक्रीडे कौतुकान्वितः ।
राजा भद्रासनगतो नृत्यं सर्वजनैः सह
॥१॥यावत्पश्यति वेश्यानां तावदेवागतावुभौ ।
देवलोकात् सदो रम्यं सनकश्च सनन्दनः
॥२॥उद्भासितं तयोर्दीप्त्या सूर्याग्न्योरिव तत् सदः ।
आसनादुदतिष्ठत् स नृपतिः सहसेक्ष्य तौ
॥३॥शिरः स्थाप्य पादपद्मे साष्टाङ्गं प्रणनाम तौ ।
बद्धाञ्जलिरुवाचाऽथ अद्य धन्यं कुलं मम
॥४॥राज्यं ज्ञानं च देहश्च पत्नीपुत्रादिकं च यत् ।
इत्युक्त्वा पाणिना धृत्वा स्वासने चोपवेश्य तौ
॥५॥उपचारैः षोडशभिरपूजयत भक्तितः ।
तौ च विश्रामयामास पादसंवानादिभिः
॥६॥पुनः पुनःप्रणम्यासौ वक्तुं समुपचक्रमे ।
राजोवाच ।
मुनीनां न्यस्तदण्डानां निस्पृहाणां च सर्वदा
॥७॥कार्यलिप्सा न काचित् स्यादाज्ञामीहे तथाऽप्यहम् ।
तपो राज्यं कुलं शीलं सार्थकं कर्तुमुद्यतः
॥८॥तावूचतुः
अवाप्तसर्वकामोऽसौ परब्रह्मस्वरूपवान् ।
लीलावतारी भगवान् कश्यपस्य सुतस्तव
॥९॥गृहे नानाकौतुकानि कुरुतेऽद्भुतविक्रमः ।
श्रुत्वाऽवदानं तस्यात्र द्रष्टुमावां समागतौ
॥१०॥अन्यथा शक्रभवनत्यागे किं नः प्रयोजनम् ।
गृहे यस्य कस्पतरुः सोऽन्यं किं याचयिष्यति
॥११॥तस्याङ्घ्रिकमलं नत्वा गच्छावः स्वस्थलं नृप ।
एवं तयोरागतयोः श्रुत्वा वाक्यं विनायकः
॥१२॥वदतोरागतः क्रीडां त्यक्त्वा मोदकहस्तकः ।
पञ्चखाद्यमयं भक्ष्यं मोदकं लीलया दधत्
॥१३॥तयोस्तं दर्शयामास नृपो हास्यपरो मृदु ।
सोऽयं समागतो देवो यद्दर्शनसमुत्सुकौ
॥१४॥आगतो यच्च कर्तव्यं कुरुतं तद् यथेष्टतः ।
तं निरीक्ष्य मुनी तौ तु परस्परमथोचतुः
॥१५॥अनेन दूषितो नूनं कश्यपो मुनिसत्तमः ।
तत्पुत्रतां समासाद्य स्वाचारं त्यजता भृशम्
॥१६॥स्पृष्टास्पृष्टविचारोऽस्य भक्ष्याभक्ष्यविधिर्न च ।
दर्शने स्पर्शने चास्य महान् दोषो भवेत् खलु
॥१७॥कथं स्वनियमाँस्त्यक्त्वा स्थितः क्षत्रियवेश्मनि ।
स्वधर्मे नः स्थितानां तु दर्शनेनाऽस्य किं भवेत्
॥१८॥शुश्राव तां गिरं देवो नृपसन्निहितस्तदा ।
उवाच वाक्यं वाक्यज्ञो वाचस्पतिरिवापरः
॥१९॥क्व गतं भवतो ज्ञानं वृथा श्रमवतोर्मुनी ।
स्वर्गं त्यक्त्वा कथमिह सम्प्राप्तौ प्राकृताविव
॥२०॥श्रुत्वेत्थं वचनं तस्य नृपतिं तावथोचतुः ।
मायामयस्य देवस्य मायया मोहितो भृशम्
॥२१॥देह्यनुज्ञां गमिष्यावो निजमाश्रम मण्डलम् ।
ततो नृपतिशार्दूलो दृढभक्ति प्रणोदितः
॥२२॥स्थीयतां श्रूयतां वाक्यं मदीयमित्युवाच तौ ।
भक्त्या च प्रार्थयामास स्नात्वा भुक्त्वाऽनुगम्यताम्
॥२३॥निशम्य प्रार्थनां तस्य मोचतुर्मुनिपुङ्गवौ ।
न भुज्येते राजकीयमन्नं तस्माद् व्रजावहे
॥२४॥तदनुज्ञां समासाद्य मणिकर्णी ततो गतौ ।
विनायकः सर्वबालैरनुयातो मुदा रमन्
॥२५॥स्नात्वा गतः शुक्लगृहं ज्ञात्वा तद्भक्तिमादृतः ।
यथा धावति गौर्वत्सं यथा माता रुदच्छिशुम्
॥२६॥यथा कृष्णः सभानीतां द्रौपदीं शरणागताम् ।
दृष्ट्वा तौ दम्पती देवं पादयोर्विनिपेततुः
॥२७॥आनन्दाश्रूणि मुञ्चन्तौ वाचा गद्गदया गिरा ।
लिलिङ्गतुर्मुदा देवं ननृतुर्हर्षनिर्भरौ
॥२८॥न विन्दतुः प्रकर्तव्यं देहातीताविवासतुः ।
रोमाञ्चाञ्चितगात्रौ तौ बाष्पधाराममुञ्चताम्
॥२९॥मुहूर्ताल्लब्धसंज्ञौ तौ नेमतुर्जगदीश्वरम् ।
तत ऊचे मुनिर्देवं दीननाथेति यत् तव
॥३०॥विख्यातं त्रिषु लोकेषु नाम पापहरं शुभम् ।
सार्थकं कृतमद्यैव जन्म नः पाददर्शनात्
॥३१॥प्रासादनिचयाँस्त्यक्त्वाऽऽगतः पर्णकुटीमिमाम् ।
धन्यो वंशो मदीयोऽद्य जन्म ज्ञानं तपो वयः
॥३२॥अपूजयत् ततस्तं स कुशासनगतं मुनिः ।
प्रक्षाल्य चरणद्वन्द्वं जलं तच्छिरसाऽदधत्
॥३३॥गन्धाक्षतं पुष्पमालां धूपं दीपं ददावथ ।
दूर्वाङ्कुरान् शमीपत्रं सुतैलं केतकं शुभम्
॥३४॥खाद्यं स्वल्पं पुरः स्थाप्य फलमारण्यकं तथा ।
पुष्पाञ्जलिं मन्त्रपूतां दत्त्वा नत्त्वा स लज्जितः
॥३५॥कदन्नं कथमस्मै तद्देयमित्येव चिन्तयन् ।
अभिप्रायं विदित्वा तं देवदेवो विनायकः
॥३६॥याचे मातः किमन्नं ते गृहे तद्दीयतां मम ।
भक्त्या दत्तं कदन्नं मेऽधिकं स्यादमृतादपि
॥३७॥विषं भवति यद्दत्तं दम्भेनाऽश्रद्धयान्वितम् ।
विस्तीर्णमोदनं शुष्कं भास्करीं बहुधान्यजाम्
॥३८॥आस्थापयत् पुरस्तस्य मुनिपत्नी ह्रियान्विता ।
तैलं च सकलं दृष्ट्वा प्राहसंस्तं च बालकाः
॥३९॥अभक्षयत् स पक्वान्नसदृशं परमादरात् ।
प्रतिग्रासं जलं पीत्वा जघास बलवत्तरम्
॥४०॥ततस्तेनोदनः पात्रं निक्षिप्तो मुनिनाऽखिलः ।
तज्जलं चलितं दिक्षु बालो रोद्धुं न चाशकत्
॥४१॥ततोऽभवद् दशभुजो बुभुजे चौदनं च तैः ।
आश्चर्यं ददृशुर्लोका हसन्तो हस्ततालतः
॥४२॥अपूर्वः पाचितोऽयं नु जानुदघ्नजलेन यः ।
इत्यूचुर्बुभुजुर्बाला रुच्या पायसकल्पया
॥४३॥साकं तेन च यैर्भुक्तं गतास्ते देवतुल्यताम् ।
अशोचन्नितरे पश्चाद् येऽहसन् विवृतै रदैः
॥४४॥कोलाहलो महानासीन्नगरे क्व विनायकः ।
केचिदूचुः शुक्लगृहे भुनक्ति शीर्णमोदनम्
॥४५॥रोद्धुं कृता दशभुजो ओदनं च भुनक्ति तैः ।
भुक्ते तस्मिन्विशुद्धे स शुष्कमामलकं ददौ
॥४६॥मुखशुद्धिं तेन चक्रे जगदात्मा विनायकः ।
प्रसन्नः शुक्लमवदत् प्रीतो भावेन तेऽनघ
॥४७॥वरान्वृणु महाभाग मत्तो यानभिकाङ्क्षसे ।
शुक्ल उवाच ।
सर्वान् नागरिकांस्त्यक्त्वा भोक्तुं रुक्षान्नमागतः
॥४८॥अयमेव वरो मह्यं यज्जातं तव दर्शनम् ।
प्रभुवाक्यानुरोधेन याचे भक्तिं त्वयि स्थिराम्
॥४९॥अन्ते मोक्षं च मे देहि येन नावर्तते पुनः ।
न संसारसुखे चित्तं रमते ते मे विनायक
॥५०॥क उवाच
एवमस्त्विति तं प्रोच्य पूर्ववद्द्विभुजः शिशुः ।
गृहं तस्मै शक्रगृहाद् वरं सद्रत्नकाञ्चनम्
॥५१॥अत्युत्तमं स्वरूपं च ज्ञानं सम्पदमर्पयत् ।
अनुज्ञातो ययौ ताभ्यामन्यत्र बालकैर्वृतः
॥५२॥इति श्रीगणेशपुराणे क्रीडाखण्डे बालचरिते शुक्लवरप्रदानं नाम त्रयोविंशतितमोऽध्यायः ॥ २३ ॥