मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

क्रीडाखण्डः, अध्याय 67

3
क्रीडाखण्डः · 67

अस्त्रयुद्धं नाम सप्तषष्टितमोऽध्यायः

क उवाच

स तज्ज्ञात्वा महाश्चर्यं चकार निजचेतसि ।

ततो विनायकः क्रोधात् सिंहारूढो रणोत्सुकः

॥१॥

स्वगर्जितेन च तदा गर्जयन् गगनं दिशः ।

कम्पयन् सर्वलोकानां मनांसि पर्वतानपि

॥२॥

ययौ वेगेन महता देवान्तकसमीपतः ।

प्रहस्य तमुवाचाथ दैत्यो देवान्तकस्तदा ।

दैत्य उवाच ।

कथं यातः शुष्कतालुर्नवनीतादनक्षमः ।

युद्धाय बाल न स्थेयं गच्छ मातुः स्तनं पिब

॥३॥

अदित्यां कश्यपाज्जातः कथं मूढ त्वमागतः ।

यतो देवान्तकेनाद्य योद्धुमिच्छसि बालक

॥४॥

कालो बिभेति मां दृष्ट्वा वृथा त्वं मर्तुमिच्छसि ।

अतिकोमलगात्रत्वाद् ग्रासमात्रं भविष्यसि

॥५॥

क उवाच

इति दैत्यवचः श्रुत्वा क्रोधसंरक्तलोचनः ।

विनायकः प्रहस्याह वमन् वक्त्राद् हुताशनम्

॥६॥

देव उवाच

क्षीवोऽसि मद्यपानेन प्रायो वा सन्निपातवान् ।

असम्बद्धं युक्तिहीनं वल्गसे मूढभावतः

॥७॥

वह्निर्दहति सर्वं हि लघुर्वायुसमीरितः ।

त्वद्वाक्यनुन्नस्त्वां हन्यां दैत्याधम न बुध्यसे

॥८॥

इदानीं त्यज बुद्धिं तां नान्तको विद्यते मम ।

त्वदर्थमवतीर्णोऽहं ब्रह्मभूतः सनातनः

॥९॥

स्थाणोर्वरस्य गर्वेण कृतं ते सर्वपीडनम् ।

अवधिं तस्य सम्प्राप्तं बुद्धिहीन न बुध्यसे

॥१०॥

त्रैलोक्यपीडया पापं यज्जातं तव दुर्मते ।

अलं ते कत्थनेनाद्य दर्शयस्व स्वपौरुषम्

॥११॥

शक्तिपायोर्विनिर्गत्य कस्त्वां वक्त्रं प्रदर्शयेत् ।

सहस्व प्रहरस्वाद्य यदि युद्धं त्वमिच्छसि

॥१२॥

श्वोभाविनं मृत्युमद्य मूढभावात्त्वमिच्छसि ।

क उवाच ।

एवमाभाष्य तं दैत्यं सज्जं चक्रे धनुः प्रभुः

॥१३॥

नरान्तगतिं तस्य दातुमिच्छन्विनायकः ।

टणत्कारेण धनुषश्चकम्पे भुवनत्रयम्

॥१४॥

आकर्णं ज्यामथाकृष्य बाणं दैत्ये ससर्ज ह ।

दैत्येन शतधा भिन्नः स बाणः पतितो भुवि

॥१५॥

ततो दैत्यो धनुः सज्यं कृत्वा चिक्षेप सायकान् ।

धनुषस्तस्य शब्देन विनेदुः पर्वता दिशः

॥१६॥

हुङ्कारेण च तान् बाणान् पातयामास विघ्नराट् ।

पुनर्विनायको बाणान् बहूँश्चिक्षेप दैत्यपे

॥१७॥

एकेन मुकुटं तस्य शरेण कर्णकुण्डले ।

भूमौ न्यपातयद्देवो बाहू द्वाभ्यां बिभेद च

॥१८॥

ललाटं सायकेनैव ततो दैत्यो रुषान्वितः ।

चचर्व दन्तान्नेत्रे च विस्फार्यान्यान् शरान्बहून्

॥१९॥

छादयन् गगनं काष्ठा विससर्ज विनायकम् ।

निरास्यैकेन बाणेन खमध्ये तान्विनायकः

॥२०॥

स्वयं चक्रे मण्डपं स क्षणाद् बाणमयं विभुः ।

अन्धकारे घोरतरे युयुधाते परस्परम्

॥२१॥

शरवृष्टया बाणवृष्टिं निजघ्नतू रुषान्वितौ ।

शतशस्तौ निराकृत्य बाणवृष्टी उभावपि

॥२२॥

ततो दैत्यो महामन्त्रं जप्त्वाऽष्टशतसङ्ख्यया ।

मन्त्रयामास तेनाशु वारणास्रेण सायकम्

॥२३॥

तत्याजाथ प्रादुरासन् वारणाः कोटिशस्ततः ।

चतुर्दन्ता गिरिनिभा मेरुमन्दरचूर्णिनः

॥२४॥

येषां मदवहा नद्यः प्रादुरासन् समन्ततः ।

येषां बृंहितमात्रेण नादितं भुवनत्रयम्

॥२५॥

यथा घनानां वर्षासु गर्जितेन महामुने ।

नाशयामासुरनिशं देवसैन्यानि ते गजाः

॥२६॥

धावतां पृष्ठलग्नास्ते गजा यान्ति दिशो दश ।

पादाघातैश्च हस्तैश्च दन्ताग्रैर्वीरघातिनः

॥२७॥

सेनायाः कदनं दृष्ट्वा सिंहास्रं प्राक्षिपद्विभुः ।

ततः सिंहाः प्रादुरासन्शतशोऽथ सहस्रशः

॥२८॥

तेषां गर्जित शब्देन गजा निपतिता भुवि ।

सिंहा विदारयामासुर्गजगण्डस्थलानि ते

॥२९॥

सिंहनादैर्बृंहितैश्च दैत्यशब्दैरनेकशः ।

त्रैलोक्यं कम्पितमभूद्देवाः सर्वे विसिस्मिरे

॥३०॥

उड्डीयोड्डीय सिंहास्ते गजकुम्भेष पेतिरे ।

एवं ते निहताः सर्वे करिणः सिंहसञ्चयैः

॥३१॥

विरेजुरिन्द्रनिहता वज्रेणेव महीधराः ।

ततः सिंहा ययुर्दैत्यान् भक्षयन्तो दिशो दश

॥३२॥

निहते सर्वसैन्ये तु चितामाप सुरान्तकः ।

अयं बालोऽपि बलवान् दृश्यते कश्यपात्मजः

॥३३॥

इदानीं दर्शयिष्येऽस्य यमस्य सदनं ध्रुवम् ।

एवमुक्त्वा पुनर्बाणं मन्त्रयामास दैत्यराट्

॥३४॥

योजयामास धनुषि शार्दूलप्रसवं तदा ।

आकर्णं धनुराकृष्य मुमोच देववाहिनीम्

॥३५॥

बाणः स च ययौ शीघ्रं नादयन्गगनं दिशः ।

यत्पुङ्खवायुना भग्ना निपेतुर्वक्षसञ्चयाः

॥३६॥

प्रादुरासन्ननेकाश्च ततः शार्दूलसञ्चयाः ।

सिंहास्ते भक्षयामासु सिंहास्तेऽन्तर्हितास्ततः

॥३७॥

इति श्रीगणेशपुराणे क्रीडाखण्डेऽस्त्रयुद्धं नाम सप्तषष्टितमोऽध्यायः ॥ ६७ ॥